________________
११९]
नानावयवात्मक एव अवयवी तेरिति चेत् ; स्यादेतदेवं यदि अवयवकर्मणः तदन्तरादिव आकाशादिभ्यः तद्विभागो न स्यात् । एकस्मात् कर्मणः कथमनेको विभाग इति चेत् ? कथम् आकाशकालदिगात्मादिभ्यो युगपत् 'तस्य बहवो विभागाः तैर्वा संयोगाः, येनेदम् *"संयोगविभागानां कर्म" [वैशे०सू० १।१।२०] इत्यत्र बहुवचनस्य प्रयोजनमुक्तं शोभेत । एकावयववृत्तिकर्मणः अवयवाभ्यां द्वौ विभागौ अवयवेभ्यः बहवो विभागाः, न च आकाशादिभ्यः इति स्वरुचिविरचितमेतत् ।
'स्यान्मतम्-छेदनादिकर्म सक्रियावयवस्य आकाशादिभ्यो विभागं नारभते द्रव्यारम्भकसंयोगविरोधिविभागजनकत्वात् । यत् पुनः तदवयवस्य आकाशादिभ्यो विभागमारभते न तद् द्रव्यारम्भकसंयोगविरोधिनं विभागमारभते यथा नृत्यतोऽवयवकर्म इति; नायं हेतु; असिद्धत्वात् , संयोगविनाशस्यैव विभागत्वादिति चिन्तितमेतत् । 'न च छेदनादेः परं प्रति द्रव्यारम्भकसंयोगविरोधिविभागजनकत्वं सर्वथा सिद्धम् अवयविनाशप्रसङ्गात्' इति चे। यदि च १० [४४ख] नृत्यतोऽवयवकर्म सक्रियावयवस्य आकाशादिभ्यो विभागहेतुः, अवयवान्तरविभागहेतुर्न दृष्टः इति छेदादिरपि तद्वत् तदहेतुः प्रकल्प्यते ; तर्हि कारणयोर्वंशदलयोर्वर्तमानो विभागो निष्क्रियावयवस्य आकाशादिविभागहेतुर्न दृष्टः इति सक्रियस्यापि तथैव कल्प्यताम् अविशेषात् । प्रमाणबाधनं प्रकृतेऽपि ।
किंच, *"संयोगविभागानां कर्म कारणं सामान्यम्" [वैशेन्सू०१।१।२०] इति १५ वचनात् नृत्यतोऽवयवकर्माणि हस्ताद्यवयवानाम् अन्योऽन्यतो विभागं किन्नारभन्ते ? एवं सति' ततः संयोगविनाशात् नृत्यतोऽवयविनो विनाशः स्यादिति चेत् ; न ; *"एकावयवसंयोगविनाशे पूर्वद्रव्यनिवृत्तौ पुनः अवस्थितसंयोगेभ्योऽवयवेभ्यः अन्यद्रव्यमुपजायते" इत्यभिधानात् पुनः प्रवृत्तिकर्मविशेषेभ्यः संयोगविशेषतोऽन्यद् द्रव्यं स्यात् । अविच्छिनप्रतिपत्तिश्च आशुवृत्तेरिति । एवं सति किं लब्धमिति चेत् ? *"छेदनादिकर्म सक्रिया-२० वयवस्य आकाशादिभ्यो विभागं नारभते द्रव्यारम्भकसंयोगविरोधिविभागजनकत्वात् । यत् पुनः तस्य" "ततो विभागमारभते न तत् "तजनकं यथा नृत्यतोऽवयवकर्म।" इति प्लवते, वैधर्म्यदृष्टान्तविलोपात् । ततो यथा सक्रियावयवस्य अवयवान्तरात् क्रियातो विभागः
(१) अवयवस्य । (२) “संयोगविभागवेगानां कर्म सामान्यम् ॥२०॥ कारणमित्यनुषङ्गः। यत्र हव्ये कर्मोत्पन्नं तेन समं यावद्व्यं संयुक्तमासीत् तावत् संख्याकान् विभागान् जनयित्वा तावतः संयोगानपि पुनरन्यत्र जनयति..."-वैशे० उप० १११।२०। (३) “कार्येणाविष्टं व्याप्तमारब्धकार्यमिति यावत् तस्मिन् कारणे कर्मोत्पन्नं न कारणमात्रे यदा अवयवान्तराद्विभागं द्रव्यारम्भकसंयोगविरोधिनं करोति न तदा आकाशादिदेशात् , यदा त्वाकाशादिदेशान्न तदा अवयवान्तराद्विशिष्टं विभागमिति स्थितिः विभागजविभागचिन्तायाः प्रतिज्ञाता।"-प्रश० व्यो० पृ० ४९९ । न्यायवा० ता० टी० पृ० २५० । “आकाशविभागकर्तृत्वं कर्मणो द्रव्यारम्भकसंयोगविरोधिविभागानारम्भकत्वेन व्याप्तम् । व्यारम्भकसंयोगविरोधि. विभागानारम्भकत्वविरुद्धं च द्रव्यारम्भकसंयोगविरोधिविभागोत्पादकत्वम् । अतो यत्रेदमपलभ्यते तत्र द्रव्यारम्भकसंयोगविरोधिविभागानुत्पादकत्वे निवर्तमाने तद्व्याप्तम् आकाशविभागकर्तृत्वमपि निवर्तते यथा वसिव्यावृत्तौ धूमव्यावृत्तिः।"-प्रश० कन्द० पृ. १५६ । (४) जैनं प्रति । (५) चिन्तितम् । (६) अवयवान्तरविभागाहेतुः। (७) परस्परविभागे । (८) उत्पन्नं भवेत् । (९) स एवायमिति एकत्वप्रतिपत्तिश्च । (१०) सक्रियावयवस्य । (११) आकाशादेः। (१२) द्रव्यारम्भकसंयोगविरोधिविभागजनकम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org