________________
प
१९]
नानावयवात्मक एव अवयवी न च येष्वेकं द्रव्यं यदैव अवयवेषु समवेतं तदैव तेषु अपरं समवैति इति चेत् ; न ; स्कन्धादपि स्कन्धोत्पत्तेः अप्रतिषेधात् , मृत्पिण्डादेः शिवकाद्युत्पत्तिदर्शनात् । नहि शिवकाद्युत्पत्तेः पूर्व तदारम्भकाः क्रियासंयोगभाजो भागाः प्रतीताः ।
स्यादेतत्-'शिवकादयः [४६क] संयुक्तावयवारब्धाः कार्यद्रव्यत्वात् पटादिवत्' इति; तन्न ; 'एकत्र तथाभावदर्शनात् सर्वत्र तद्भावकल्पने '[लोह] लेख्यं वनं पार्थिवत्वात् काष्ठवत्' ५ इत्याद्यपि स्यात् । प्रत्यक्षबाधनान्नेति चेत् ; किं पुनः शिवकादीनाम् आरम्भका अवयवाः ततः प्राक् प्रत्यक्षतः सिद्धा येन तदाधनं न भवेत् । किंच. तन्तवः कथं पटस्य जनकाः ? तद्भावे भावाद् अभावेऽभावादिति चेत् ; अत एव मृत्पिण्डोऽपि शिवकादिकारणमस्तु । ननु मृत्पिण्डविनाशे शिवकभावः, अन्यथा तत्कालेऽपि तद्दर्शनं भवेत् पटकाले तन्तुदर्शनवदिति चेत् ; न ; मृत्पिण्डस्य शिवकार (काकारपरि)णामात् । न च तन्तवोऽपि प्राक्तनस्वभावपरिकरिततनवः पटे दृश्यन्ते १० तदापि अपरापरपटोत्पत्तिप्रसङ्गात् । तदुक्तं न्या य वि नि श्च ये
*"कारणस्याऽक्षये तेषां कार्यस्योपरमः कथम् ?" [न्यायवि० १११०३] इति ।
'नानुपरतः, पटेन प्रतिबद्धास्तन्तवः पटान्तरं नारभन्ते । तदुक्तं परेण-*"तन्तवः पटमारभ्य पटेन प्रतिबन्धात् पटान्तरं नारभन्ते" इति ; तत्रेदं चिन्त्यते ; पेटन कारणस्य स्वरूपापहारः, शक्त्यपहारः, व्यापारापहारः, कार्यद्रव्योत्पत्तिनिषेधो वा तदन्तरजनने प्रतिबन्धः १५ स्यात् ? तत्र नाद्यः पक्षः ; कार्यकालेऽपि धारणसत्त्वोपगमात् । नापि द्वितीयः; नित्यस्य "तदयोगात् । तदुक्तं कैश्चित्
*"तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । नित्यत्वादचिकित्स्यस्य कस्तां क्षपयितुं क्षमः ॥" [प्र० वा० २।२२] इति ।
"अत एव तृतीयोऽपि न युक्तः; शक्तकस्वभावस्य [४६ख] सतः अवश्यं कार्य-२० जन्मनि व्यापारात् । चतुर्थः पुनः अत्यन्तमसंभवी; "प्रति शक्तन कारणेन क्रियमाणायाः कायोत्पत्तेनिषेधाऽयोगात् । ततः पटकालेऽपि समवायि-असमवायि-निमित्तानां तन्तु-संयोगेश्वरादीनां सद्भावात् पटान्तरोत्पत्तिः स्यात् । अन्यथेदमयुक्तम्-* "निवृत्ते तत्पटे अवस्थितसंयोगात् पटान्तरमारभन्ते ।" इति । न च अकिञ्चित्करस्य म (सत्ताs) पेक्षणीयेति ।
एतेनेदमपि निरस्तं यदुक्तं परेण-*"तथा पटोऽपि रूपादीनारभ्य रूपादिवत्त्वाद् २५ रूपान्तरं नारभते । एवं कर्म(न) कर्मकारणंमुसलादिप्रतिबन्धात्त दन्तरंनारभते" इत्यादि। कथम् ? सति समर्थे कारणे केनचित् प्रतिबन्धाऽयोगात् । तस्त्पक्ष (ततस्त्यक्त)पूर्वस्वभावाः तन्तवः पटे अभ्युपगन्तव्या इति परिणामसिद्धिः। तथा च एकमपि द्रव्यं “तदन्तरारम्भकमिति
(१) पटादौ । (२) “क्वचिन्न नियमो दृष्ट्या पार्थिवाल्लोहलेख्यवत् ॥ -बहुषु पार्थिवेषु काष्ठपाषाणादिषु लोहलेख्यत्वदर्शनेऽपि पार्थिव एव वज्र अलोहलेख्यत्वदर्शनेऽपि पार्थिव एव..."-प्र. वा. मनो० ४२४०। (३) शिवककालेऽपि । (४) मृत्पिण्डदर्शनम्। (५) पूर्वपर्यायविशिष्टाः। (६) किन्तु उपरत एव । (७) पटान्तरजनने । (८)पटकालेऽपि । (९) तन्तुसत्त्वस्वीकारात् । (१०) शक्त्यपहाराभावात अन्यथा अनित्यत्वापत्तिः। (११) नित्यत्वादेव । (१२) 'प्रति' इति निरर्थकं भाति । (१३) संयोगस्य । (१४) कर्मान्तरम् । (१५) द्रव्यान्तरारम्भकम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org