________________
६६
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
इति एकज्ञानमशेषम् एकदा जगत्, पुनरपि तथा पुनरपि तथैवेति एकसन्तानमात्रमपि, इ *"परस्मै परार्थानुमानम्” [ न्यायवि० ३|१] इत्ययुक्तम् ; परस्ये अभावात् ।
एतेन नानाविज्ञानसन्तानवादी योगाचारोऽपि चिन्तितो द्रव्य इति । स्यान्मतम्–नाक्रमत्वाद् अन्तर्बहिर्मुखाभादिना संविद् ऐक्यमनुभवति येनायं दोषः स्यात्, ५ अपि तु कथञ्चित्तादात्म्येनावभासनादिति; अत्रोत्तरमाह-न क्रमाधीनं भिन्द्यादेव सुखादिकं क्रमात्तं सुखम् आदिर्यस्य दुःखादेः तत् तथोक्तम्, तन्न भिन्द्यादेव संविदम्, क्रमभावि - सुखाद्यात्मिका एका संवित् स्यात् तथाभासादिति मन्यते । तथा च परस्य क्षणप्रत्यभिज्ञा[ ५५ ] भङ्गसाधन [मन] वसरम् ।
कारिकां विवृण्वन्नाह - बहिरित्यादि । बहिश्च अन्तश्च मुखं येषां तानि च तानि विभ्रमे - १० तरविकल्पाविकल्पप्रमाणेतरत्वानि च तथोक्तानि आदिर्यस्य ग्राह्यादिनीलाद्याकारनिकुरुम्बस्य तत्तथोक्तम् । कथंभूतं तत् ? इत्याह- परस्पर इत्यादि । तत् किं कुर्यात् ? इत्याह- संविदं बुद्धिं न भिनत्ति चेद् यदि । एतदुक्तं भवति - बहिर्मुखो विभ्रमः * " सर्वमालम्बने भ्रान्तम् " [प्र० वार्तिकाल० ३।१९६] इति वचनात्, अन्तर्मुख इतरोऽविभ्रमः * “सर्वचित्त" [ न्यायबि० १।१०] इत्याद्युक्तः । एतेन विकल्पाऽविकल्पौ व्याख्यातौ । प्रमाणेतरत्वे पुनः बहिर्मुखे १५ शब्दक्षणिकत्वाद्यपेक्षया चन्द्रद्वित्वाद्यपेक्षया च, अन्तर्मुखे च संश्चेतनस्वर्गप्रापणादिसामर्थ्यापेक्षया । तदेतद् विभ्रमादिकं ग्राह्यादिकं च एकसंविदात्मकमिति । ननु च विभ्रमेतरावेव प्रमाणेतरत्वे तत्किमर्थम् इत्यदोषः [?]। अत्रोत्तरम् - हर्षेत्यादि सुगमम् । अत्र अयम [भिप्रायः ?] भिनत्ति [?] इति तदनेन निरस्तम् ; एकात्महर्षादौ साम्यात् । भवत्वेवम्; तथापि को दोष इति चेत् ? न कश्चित्, केवलम् *"यद् यथावभासते तत्तथैव परमार्थसद्व्यवहारावतारि यथा नीलं २० नीलतया अवभासमानं तथैव तद्व्यवहारावतारि, प्रतिभासन्ते च क्षणिकतया सर्वे भावाः" इत्यत्र पक्षस्य प्रत्यक्षबाधनं हेतोश्च आश्रयासिद्धिः, यतो नैरात्म्यसिद्धिः नैव नैराम्यसिद्धिः अपि तु सात्मसिद्धिरिति ।
अनेन * "सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् " [ ५५ ] [ न्यायबि० ३।९७ ] इत्यत्र यदुक्तं परेण-*“प्राणादिसत्त्वस्य (मवस्य) क्वचित् सात्मके दर्शनात् तदभावेऽपि २५ भावाशङ्काऽनिवृत्तेः अनैकान्तिकत्वम्, विज्ञानसन्तान एव भावाद् विरुद्धत्वं च" इर्ति; तन्निरस्तमिति दर्शयति । कथम् ? यदि उक्तन्यायेन तंत्र दृष्टमपि न दृष्टम् अन्यत्रे' दृष्टं वोच्यते; तर्हि अग्निमति धूमवत्त्वं दृष्टम् "तत्रादृष्टम् अन्यत्र दृष्टं वा कल्प्यताम् ।
( १ ) पुनः द्वितीया दिक्षणभाविज्ञानजातमपि परस्परं संविदं न भिनत्ति इति एकसन्तानमात्रमापतितमिति भावः । (२) प्रतिपाद्यभूतस्य सन्तानान्तरस्य । ( ३ ) प्रमाणत्वम् । (४) अप्रमाणत्वम् । (५) सत्त्वचेतनत्वाद्यपेक्षया प्रमाणत्वम्, स्वर्गप्रापणशक्त्याद्यपेक्षया अप्रमाणत्वम् इति ग्राह्यम् । (६) द्रष्टव्यम् - पृ० २ टि० १० । (७) "नेदं निरात्मकं जीवच्छरीरम् अप्राणादिमत्वप्रसङ्गात् " - न्यायवा० पृ० १२३ । (८) "साध्येतरयोरतो निश्चयाभावात् ॥ १०८ ॥ नच सात्मकानात्मकाभ्यां परः प्रकारः संभवति । ततः प्राणादिमत्त्वाद् धर्मिणि जीवच्छरीरे संशय आत्मभावाभावयोरित्यनैकान्तिकः प्राणादिरिति । " - न्यायवि० टी० पृ० २२२ । (९) सात्मके । (१०) प्राणादिमश्वम् । (११) विज्ञानसन्ताने । ( १२ ) अग्निमति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org