________________
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः तथा तत्त्वाद् [४५क] आकाशादिभ्यः । नच अनैकान्तिकोयं हेतुः ; तथाहि-'अगुल्याकाशविभागाद् हस्ताकाशविभागो भवति न तु क्रियाजः (तः) इति । अनेकान्त इति चेत् ; उक्तमत्र अङ्गुलिचलने हस्तस्यापि कथञ्चित् चलनम्, आकाशादिभ्यः तद्विभागे हस्तस्यापि तदैव विभागः,
अन्यथा पृथसिद्धिः स्यादिति । ननु च यद्ययं सक्रियस्य अवयवस्य गगनादिभ्यो विभागः क्रियाजः ५ स्यात् ; तदपि तर्हि क्रियानन्तरमुत्पद्यत, आद्यावयवविभागवत् , न चोत्पन्नः। तदुक्तम्
*"कुरुन्दारकोऽसि केन तदत्सर, सात् (तदवसरभ्रंशात्) ।" इति । कर्मणा यस्मिन्नवसरे विभागः कर्तव्यम् (व्यः) सोऽस्य नष्ट इति चेत् ; न सत्यमेतत् ; विभागेऽप्य स्य समानत्वात्। शक्यं हि वक्तुं यद्ययं विभागात् स्यात् विभागः तदनन्तरमुत्पद्यत , न चैवम् , क्षि[अवयव] विभा
गात् संयोगविनाशः तस्माच्च द्रव्यविनाशः पुनर्विभागः इत्यङ्गीकरणात् । कर्मानन्तरम् अवयवा१. न्तराकाशादिभ्यश्च विभागः ; इतरथा न कुतश्चित् तदनन्तरं भवेत् । तन्न कर्णाद्यकावयवच्छेदनादिभ्यः सर्वात्मना पूर्वदृष्टविनाशो युक्तः ।
यत्पुनरुक्तम्-*"अवयवेषु कर्माणि ततो विभागः तेभ्यः संयोगविनाशः ततो द्रव्यविनाशः" [प्रश० भा० पृ० ४६] इति ; तदपि न परीक्षाक्षमम् ; अवयवेभ्यो भिन्नानां
कर्मणामुत्पत्तावपि तत्स्वरूपचलनाऽभावाद् अतिप्रसङ्गात् । न तेषां ततोऽपि विभागभावः, १५ भावेऽपि "तत एव न ततः तत्सं योगविनाशः। यद्यप्ययं भवेत् तथापि संयोगाद् [४५ख भिन्न इति संयोगस्य तदवस्थस्य अवस्थानानु (नान्न) कार्यस्य नासौ (नाशो) नाम ।
__एतेन संयोगविरोधित्वं कर्मणः प्रत्याख्यातम् । यद् येन नाश्यते तत् तस्य विरोधि, न च संयोगेन नाश्यते कर्म। ततो नाशभावेऽपि कर्मणो न किञ्चित् जायते । नचेयं प्रणालिका परस्य
प्रतीतिगोचरचारिणी-पूर्वम् एषु (पूर्वमवयवेषु) कर्म, ततो विभागः, तस्मात् संयोगविनाशः, ततो २० ऽपि द्रव्यविनाशः, एतस्माच्च तदाश्रितरूपादिनाशः ; किन्तु दण्डादिपातानन्तरं घटादिनाश एव
"तद्रोचरचारी । ततः स्थितम्-'नष्टावयवैनष्टः अन्यैः अनष्टोऽवयवी' इत्यस्य ज्ञापनार्थं 'नानावयवात्मनः' इति वचनम् । ___एतेनेदमपि प्रत्युक्तम् यदुक्तं-"द्रव्याणि द्रव्यान्तरमारभन्ते" [वैशे०सू०१।१।१०]
इति ; *"द्रव्यं च तदन्तरं च कारणद्रव्येभ्योऽन्यत् कार्यद्रव्यम्" इति ; कथम् ? २५ एकान्तेन तेभ्यः” तदन्यत्वनिषेधात्। कथञ्चित् पक्षे समवायवैयर्थ्यात् ।
यत् पुनरेतत्-*"द्रव्ये च द्रव्याणि च तदन्तरमारभन्ते" ते; नवैकस्य ततोः (ततः) संयोगः, अनेकवृत्तित्वाद् अस्य । तदवयवानां संयोग इति चेत् ; न तेन तन्तुद्रव्यमुत्पादितम् ।
(१) "यथा अगुल्याकाशादिविभागात् हस्ताकाशविभागः..."-प्रश० व्यो० पृ० ५०९ । (२) अङ्गुलिहस्तयोः। (३) विभागानन्तरमेव । (४) पूर्वदृष्टशरीरविनाशः। (५) "कर्माण्युत्पद्यन्ते, तेभ्यो विभागाः, विभागेभ्यः संयोगविनाशाः, संयोगविनाशेभ्यश्च कार्यद्रव्यं विनश्यति ।"-प्रश० भा० ४६ । (६) अवयवस्वरूप । (७) भिन्नद्रव्यक्रियातः अन्यत्र चलनस्वीकारे । (८) अवयवानाम् । (९) कर्मणोऽपि। (१०) भिन्नत्वादेव । (११) विनाशः । (१२) संयोगात् । (१३) वैशेषिकस्य । (१४) प्रतीतिगोचरचारी। (१५) कारणद्रव्येभ्यः कार्यद्रव्यस्य भिन्नत्वनिषेधात् । (१६) संयोगस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org