________________
११११]
निरंशसंवेदननिरासः स तथोक्तः । एतदुक्तं भवति-बहिर्मुखो विभ्रमः चेतः *"सर्वमालम्बने भ्रान्तम्" [प्र०वार्तिकाल० ३।१९६] इति वचनात्, अन्तमुख इतरोऽविभ्रमः चेतःस्वभावः, तथा बहिर्मुखो विकल्पः तत्स्वभावः *"ग्राह्य" [प्र० वा० ३।५३०] इत्याद्यभिधानात् अन्तर्मुख इतरोऽविकल्पः *"सर्वचित्त" न्यायबि० १।१०] इत्याद्युक्तः। तं कथम्भूतम् ? इत्यत्राह-अनेकान्तनान्तरीयकं प्रतिपद्यमानः तद् दुष्यते (द्विषतीति) अनेकान्तद्वेषी तत्कारी च अनेकान्तकारी ५ च इति हेतोः उपेक्षाम् अवज्ञाम् अर्हति । ___ननु नाऽसौ तद्वेषी तत्कारी च, सर्वदा बुद्धैः (बुद्धेः) एकस्याः चित्रायाः अभिन्नयोगक्षेमत्वेनोपगमात्, एकान्तस्य तु बहिः । तदुक्तं धर्म की र्ति ना
*"नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् । अशक्यदर्शनस्तं हि पतत्यर्थे विवेचयन् ॥ यद्यथा भासते ज्ञानं तत्तथैवानुभूयते ।
इति नामैकभावः स्यात् चित्राकारस्य चेतसि ॥" [प्र०वा० २।२२०-२१] प्रज्ञा क र गुप्ते ना प्युक्तम्-[५४ख] *"चित्रकाराप्येकैव बुद्धिः बाह्यचित्रविलक्षणत्वात् । शक्यविवेचनं हि बाह्यं चित्रम् , अशक्यविवेचनास्तु बुद्धः नीलादय आकाराः [प्र. वार्तिकाल० ३।२२०] इति चेत् ; अत्राह-अन्तर्बहिर्मुखाभादि इत्यादि। १५
[अन्तर्बहिर्मुखाभादि नाक्रमं संवेदिनम् ।
भिनत्ति चेत्क्रमाधीनं भिन्द्यादेव सुखादिकम् ॥११॥ • बहिरन्तर्मुखविभ्रमेतरविकल्पाविकल्पप्रमाणेतरत्वादि परस्पर विभिन्नं] संविदं न भिनत्ति चेत् अवयविनं कथमाक्षिपेत् [हर्षादयो वा कथमात्मानं] यतो नैरात्म्यसिद्धिः ? एकत्राभिन्नविषयेऽपि अभिलापसंसर्गयोग्यायोग्यप्रतिभासयोः संप्लवप्रवर्तनं कथन्नेच्छेत् ? २० वस्तुनः स्वभावभेदस्य वस्त्वभेदकत्वात् ।]
अन्तर्बहिश्च मुखं यस्या सा भा ग्राह्यग्राहकप्रतिभास आदिर्यस्य प्रमाणेतरत्वादेः तत् तथोक्तं तत् कर्तृ, संविदं न भिनत्ति, तत्सद्भावेऽपि एकैव संविदिति यावत् । चेद यदि । कथंभूतम् ? अक्रमम् संविदा सह उत्पत्तिविनाशानुभवाऽननुभववत् । अनेन अभिन्नयोगक्षेमत्वं दर्शितम् । अत्र दूषणं तदयमुपेक्षामर्हति । इदमत्र तात्पर्यम्-यदि अन्त- २५ बहिर्मुखाभादि अक्रमत्वात् संविदं न भिनत्ति तर्हि एकक्षणभाव्यशेषज्ञानजातमपि न भिनत्ति
(१) "रूपादेश्चेतसश्चैवमविशुद्धधियं प्रति । ग्राह्यलक्षणचिन्तयमचिन्त्या योगिनां गतिः॥"प्र. वा० ३१५३० । "अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥"-प्र. वा. ३१३५४ । (२) "सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षम्"-न्यायबि० ११०। (३) "अलब्धधर्मानुवृत्तिर्योगः, लब्धधर्मानुवृत्तिः क्षेमः।-प्र. वा. स्व. टी. १।२४ । “प्रतिक्षणं विषयपरिच्छेदलक्षणो योगः तदर्थक्रियानुष्ठानलक्षणश्च क्षेमः परिपालनरूपः।"-हेतुबि० टी० पृ. ३७ । (४) परस्परं संविदं न भिनत्ति।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org