________________
१९]
क्षणिकान्ते नार्थक्रिया
साधारणस्य नीलाद्याकारस्य । अत एव आह - चित्रस्य शबलस्य संशयादिज्ञानस्य अर्थाऽनर्थविषयतया शबलस्य, इव शब्दो यथार्थ : - यथा चित्तस्य ईदृशस्य अन्तः, तथा उक्तप्रकारस्य घटादेः संप्रतीतेः इति । अन्ये 'चित्रस्यैव' इति पठन्ति तेषां कारिकोपात्तोऽयमर्थो भवति न वेति चिन्त्य - मेतत् । अस्माकं तु एव (इव) शब्दपठनान्न दोषः । * ' प्रतिभासैक ( क्य) नियम" [सिद्धिवि ० १।१०] इत्यादिना समर्थयिष्यमाणो दृष्टान्तोऽत्र स्तवितो ( सूचितः) *" न सूचितस्य पात्रस्य ५ प्रवेश निर्नमो (निर्गमो) वा " इति न्यायात् । नन्वस्ति तादृशस्य बहिरन्तर्वा प्रतिभासः, स तु भ्रान्तः । तदुक्तं प्रज्ञा क रे ण-"मायामरीचिप्रभृतिप्रतिभासवदसत्त्वेऽप्यदोषः ।" [प्र० वार्तिकाल० ३।२११] इति चेत्; अत्राह - नचेत्यादि । न च नैव तस्माद् उक्तादर्थात् यः विषरीतार्थः तस्य प्रकाशकं किञ्चित् प्रत्यक्षमनुमानं वा ज्ञानमस्ति यस्माज्ज्ञानात् प्रकृतमर्थतत्त्वं भ्रान्तं स्यात् । प्रतिभासमानविपरीतार्थज्ञानेन हि बाधितं 'भ्रान्तम्' इति व्यवहियते यथा एक- १० चन्द्रज्ञानेन चन्द्रद्वयमिति मन्यते । ननु यत एव तद्विपरीतार्थप्रकाशकं न किञ्चित् ज्ञानमस्ति अ एव प्रकृतमर्थतत्त्वं' न भ्रान्तम्' इत्यपरः, तेन एवंवदता विभ्रमेतर विवेक एव निरस्तः स्यात् न क्रमाऽक्रमाऽनेकान्तः । तथा च क्षणभङ्गादिसाधने प्रत्यक्षमनवसरम् । तदभ्युपगमे प्रकृतमर्थतत्त्वं भ्रान्तमभ्युपगन्तव्यम्, तच्च तद्विपरीतार्थप्रकाशके ज्ञाने सति, इति कथं न बाधकभावः ? तदस्ति । कथमिति चेत् ? अत्राह - नहि इत्यादि । हिः यस्मात् तदेकान्ते स चासौ एकान्तश्च १५ तदेकान्तः तस्मिन् निरंशक्षणिक परमाणु लक्षणस्वलक्षणैकान्ते स्वसदसत्समये स्व आत्मीयः स्वस्य वा सौगतस्य सत्समयः परमार्थसमयः असत्समयोऽपरमार्थसमयः व्यवहारसमय इि यावत् । तदुक्तम्
५७
*"द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः || ” [ माध्यमिक ० का ० २४ । ८ ] इति । २० तत्र अस्य सौगतकल्पितज्ञानाद्वये वस्तुनः क्रिया [४८ख] अनुभवः तस्याः संभवो न इति । तथाहि–तस्य सत्समयो यथा पूर्वोत्तरक्षणाभ्यां मध्यक्षणस्य विवेकैकान्तः, तथा मध्यक्षपि स्तम्भादिसर्वभागानाम् अन्योऽन्यतं इति " परमार्थसञ्चयमात्रं तत्त्वमिति ; तत्र एक परमाणुपर्य - वसितं दर्शनं न परमाण्वन्तराणि ईक्षितुं क्षमते; एकस्य अनेकार्थविषयत्वाऽयोगात्, मध्यक्षणदर्शनस्य पूर्वापरक्षणविषयत्वायोगवत् समदोषत्वात् । तथा च परलोकप्रख्याति (परलोकं प्रत्या- २५ ख्याति") । एकपरमाणुपर्यवसितं च दर्शनं पुरुषाद्वैतमाकर्षतीति निरूपयिष्यते । तन्न स्वसत्समये अर्थक्रियासंभवः । नाप्यसत्समये; तत्र दृश्यप्राप्ययोरेकत्वे "प्रत्यक्षप्रामाण्योपगमात् । भवतु तद्
(१) 'यथा' इत्यस्मिन् अर्थे प्रयुक्तः । (२) व्याख्याकाराः । ( ३ ) घटादेः । (४) क्षणक्षयादिलक्षणम् । (५) बौद्धः । (६) इदं भ्रान्तम् इदञ्च भ्रान्तमिति विवेको भेदः । (७) क्षणभङ्गादिसाधने प्रत्यक्षस्यानुपयोगस्वीकारे । (८) भ्रान्तत्वञ्च । (९) विवेकैकान्तः भेद इति यावत् । (१०) परमार्थानाम् स्वलक्ष
परमाणूनां सञ्चयमात्रमेव तत्वम् । ( ११ ) परलोको हि इहजन्मान्त्यचित्तस्य परजन्माद्यचित्तेन सहैक्यप्रतिपत्तिगम्यः । सैव च न संभवति इति तत्प्रत्याख्यानमेव जातमिति भावः । ( १२ ) ' प्रत्यक्षविषयभूतो ह्यर्थः प्रत्यक्षमुत्पाद्य क्षणिकत्वात् विनश्यति । अतः यत् दृश्यं भवति प्रत्यक्षस्य न तत् प्राप्यते इति अन्यद् दृष्टं प्राप्तञ्चान्यदिति विसंवादि प्रत्यक्षं स्यात्' इत्याशङ्कायां समाहितम् यत् दृश्य प्राप्य क्षणयोः एकत्वमा
८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org