________________
६४
सिद्धिविनिश्चयटीकायाम
[१ प्रत्यक्षसिद्धिः दृष्टमिदम् [५३ख] एकं ज्ञानं सामान्यविशिष्टवस्तुनः अवधारणात्मकं सत् विशेषानवधारणात्मकमिति । अनेन विपर्ययोऽपि व्याख्यातः । 'सोऽपि हि सामान्यविशिष्टस्य वस्तुनोऽवधारणात्मकः सन् विशेषे विपर्ययः यथा 'स्थाणौ पुरुषः' इति प्रत्यय इति । कथम् ? यदि संशयविपर्ययेतरस्वभावमेकं ज्ञानमिष्यते; तर्हि सामान्यविशेषात्मकं तथैव सर्वं स्यात् , अन्यथा अयमिति स्थाणु५ रिति पुरुष इति च प्रत्ययाः परस्परपरिहारस्थिततनवं इति न संशयादिव्यवस्था ।
व्याख्याता एकनार्थेन कारिका, द्वितीयेनेदानी व्याख्यायते-सविकल्पनिर्विकल्पयोः चेतःस्वभावयोः इति मन्यते । कस्य ? चित्तस्य इत्यनुवर्तते । तयोः कथञ्चिदेकत्वे अङ्गीक्रियमाणे । तत्र दूषणमाह-सुखदुःखयोरपि तथैव तेनैव प्रकारेण कथं न भवेद् भवेदेव कथञ्चिदेकत्वमिति ।
कुत एतत् ? प्रतिभास इत्यादि । चर्चितमेतत् । यदुक्तं धर्मोत्तरा दिना-*"कल्पनापोडमभ्रा१० न्तं प्रत्यक्षम्" [न्यायबि० १।४] इत्यत्र *"लौकिकी भ्रान्तिः केशोण्डुकादिप्रतीतिरूपा,
कल्पना च जात्यादिविशिष्टग्रहणात्मिका ।" तदनेन चर्चितम् , 'कस्यचित् चित्तस्य' इति वचनात् । स हि कस्यचित् चित्तस्य भवति न पूर्वस्य, अन्यथा कल्पनारहितस्य भ्रान्तस्य वा (चा) संभवात् लक्षणमसंभवि स्यात् प्रत्यक्षस्य । यच्चोक्तं तेनैव-*"शास्त्रीया चसकलालम्बनप्रतीतिः 'सर्वमालम्बने भ्रान्तम्' इति राद्धान्तात् ग्राह्यग्राहकाकारप्रतीतं [५४क] सर्व ज्ञानं १५ कल्पना" इति च । कथमिदमवगम्यते अविशेषेण अभिधानात् ? *"सा हि सर्वविज्ञानसाधा
रणी, तस्या ग्रहणे न किञ्चिद्विज्ञानं कल्पनापोडमभ्रान्तं वा लभ्येत" इत्यभिधानात् । तन्निराकुर्वन्नाह-तदयम् इत्यादि । तद् इत्ययं निपातः ‘सः' इत्यस्यार्थे वर्तते । ततोऽयमर्थःसोऽयं धर्मो त्त रा दिः एकान्तं क्षणिकनिरंशपरमाणुतत्त्वमात्रम् अवलम्ब्य । किम् ? इत्यत्राहबहिः इत्यादि । बहिश्च अन्तश्च मुखं निर्भासो यस्य विभ्रमेतरविकल्पेतरचेतःस्वभावस्य
(१) विपर्ययोऽपि । (२) स्वतन्त्रस्वरूपाः । (३) "केशोण्डूकादिविज्ञाननिवृत्त्यर्थमिदं कृतम् ।”तत्त्वसं० श्लो. १३१२। "तैमिरिकाणामिव केशोण्डुकाद्याभासं विनाप्यर्थसत्त्वादिति ।"-मध्यान्तवि० पृ० १५। "केशोण्डुकं यथा मिथ्या गृह्यन्ते तैमिरैर्जनैः ।"-लङ्कावतार० पृ० २७४ । "केशोण्डुका नाम पक्षिणः ये केशमूलान्युत्पाटयन्ति ।"-शिक्षासमु० पृ. ७० । “यथा चिरकालीनाध्ययनादिखिन्नस्य अस्थितस्य नीललोहितादिगुणविशिष्टः केशोण्डकाख्यः कश्चिन्नयनाग्रे परिस्फुटति । अथवा करसंमृदितलोचनरश्मिषु येयं केशपिण्डावस्था स केशोण्डकः ।" -शास्त्रदी. युक्ति० पृ० ९९ । (४) "अथ कल्पना च कीदृशी चेदाह-नामजात्यादियोजना। यदृच्छाशब्देषु नाम्ना विशिष्टोऽर्थ उच्यते डित्थ इति । जातिशब्देन जात्या गौरयमिति । गुणशब्देन गुणेन शुक्ल इति । क्रियाशब्देषु क्रियया पाचक इति । द्रव्यशब्देषु द्रव्येण दण्डी विषाणी इति ।"-प्रमाणसमु० टी० पृ० १२। न्यायप्र. वृ० पृ० ३५ । "जात्यादिसंसृष्टं तु मनोज्ञानं कल्पना इत्यन्ये कथयन्ति ।"-न्यायबि० टी० टि० पृ० २१ । “पूर्वापरमनुसन्धाय शब्दसंयुक्ताकारा प्रतीतिरन्तर्जल्पाकारा वा कल्पना ।"-तर्कभा० मो. पृ०७। (५) "सर्वमालम्बने भ्रमः ।... परमार्थतस्तु सकलमालम्बने भ्रान्तमेव"-प्र. वार्तिकाल. पृ० २८०। उद्धृतोऽयम्- सन्मति- टी. पृ० ५१२ । न्यायवि. वि. प्र. पृ. ३२०, ४६७ । (६) "योगाचारमतेन च तथागतज्ञानमद्वयं मुक्त्वा सर्व ज्ञानं ग्राह्यग्राहकत्वेन विकल्पितं कल्पना!"-न्यायबि. टी. टि. पृ० २१ । "तस्मादनादितथाभूतानुमानपरम्पराप्रवृत्तमनुमानमाश्रित्य बहिरर्थकल्पनायां ग्राह्यग्राहकसंवेदनकल्पनाप्रवृत्तः ग्राह्यादिकल्पना, परमार्थतः संवेदनमेवाविभागमिति स्थितम् ।"-प्र. वार्तिकाल. पृ० ३९८ । (७) कल्पना ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org