________________
१।१०]
निरंशसंवेदननिरासः [प्रतिभासैक्यनियमे धीन स्यादेकाभिलापिनीम् ।
प्रतिभासप्रतीति [वा] दधत्येवान्यथात्मनः ॥ १०॥ यद्ययमेकान्तःअन्तर्बहिर्वा विरुद्धधर्माध्यासे नैकत्वं स्यादिति कथं बहिरर्थविभ्रमचेतसां स्वसंवेदनम् ? कस्यचित् प्रमाणतदाभासस्वभावसाङ्कर्ये चित्तस्य कथं प्रतिभासभेदादिनैकत्वं निराक्रियेत ? सविकल्पकनिर्विकल्पयोः कथञ्चिदेकत्वे सुखदुःखयोरपि तथैव ५ कथन्न भवेत् ? तदयमेकान्तमवलम्ब्य बहिरन्तर्मुखनिर्भासविभ्रमेतरविकल्पेतरचेतःस्वभावमनेकान्तनान्तरीयकं प्रतिपद्यमानः तद्वेषी तत्कारी चेति उपेक्षामहति ।] ___अत्र द्वौ प्रतिभासशब्दौ तत्र आद्यः संवेदनवाची अन्यो विषयाकारवाची। ततोऽयमर्थः संपद्यते-प्रतिभासस्य संवेदनस्य ऐक्यनियमे निरंशत्वनियमे अङ्गीक्रियमाणे धीः बुद्धिः एकैव न स्यात् किन्तु अनेका स्यात् । किं कुर्वती ? दधती। किम् ? प्रतिभासप्रतीति १० विषयाकारगृहीतिम्। कथंभूताम् ? अभिलापिनीम् अभिधानवतीम् । कथम् ? अन्यथा अन्येन प्रकारेण। कुतोऽन्यथा ? आत्मनः स्वरूपप्रतीतेः सकाशात् अन्यथा अभिलापिनीम् । एतदुक्तं भवति-आत्मनः प्रतीतिम्*"सर्वचित्तचैत्तानाम् आत्मसंवेदनं प्रत्यक्षं निर्विकल्पकम्" [न्यायबि०१।१०] इति अन]भिलापिनी प्रतिभासप्रतीति 'तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमाम् इत्यभिलापिनीं विभ्राणा धीः एकैव न स्याद् अनेकैव स्यादिति । तथाहि-बहिरर्थविभ्रम- १५ चेतसाम् अन्यैव स्वसंवेदनात् केशोण्डुकादिप्रतीतिः एकस्या भ्रान्तेतराकारद्वयाऽयोगात्। न च सा ज्ञानरूपा (साऽज्ञातरूपा) अस्ति; अतिप्रसङ्गात् । तच्चेतःस्वसंवेदनेन तज्ज्ञाने नास्य विभ्रमः तदाकारानुकरणात् , नीलाकारानुकरणे नीलतावत्। तदाकारस्य ततो भेदे स एव दोषः अनवस्था च । अतदाकारानुकरणे न तेन तज्ज्ञानम् , इतरथा निराकारदर्शनम् [५१ख] । तस्याः स्वसंवेदनाभ्युपगमे एकस्य रूपद्वयभयात् स्वसंवेदनात् पुनरपि तत्प्रतीतिरन्याऽभ्युपगन्तव्या। 'न च साऽज्ञात- २० रूपाऽस्ति' इति चोये तस्मिन्नेव उत्तरे स एव दोषः अनवस्था च । तदेवं केशोण्डुकादिप्रतीतेः अनुपलम्भेन असत्त्वात् तन्निवृत्त्यर्थम् अभ्रान्तग्रहणं प्रत्यक्षलक्षणे कृतमनर्थकम् । व्यवहारेण तत्कारणाददोष इति चेत् ; तर्हि तेनैव *"सर्वचित्त" [न्यायबि० १।१०] इत्याद्यभिधानाद् एकस्य रूपद्वयप्राप्तिः । भवतु इति चेत् ; तथा क्रमेणापि एकस्य सौ इति तेन क्षणभङ्गसाधनमनवसरम् । न चैतदिष्यते परेण इति साधूक्तम्-प्रतिभासैक्यनियम इत्यादि । इदं च व्या- २५ ख्यानं शास्त्रकारस्याप्यभिमतं न ममैव, वृत्तौ 'यद्ययमेकान्त' इत्यादेर्वक्ष्यमाणत्वात् ।
(6) "तिमिरमक्ष्णोविप्लवः, इन्द्रियगतमिदं विभ्रमकारणम् । आशुभ्रमणम् अलातादेः । मन्दं हि भ्राभ्यमाणे अलातादौ न चक्रभ्रान्तिरुत्पद्यते,तदर्थम् आशुग्रहणेन विशेष्यते भ्रमणम् । एतच्च विषयगतं विभ्रमकारणम् । नावा गमनं नौयानम् । गच्छन्त्यां नावि स्थितस्य गच्छवृक्षादिभ्रान्तिरुत्पद्यते इति यानग्रहणम् । एतञ्च बाह्याश्रयस्थितं विभ्रमकारणम् । संक्षोभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभं गतेषु ज्वलितस्तम्भादिभ्रान्तिरुत्पद्यते । एतच्च अध्यात्मगतं विभ्रमकारणम् ।"-न्यायबि० टी० ११६ । (२)निरालम्बे नभसि केशाकारा उण्डुकाकारा च प्रतीतिः । (३) अर्थरूपे भ्रान्तं स्वरूपे च अभ्रान्तमिति द्वावाकारौ। (४) 'कल्पनापोढमभ्रान्तं प्रत्यक्षम्' (न्यायबि. १४) इत्यत्र ।(५) केशोण्डुकादिज्ञानस्य । (६) रूपद्वय प्राप्तिः। (७) बौद्धन । (6) टीकाकारस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org