________________
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः [प्र० वा० ११४५] इत्यादि विरुध्येतं ततो यत्किञ्चिदेतत् ।
उपसंहारमाह-तत इत्यादि । यत एवं स्वलक्षणानि स्वयमभिमतक्षणक्षयपरमाणुलक्षणानि पश्यतोपि एको हि ज्ञानसन्निवेशी स्थवीयान् आकारः परिस्फुटमवभासते तदेकान्ते स्वसदसत्समये अर्थक्रियाऽसंभवश्च ततः तस्मात् 'यत् सत् तत् सर्वम् अनेकान्तात्मकम्' ५ इति । साध्यान्तरमाह- तदेकान्तस्य [५०ख] इत्यादिना । 'ततः' इत्यनुवर्तते तत उक्ता
न्यायात् तदेकान्तस्य क्षणिकैकान्तस्य असत्त्वम् अविद्यमानत्वम् । कदा ? इत्यत्राह-उपलब्धिलक्षणप्राप्तौ प्रत्ययान्तरसाकल्यं स्वभावविशेषश्च उपलब्धेः लक्षणं तत्प्राप्तौ । एवं मन्यते-तैदेकान्तोऽसन् उपलब्धिलक्षणप्राप्तत्वे सति अनुपलभ्यमानत्वात् । ननु यदि तँदेकान्तः क्वचित्
कदाचित् उपलम्भगोचरः कथमेकान्तेन तदभावः अतिप्रसङ्गात् ? एकान्तेन च तदभाव इति १० इष्यते । अथ क्वचित् कदाचित् स तथा नेष्यते; तर्हि असिद्धो हेतुः, विशेषणाऽसिद्धेरिति चेत् ;
न; अन्यथा अभिप्रायात् । नेदं साधनं स्वतन्त्रसाधनाभिप्रायेण प्रयुक्तम् , अपि तु प्रसङ्गसाधनाभिप्रायेण । तथा हि-तदेकान्तो दृश्यश्चेदिष्यते, तर्हि दृश्यस्य सतोऽनुपलम्भात् असत्त्वम् । अदृश्यश्चेत् ; अप्रमेयत्वं प्रमाणाऽविषयत्वेन व्यवहारानुपयोगित्वात् । एतेन 'आश्रयासिद्धिचोदनमप्ययुक्तम्' इत्युक्तम् । एतदेव दर्शयन्नाह-अन्यथा अप्रमेयत्वम् इति । प्रसङ्गसाधने हि पक्षद्व१५ योत्थापनं नान्यत्र युक्तम् 'उपलब्धिलक्षणप्राप्तौ' इति वचनाच्च प्रसङ्गसाधनम्, अदृश्यादर्शनस्यापि स्वयं गमकत्वोपगमात् ।
__ ननु यदुक्तम्-'अन्तः चित्रकारस्येव एकस्य चित्तस्य' इति; तदयुक्तम्; तस्यापि तथाऽनभ्युपगमात् । तदुक्तम्
*"किं स्यात् सा चित्रतैकस्यां न स्यात्तस्यां मतावपि ।
यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥" [प्र० वा० २।२१०] [५१क 'इंति चेत् ; तत्रेदं चिन्त्यते-सौत्रान्तिकस्य योगाचारस्य माध्यमिकस्य वा मतमपेक्ष्य इदमुच्येत ? प्रथमपक्षे दूषणमाह-प्रतिभासैक्यनियम इत्यादि ।
(१) यथैव अक्रम-नित्यकारणात् क्रमेण कार्योत्पत्तिविरुद्धा तथैव-क्रमिकारणात् अक्रमेण कार्योत्पत्तिरपि विरुद्धैवेति भावः। (२) "उपलब्धिलक्षणप्राप्तिः उपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । उपलम्भप्रत्ययान्तरसाकल्यमिति ज्ञानस्य घटोऽपि जनकः अन्ये च चक्षुरादयः, घटाद् दृश्यादन्ये हेतवः प्रत्ययान्तराणि तेषां साकल्यं सन्निधिः ।...यः स्वभावः सत्सु अन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभावविशेषः।" -न्यायबि० २।१४-१५ । (३) क्षणिकैकान्तः। (४) उपलम्भगोचरः । (५) 'उपलब्धिलक्षणप्राप्तत्वे सति' इत्यसिद्धः । (६) क्षणिकैकान्तः । (७) 'सत्-असत्' इति । (८) चित्रज्ञानस्यापि । (९) एकं सत् अनेकाकाररूपतया । (१०)"ननु यदि सा चित्रता बुद्धावेकस्यां स्यात् , तया च चित्रमेकं द्रव्यं व्यवस्थाप्येत तदा किं दूषणं स्यात १ आह-न स्यात्तस्यां मतावपि. न केवलं द्रव्ये तस्यां मतावपि एकस्यां न स्याच्चित्रता । कथम् ? अनेकपुरुषप्रतीतिवत् । कथं तर्हि प्रतीतिरित्याह-यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम्-यदीदम् अताद्प्येऽपि ताद्प्यप्रथनम् अर्थानां भासमानानां नीलादीनां स्वयम्-अपरप्रेरणया रोचते तत्र तथाप्रतिभासे के वयमसहमानाः अपि निषेधुम् । अवस्तु च प्रतिभासते चेति व्यक्तमालीक्यम्"-प्र. वा. मनो।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org