________________
५२
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
इत्यादि ; [४३क] तत्र अङ्गुल्यवयवे छेदक्रियातः अवयवान्तराद्विभागात् संयोगविनाशे सति यदि अवयविनः शरीरस्य विनाशः तर्हि तदवयवछेदनकर्मादिमात्रत एव शरीरस्य नाशे 'तद्गुणानां नाशात् तदवयव्युपलम्भविकलतदारम्भकपादाद्यवयवानामेव उपलम्भः स्यात् । न चैवम्, 'तच्छेदनात् प्राक् पश्चात् तत्समकालं च ' तदेवेदं शरीरम्' इति प्रतीतेः । इतरथा छिन्नाङ्गुलिरपि ५ ' स एवायं मदीयः पुत्रः' इत्यादि व्यवहारविलोपप्रसङ्गः । ननु च एकावयवसंयोगविनाशे पूर्वद्रव्यनिवृत्तौ पुनः अवस्थितसंयोगेभ्योऽवयवेभ्यो अन्यद्रव्यमुपजायते अतोऽयमदोष इति चेत् ; कोशपानैरेव केवलमर्थोऽयं प्रत्येयः, न प्रतीतेः सर्वदैकत्वप्रतीत्युपलम्भात् । भ्रान्तेयमेकत्वप्रतीतिरिति चेत् ; न ; बाधकाभावात् । अथ पूर्वद्रव्यविनाशे द्रव्यान्तरोत्पत्तिरेव बाधिकेति चेत् ; सा कुतः सिद्धा ? तत्प्रतीतेर्विभ्रमाच्चेत्; अन्योन्यसंश्रयः - सिद्धायां द्रव्यान्तरोत्पत्तौ तत्प्रतीतेर्विभ्रमः, त१० स्माच्च तत्सिद्धिरिति । यदि च, सर्वदा शरीरस्य एकत्वे प्रतीयमाने एकावयवसंयोगविनाशे पूर्वद्रव्यनिवृत्तौ पुनः अवस्थित संयोगेभ्योऽवयवेभ्योऽन्यद्रव्यमुपजायते इतीष्यते ; तर्हि सह क्रमेण च वरं परमाणव एव अभ्युपगता:, तथा च अवयव्यादिसाधनप्रयासाद् भवन्तो मुच्येरन् । स्थूलैकप्रतीत्या बाधनमन्यत्रापि ।
>
१५
किंच, [४३ख] 'अङ्गुल्यवयवे चलति आवृते शरीरं न चलति नाप्यात्रियते तथा प्रतीतेः ' इत्यभ्युपगम्य एकावयवसंयोगविनाशे अवयविनाशः सर्वथाऽभ्युपगच्छन् कथं सुस्थः ? तथाप्रतीतेः समानत्वात् । अपि च, यदि नाम एकावयवसंयोगविनाशः किमायातं येन ततो भिन्नस्य अवयविनो विनाशः अतिप्रसङ्गात् ? न ह्यवश्यं कारणनाशाद् उत्पन्नं कार्यं नश्यति अत्र (अन्यत्र) परिणामिकारणविनाश: ( शात् ) । न च संयोगः परिष्ामिकारणं परस्य अन्यथाऽभ्युपगमात् । असमवायिकारणविनाशादपि तन्नाशः " तथाप्रतीतेरिति चेत्; न, एकावयव२० संयोगविनाशेऽपि कार्यद्रव्यस्य कथञ्चिदवस्थानस्य प्रतीतेः ।
एतेन भेदनादिभ्यः एकावयवस्य अवयवान्तराद् विभागेन संयोगनाशात् पूर्वावयविविनाशः प्रत्याख्यातः ; नहि कर्णैकावयवस्य भेदने शरीरस्य तन्त्वेकावयवस्य पाटने पटस्य वंशस्य स्वरल्पत्तकु ( स्वल्पत्वक् ) तक्षणे विनाशः प्रतीयते । ननु कार्यद्रव्याऽविनाशकवंश क्रिया[ याः अ ]वयवस्य आकाशादिभ्यो विभागः अस्वातन्त्र्यात् । स्वतन्त्रावयववृत्तिर्हि विभागः २५ सक्रियावयवस्य आकाशादिभ्यो विभागभारमते । कस्मादिति चेत् ? कार्यद्रव्यविनाशसहचरितस्य आकाशादिभ्यो विभागस्य तदवयवे दर्शनादिति चेत्; तस्य तर्हि अवयवान्तराद्विभागः कार्यद्रव्ये अविनष्टे किं प्रतीयते ? अप्रतीते एकोऽस्ति नापर इति किं [ ४४क] कृतो विभागः ?
स्यान्मतम्-अवयवात्तद्विभागः " कार्यनाशान्यथानुपपत्त्या अनुमीयमानः पूर्वमप्यस्ति नाकाशादिभ्य इति ; न ; तदवयवान्तरादिव आकाशादिभ्योऽपि तदविभागे कार्य (र्या) विनाशात् ।
ननु यदि पूर्व (र्वं ) ”तदन्तरान्न तद्विभागः; कथमाकाशादिभ्यः ? कारणाभावे कार्यानुत्प
३०
(१) अवयविभूतशरीरगुणानाम् । (२) अवयवच्छेदनात् । (३) यदि शरीरविनाशः स्यात् तदा । (४) मद्यं पीत्वैव अयं विश्वासयोग्यः यत् तत्र अन्यत् शरीरमुत्पन्नमिति । (५) तदेवेदं शरीरमिति । (६) परमाणुष्वेव शरीरादिप्रतीतिर्भविष्यति । (७) अवयवात् । (८) वैशेषिकस्य । ( ९ ) संयोगस्य असमवायिकारणत्वस्वीकारात् । (१०) कार्यनाशः । ( ११ ) द्रव्यारम्भकसंयोगविरोधिविभागः । ( १२ ) अवयवान्तरात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org