________________
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः सिद्धम् । 'द्रव्याणि द्रव्यान्तराणि आरभन्ते' इत्येवं वक्तव्यम् , तेन ['द्रव्यान्तरं] द्रव्यान्तरे द्रव्यान्तराणि यथासंभवं द्रव्याणि आरभन्ते' इति लभ्यते । यथैव हि अनेकं द्रव्यम् एकं . द्रव्यमारभमाणं दृश्यते तथा एकमपि द्रव्यम् एकं द्रव्यम् द्वे बहूनि द्रव्याणि आरभमाणमुपलभ्यते, यथैको घटो द्वे बहूनि वा कपालद्रव्याणि । ननु तेषों विभाग एव केवलं जायते न तानि, पूर्व५ मेव तद्भावात् । एवं घटोऽपि मृत्पिण्डावस्थायां कल्प्यताम् । उपम्ला (मा)र्थक्रिया-[४७क] व्यपदेशादिविरहः अन्यत्रापि । ततः साधूक्तम्-'नानावयवात्मनो घटादेः बहिः संप्रतीतेः' इति, तथा 'नानारूपादिस्वभावस्य ।
अथ रूपादेः ततो भेदात् कथं तदात्मन इति युक्तमिति ? तन्न; प्रतीतिविरोधात् । अपि च गुणगुणिनोर्भेदैकान्ते नियमेन घटादेर्देशान्तरप्राप्तौ रूपादेः तत्प्रप्तिर्न स्यात् । न चात्रं विभागजो १० विभागः संयोगजो वा संयोर्ग:; *"द्रव्याश्रयी अगुणवान् गुणः" [वैशे० सू० १।१।१६]
इति "वचनात् । कृतोत्तरश्चायं पक्षः । न च रूपादेः स्वयं देशान्तरप्राप्तिनिमित्ता क्रिया समस्ति; द्रव्यत्वप्राप्तः,*"क्रियावद् गुणवत् समवायिकारणमिति द्रव्यलक्षणम्" [वैशे०सू० १।१।१५] इति वचनात् । ततो घटादेः रूपाद्यात्मकत्वमभ्युपगन्तव्यम् । "एवमिति चेत् ; तर्हि रूपाद्यात्म
नामेव कारणद्रव्यान्तरारम्भो न रूपादिनिरपेक्षणाम्, नापि रूपादिरहितः "तदारम्भः । ततोय १५ एव द्रव्याणां द्रव्यान्तरारम्भः स एव गुणानां गुणान्तरारम्भः इति न युक्तमेतत् -*"गुणाश्च गुणान्तरम्" [वैशे० सू० १।१।१०] इति ।
यत्पुनरेतदुक्तं परेण-*"घटरूपाद्युत्पत्तौ घटः समवायिकारणं कपालगता रूपादयोऽसमवायिकारणम् ।" इति; तदप्येतेन निरस्तम्; नहि रूपाद्युत्पत्तेः पूर्वं घटो रूपादिरहितः कुतश्चिन् मानात् प्रसिद्धो यः समवायिकारणं स्यात् ,तदभावात् कपालरूपादेः असमवायिकारणत्वञ्चा२० नुपपन्नम् । ततः स्थितमेतत्-'नानारूपाद्यात्मनः' इति ।
पुनरपि कथंभूतस्य ? [४७ख] परिणामिनः नवपुराणादिविवर्ताः परिणामाः तद्वत इति । चिन्तयिष्यते चैतत् । ननु नानावयवव्यतिरेकेण नापरः तदात्मा धटादिः संप्रतीयते, नापि रूपादिव्यतिरेकेण; तद्ग्रहणोपायाऽभावात् । तथाहि-चक्षुषा रूपं श्रोत्रेण शब्दः घ्राणेन गन्धः
रसनेन रसः स्पर्शनेन स्पर्शः संप्रतीयते तथाप्रतीतेः, न च अपरं "गुणिरूपं तत्र प्रतिभासनमवधा२५ र्यते, न चेन्द्रियान्तरं तद्ग्राहकमस्ति; तत् कस्य एवं 'तदात्मनो घटादेः संप्रतीतेः' इत्युच्यतामिति चेत् ? अत्राह-'अन्तः चित्रकाकारस्य वा (स्येव)' इत्यादि । चित्तस्य ज्ञानस्य एकस्य[अ].
(1) कर्तृ । परापेक्षयदेमुक्तम् । (२) कपालानाम् । (३) कपालानि । (४) मृत्पिण्डावस्थायाम् घटस्य उपमा-उपमानम्, अर्थक्रिया-जलाहरणादि, व्यपदेशः घट इति संज्ञा, आदि पदेन लक्षणगुणादयो न दृश्यन्ते अतः तत्काले घटसत्त्वं नास्ति । (५) घटावस्थायां कपालस्वीकारेऽपि अर्थक्रियाव्यापदेशादयो न सन्तीति भावः । (६) घटादेः । (७) रूपाद्यात्मनः । (८) देशान्तरप्राप्तिः । (९) रूपादौ । (१०) सम्भवति । (११) “द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्''-वैशे० सू० । (१२) गुणगुणिनोर्भेदैकान्तलक्षणः। (१३) घटरूपाद्योः परस्परं तादात्म्य । (१४) घटाद्यारम्भः। (१५) पृथगारम्भाभावात् । (१६) "द्रव्याणि द्रव्यान्तरभारभन्ते गुणाश्च गुणान्तरम्'-वैशे० सू०। (१७) गुणिस्वरूपम् । (१८) प्रत्यक्षे । (१९) कमाश्रित्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org