________________
१।१०]
निरंशसंवेदननिरासः इत्यादिकं च प्रकरणं निरस्तम् । कथम् ? कल्पनानामभावे तासामुदयव्ययौ लक्षणं 'व्यावृत्तिनिवन्धना जातिभेदाः प्रकल्प्यन्ते' इति च श्रद्धामात्रमतो (त्रतोऽ)पि दुर्लभमिति नानित्यत्वसत्त्वयोः साध्यसाधनभावः, अभेदात् । संवृतेः अयं स्यादिति चेत् ; ननु संवृतिः विकल्पबुद्धिरेख 'सा च नास्ति, तत एव चार्यम्' अति (इति) विरुद्धमेतत् । स्वप्नवद् भ्रान्तेरिति चेत् ; न; तत्रापि यदीयं निर्विकल्पिका; न ततो युक्तः। अन्यथा अन्यदापि तत एवेति व्याह-५ तमेतत्-*"सर्व एवायम्" [आ० दिग्नागः] इत्यादि । विकल्पिका चेत् ; स एव दोषः-'सैव नास्ति तत एव चायम्' इति विरुद्धमेतत् । ततोऽस्य दोषस्य परिहारार्थं बहिरर्थेतरयोः चित्रेतरास्मकं सविकल्पेतरात्मकं वा एकं ज्ञानं सौत्रान्तिकेनापि अभ्युपगन्तव्यमिति कुतोऽस्य क्वचिन्निरंशैकान्तसिद्धिः इत्यभिप्रायः ।
कारिकां विवृण्वन्नाह-यद्ययम् इत्यादि । यदि चं अयम् अनन्तरमुच्यमानः एकान्तोऽ- १० वश्यंभावः अन्तः चेतसि बहिर्घटादौ, वा इति समुच्चयो (ये), विरुद्धधर्माध्यासे [५३क] सति नैकत्वं स्याद् भवेत् । इति शब्दः पूर्वपक्षसमाप्तौ । अत्र दूषणमाह-कथम् इत्यादि । बहिरर्थे शुक्लशङ्खादौ विभ्रमः पीतादिप्रतीतिलक्षणः येषां चेतसां विज्ञानानां तानि तथोक्तानि तेषां कथं स्वसंवेदनं प्रत्यक्षम् ? नैव स्यादिति चिन्तितमेतत् । "एतेन पर्वतादित्यादेः संलग्नतादौ विभ्रम
चेतसां कथं पर्वतादिग्रहणं प्रत्यक्षमिति द्रष्टव्यम् । 'कस्यचित्' इत्यादिना परमतमाशङ्कते-कस्य- १५ चित्-तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमस्य प्रमाणतदाभासखभावसाङ्कर्ये प्रमाणं यः खभावः स्वसंवेदनलक्षणः तदभासो द्विचन्द्रादिग्रहणरूपो यः स्वभावः तयोः साङ्कर्ये कथञ्चित्तादाम्ये चित्तस्य ज्ञानस्य अङ्गीक्रियमाणे दूषणमाह-कथम् इत्यादि । कथं न कथञ्चित् । केन ? इत्याह-प्रतिभासभेद आदिर्यस्य विरुद्धधर्माध्यासकारणदेशकालार्थक्रियादिभेदस्य स तथोक्तः तेन एकत्वं निराक्रियेत ? 'चित्तस्य' इत्येतदत्रापि योज्यं मध्ये करणात् , चित्तस्य आत्मन इत्यर्थः । २०
एतेन एतदपि निरस्तं यदुक्तं वैशेषिकादिना-*"अयम् इति ऊर्ध्वतासामान्यविशिष्टस्य धर्मिणोऽवधारणम् निर्णयः, स्थाणुर्वा पुरुषो वा इति विशेषानवधारणं संशयः [न] एकएव प्रत्ययः एकस्य अवधारणाऽनवधारणात्मकत्वानुपपत्तिः" इति चेत् ; दृष्टत्वादप्रतिषेधः ।
(१) साध्यसाधनभावः। (२) "प्रमाणमन्तरेण प्रतीत्यभिमानमात्रं संवृतिः। (पृ० १८३) संवृति म विकल्पविज्ञानम् अधिमुक्तिमाह अनादिवासनातः (पृ० १८५) संवृत्यास्तीति भ्रान्तजनापेक्षया अस्तीति (पृ० ३७७)"-प्र. वार्तिकाल० । (३) संवृतिः । (४) साध्यसाधनभावः । (५) भ्रान्तिः । (६) भ्रान्तेः । (७) जाग्रदृशायामपि । (८) भ्रान्तेरेव । (९) "तथा च अनुमानानुमेयव्यवहारोऽयं सर्वो हि बुद्धिपरिकल्पितः बुद्ध्यारूढेन धर्मधर्मिभेदेने युक्तम्-आचार्यदिग्नागेनाप्येतदुक्तमित्याह तथा चेत्यादि"प्र०वा० स्व०, टी०पृ०२४ । (१०) 'पर्वतशिखरे आदित्यः समुदेति' इत्यादौ । (११) "तत्र संशयस्तावहस्तुस्वरूपानवधारणात्मकः प्रत्ययः । अनवधारणात्मकश्च प्रत्ययश्चेति व्याहन्यते ; न व्याघातः स्वरूपावधारणात् । स्वरूपमस्य अवधार्यते अस्ति मे संशयज्ञानमिति वस्तुस्वरूपं तु नानेन परिच्छिद्यते।"न्यायवा० पृ. १२ । “अयं हि सामान्यविशिष्टधयुपलम्भेन धर्मविशेषानुपलम्भविरुद्धोभयविशेषस्मरणसहकारिणा जन्यमान इति सामान्यविशिष्टं धर्मिणमवधारयन् स्थाणुर्वा पुरुषो वेति विशेषमनवधारयन् अनवधारणात्मकः प्रत्ययश्च स्यात् । दृष्टं हि यत्र विलक्षणसामग्री तत्र कार्यमपि विलक्षणमेव यथा प्रत्यभिज्ञानम् ।”-प्रश० कन्द० पृ० १७६ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org