________________
१९]
क्षणिकैकान्ते नार्थक्रिया भावप्रधानो निर्देशः । ततोऽयमर्थः-स्वसत्त्वसमये स्वाऽसत्त्वसमये च अर्थस्य कार्यस्य क्रिया करणं तस्याः संभवः एकत्र अनाद्यनन्तसन्तानस्य एकक्षणपर्यवसानम्, अन्यत्र कारणाभावेन कार्यानुदय इति मन्यते ।
ननु च जाग्रद्विज्ञानादिकं स्वसत्त्वशून्येऽपि समये प्रबोधादिकार्यं जनयति तत्कथमुच्यते स्वाऽसत्समये अर्थक्रियाऽसंभव इति चेत् ; न; पूर्वं तस्मिन् समर्थे अजातं पुनस्तदभावे जायमानं ५ स्वयमेव कथं तत्कार्यम् ? तेन जन्यमानत्वादिति चेत् ; कथमसत् तत् तस्य जनकंखरविषाणवत् ? स्वोत्पत्तिकाले सदिति चेत् ; तदैव तत्कार्यमस्तु तज्जननशक्तः तदैव भावात् । अथ ईदृशी तच्छक्तिः यतः कालान्तरे कार्यं तथैव दर्शनात् , यथा दृश्यते तथैव तदिति चेत् ; न; नित्यादपि पूर्वं समर्थात् "पुनः कार्यं न विरुध्येत । अथ नित्यात् तथा कार्य [५०क] जायमानं न दृश्यते; नित्यादर्शनात् । क्षणिकादर्शनात् ततोऽपि न दृश्यते । नहि जाग्रद्विज्ञानस्य अन्यस्य वा क्षणिकत्वं प्रमाण- १० निश्चितम् । ततः सूक्तम्-नहीत्यादि । भवत्वेवं को दोष इति चेत् ? अत्राह-तथा सति इत्यादि। तथा सति तत्र अर्थक्रियाऽसम्भवे सति कथम् *अक्षणिकत्वे क्रमयोगपद्याभ्यामर्थक्रियाविरोधात तीरादर्शिशकुनिन्यायेन ततः सत्त्वं निवर्तमानं क्षणिकत्वे अवतिष्ठते ।" इति न्यायात् सतोऽर्थक्रियाकारिणः साकल्येन क्षणभङ्गसिद्धिः ? नैव । कुत एतत् ? इति चेत् ? अत्राह-तत्रैव इत्यादि । तत्रैव तदेकान्त एव ताभ्यां क्रमयोगपद्याभ्यां तद्विरोधात् अर्थक्रिया- १५ विरोधात् । ननु च जाग्रद्विज्ञानं क्षणिकमपि "सहोच्छासादि-शरीराकारादिविशेषकार्यमुपजनयति, क्रमेण च उच्छासप्रबोधादि, तत्कथमुच्यते 'तत्रैव' इत्यादि इति चेत् ; न; उक्तमत्र तत्क्षणिकत्वाऽनिश्चयात् । अपि च, क्षणिकादक्रमेण कार्यसंभवे *"नाक्रमात् क्रमिणो भावाः"
(१) तुलना-"सत्येव कारणे यदि कार्यम् ; बेलोक्यमेकक्षणवर्ति स्यात् , कारणक्षणकाल एव सर्वस्य उत्तरोत्तरक्षणसन्तानस्य भावात् , ततः सन्तानाभावात् पक्षान्तरासंभवाच्च ।.."यदि पुनरसत्येव कारणे कार्यम् ; तदा कारणक्षणात् पूर्व पश्वाच्च अनादिरनन्तश्च कालः कार्यसहितः स्यात् कारणाभावाविशेषात्।" -अष्टश०, अष्टस० पृ० १८७ । (२) सत्समयपक्षे । (३) द्वितीयः क्षणः स्वसत्समये अर्थात् द्वितीयक्षणे एव तृतीयमुत्पादयति अतः तृतीयस्य द्वितीयक्षणे स्थितिः । एवं द्वितीयस्य स्वकारण-प्रथमक्षणकाले इति उत्तरोत्तरकार्याणां प्रथमक्षणे एव स्थित्यापत्तिः। (४) 'असत्समये' इति पक्षे। (५) व्यवहितकारणवादी प्रज्ञाकरः प्राह । “अविद्यमानस्य करणमिति कोऽर्थः ? तदनन्तरभाविनी तस्य सत्ता । तदेतदानन्तर्यमुभयापेक्षयापि समानम् । न चानन्तर्यमेव तत्त्वे निबन्धनं व्यवहितस्यापि कारणत्वात् । तथाहि-गाढसुप्तस्य विज्ञान प्रबोधे पूर्ववेदनात् । जायते व्यवधानेन कालेनेति विनिश्चितम् ॥ .."तस्मादन्वयव्यतिरेकानुविधायित्वं निबन्धनम् । कार्यकारणभावस्य तदाविन्यपि विद्यते ॥”-प्र. वार्तिकाल. पृ० ६८। (६) जाग्रद्विज्ञाने । (७) जाग्रद्विज्ञानाभावे । (4) जाग्रद्विज्ञानम् । (९) जाग्रद्विज्ञानकाल एव । (१०) अभ्युपगन्तव्यमिति । (११) पश्चात् यथाकालम् । (१२) तथैव तच्छक्तिसंभवात् । (१३) “यत् सत् तत् क्षणिकमेव अक्षणिकत्वे अर्थक्रियाविरोधात् तल्लक्षणवस्तुत्वं हीयते ।"-हेतुबि० पृ० ५४ । “यदि न सर्व सत् कृतकं वा प्रतिक्षणविनाशि स्यात, अक्षणिकस्य क्रमयोगपद्याभ्यामर्थक्रियाऽयोगात अर्थक्रियासामर्थ्यलक्षण- मतो निवृत्तमित्यसदेव स्यात् ।"-वादन्या०पृ० ६-८ । (१४) "यथा किल वहनारूढः वाणिग्भिः शकुनिमुच्यते अपि नाम तीरं द्रक्ष्यतीति । स यदा सर्वतः पर्यटस्तीरं नासादयति तदा वहनमेवागच्छतीति तद्वदेतदपि द्रष्टव्यम्"-हेतुबि० टी० पृ० १९३ । (१५) नित्यात् । (१६) सह युगपत् । (१७) युगपत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org