________________
[ १ प्रत्यक्षसिद्धिः
इदमपरं व्याख्यानम्-प्रतिभासैक्यनियमे धीर्विकल्पिकाः बुद्धिः, 'धीः' इति सामान्यवचनात् कथमियं' लभ्यते इति चेत् ? अनन्तरवक्ष्यमाणगच्छाद् (माणस्याच्छब्दाद्) अन्यस्याः तद्संभवात् । सा एकैव न स्यात्, 'स्यात्' इत्यनेन वा अनागतेन सम्बन्धात् । किं कुर्वती ? दधती । किम् ? प्रतिभासप्रतीतिं विषयाकार संवित्तिम् । कथम्भूताम् ? अभिलापिनीम् ५ अभिलापसंसर्गयोग्याम् "अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना ।" [ न्यायवि ०
१०
६२
१५] इति वचनात् । पुनरपि किं दधती ? आत्मनः । किंस्वरूपस्य ? अन्यथा अनभिलापिनीं प्रतीतिम् । तथा चोक्तम् - [ ५२क ]
*“अशक्यसमयो ह्यात्मा सुखादीनामनन्यभाक् 1
तेन तेषां स्वसंवित्तिः नाभिलापानुषङ्गिनी (णी) ||" [प्र०वा०२।२४९] इति े । एतदुक्तं भवति - यथा आवृतांत् अनावृतं चलाद् अचलं रक्ताद् अरक्तं कृतकाद् अकृतकं रूपमेकान्तेन अन्यत् तथा अनभिलापिन्याः स्वप्रतीतेः अभिलापिनी प्रतिभासप्रतीतिरपि अन्या इति । न च सा अनुपलब्धा अस्ति; अतिप्रसङ्गात् । स्वत एव तदुपलब्धौ तस्याः स्वसंवेदनमविकल्पकम्, अन्यथा प्रकृतमपि न भवेत् । एवं चेत् स एव दोषः- ततः सा भिन्ना इति । पुनरपि स्वत एव तदुपलब्धौ प्रकृतो दोषः । अनुपलब्धौ अनवस्था च । प्रकृतसंवेदनेन तदुपलब्धौ १५ तस्य तदात्मकत्वे तस्य सविकल्पकत्वं तस्या वा निर्विकल्पकत्वम् । अतदात्मकत्वे तत उत्पन्नेन तदाकारानुकारिणा वा तेन तदुपलब्धौ तस्य सविकल्पकत्वम् । किंच, विकल्पस्य बुद्धिस्वसंवेदनात् तस्याः पूर्वत्वं पुनरपि तस्याः स्वसंवेदनोपगमे समानश्चर्चः, अनवस्था । तदनुपगमे वा अर्थाविशेषात् न सा बुद्धेः आकारः स्यात् । तदेवं प्रतीतेः अनुपलम्भेन असत्त्वात् न कल्पना नाम *“अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना" [ न्यायबि० ११५] इत्यस्य लक्षण२० स्याऽभावात् इति तन्निवृत्त्यर्थं कल्पनापोढपद अनर्थकम् ।
२५
सिद्धिविनिश्चयटीकायाम्
एतेन * " नहि इमाः कल्पना अप्रतिसंविदिता एव उदयन्ते व्ययन्ते च यतः सत्योऽपि अनुपलक्षिताः स्युः ।" इति [ ५२ख ]
Jain Education International
*"सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः ॥ ततो यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥ ततो यो येन धर्मेण विशेषः संप्रतीयते ।
न स शक्यः ततोऽन्येन तेन भिन्ना व्यवस्थितिः ।। " [प्र०वा० ३।३९-४१]
प्रकृतपाठः
(१) विकल्पिका । ( २ ) "...रागादीनामनन्यभाक् । तेषामतः स्वसंवित्तिर्नाभिजल्पानुषङ्गिणी ॥” - प्र० वा० । “... नीलादीनामनन्यभाक् तेषामतश्च संवित्ति " - तत्त्वसं० पृ० ३७८ । विधिवि० टी० पृ० १९० । शा० भा० भामती २।२।२४ । “ नामादीनामनन्यमाक् । तेषामतो न चान्यत्वं कथञ्चिदुपपद्यते ।”– सन्मति० टी० पृ० १८५ । “तथा मतो न वाच्यत्वं कथञ्चिदुपपद्यते । ” -तत्वसं० प० पृ० २९० । (३) भिन्नम् । (४) अभिलापिन्याः प्रतीतेः ।
For Personal & Private Use Only
www.jainelibrary.org