________________
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
५
संभव इति चेत्; अत्राह - तथा सति इत्यादि । तथा तेन स्वसदसत्समये इत्यनेन प्रकारेण तदेकान्ते अर्थक्रियासुसंभवे (याया असंभवे ) सति कथं नैव अक्षणिकत्वे वस्तुन: कालत्रयानुयायित्वे क्रमयौगपद्याभ्यां क्रमेण यौगपद्येन वा अर्थस्य क्षणिकत्वलक्षणस्य क्रिया अनुभवः तस्याः विरोधात् । तथाहि - एकदा उपलब्धस्य पुनः पुनः उपलम्भे क्रमेणार्थक्रिया । न च पूर्वोपलम्भेन पुनः पुनः तस्यैव उपलम्भ इति प्रतीयते, तत्काले उत्तरदर्शनानां तद्दृश्यस्य च अभावेन दर्शनाभावात् । नापि 'उत्तरदर्शनेसावेन (र्शनेन ) पूर्वोपलब्धं प्रतीयते' इति प्रतीयते; तत्कालेऽपि पूर्वदर्शन दृश्यरूप [४९] योरभावात् । न तत्समुदायेन; क्रमभाविनोः तदसंभवात् । उभयकालवर्त तज्ज्ञानमेकं न युक्तम् ; उक्तदोषात् । पूर्वेण उत्तरेण वा दर्शनेन परस्य पूर्वस्य वा ग्रहणे सर्व - ग्रहणमविशेषादिति, तस्याः विरोधः । तथा साक्षादशेषपूर्वापर स्वभावानुभवो यौगपद्येन अर्थ - १० क्रिया । तंत्र चानाद्यनन्तस्वभावस्य एकक्षणे प्रतिभासनात् तदेव क्षणिकत्वमिति तस्या विरोधः
५८
3
१४
[त] स्मात् सतोऽनुभूयमानस्य साकल्येन क्षणभङ्गसिद्धिः । । कुत एतत् ? इत्यत्राह तत्रैव इत्यादि । तत्रैव तस्मिन्नेव तदेकान्ते न अक्षणिकत्वे इति एवकारार्थः, तंत्र "तदविरोधस्य तृतीयपरिच्छेदे प्रतिपादयिष्यमाणत्वात् । ताभ्यां क्रमयौगपद्याभ्यां तद्विरोधात् अर्थक्रियाविरोधात् । तथाहि-न तावत् निरंशक्षणिकपरमाणुलक्षणस्वलक्षणार्थस्य क्रमेण क्रिया अनुभव:; अक्षणि१५ कत्वप्रसङ्गात्, ”तस्य " तल्लक्षणत्वात् । नापि यौगपद्येन योगिदर्शनप्रभृतितदनुभवकार्याणाम् एकपरमाण्वाकारदर्शनदेशकालस्वभावसाङ्कर्येण तद्वदसिद्ध:, अन्यथा युगपदशेषदेशानां दर्शनेऽपि न कालसाङ्कर्यं भवेत् । " ननु न यथोक्तपरमाणुलक्षणं स्वलक्षणमिष्यते, नापि युगपदनेकानुभवकारि येनायं दोषः स्यात्, अपि तु यथा[व]भासम्, “यद् यथावभासते तत् तथैव परमार्थसत्" इत्यादि वचनादिति चेत्; अत्राह - ततो यत्सत् इत्यादि । न [ ४९ख ] यथोक्तपरमाणुरूपं २० तत्त्वम्, अपि तु ‘यथाप्रतिभासम्' इति योऽयं परस्य अभ्युपगमः तस्मात् यत् सत् उपलम्भगोचरचारि *“उपलम्भः सत्ता" [ प्र० वार्तिकाल ०३ | ५४] इति वचनात् तत् सर्वम् अनेकान्तात्मकं गत्यन्तराभावात् तस्य ।
अथवा, यदुक्तम्- 'न च तद्विपरीतार्थप्रकाशकम्' इत्यादि; तत्र उक्तनीत्या प्रत्यक्षं यद्यपि नास्ति तथापि 'यत् सत् तत्सर्वं क्षणिकं यथा घटः तथा च विवादाधिकरणम्' इत्यनुमानं स्यादिति २५ चेत्; अत्राह - नहि इत्यादि । नहि तदेकान्ते क्षणिकैकान्ते स्वसदसत्समये 'सदसद्' इति रोप्य यद् दृष्टं तदेव प्राप्तमिति एकत्वाध्यवसायकृतस्तत्र अविसंवादः । अतः प्रत्यक्षप्रामाण्यसमर्थनाय स्वासत्कालीनार्थक्रिया कथञ्चिदभ्युपगतैव सौगतेन इति भावः ।
(१) पूर्वोपलम्भकाले । (२) उत्तरदर्शनकालेऽपि । (३) पूर्वोत्तरयोः । (४) अर्थक्रियायाः । (५) यौगपद्यपक्षे । (६) उत्तरक्षणे च कर्तुं योग्यस्याभावात् अर्थक्रियाया अभाव एव । (७) अर्थक्रियायाः । (८) क्षणिकैकान्ते । (९) नित्यपक्षे । (१०) अर्थं क्रियाविरोधाभावस्य । ( ११ ) अक्षणिकत्वस्य । (१२) एकस्यानेकक्षणव्यापित्वरूपक्रमेण अर्थक्रियाकारित्वादिति भावः । (१३) योगिदर्शने ते सर्वे पूर्वोत्तरकालवर्त्तिनः परमाणवः प्रतिभान्ति अतः विषयकारणतावादिनां सर्वेषां तदनुभवरूपकार्याणाम् वर्तमानपरमाणुका र्यभूतअनुभवेन सह एकदेशता एककालता च स्यात्, एतच्च साङ्कर्यमसिद्धम् । (१४) एवं न स्यात्तदा नित्यपक्षेऽपि यौगपद्येन अर्थक्रियाप्रसाधने कालसाङ्कर्य्यापत्तिः कथं दीयते ? (१५) प्रतिभासाद्वैतवादी प्राह ।
Jain Education International
"
For Personal & Private Use Only
www.jainelibrary.org