________________
१९]
नानावयवात्मक एव अवयवी
५१
( गात् ) सक्रियस्य अवयवस्य वंशदलस्य आकाशादिभ्यो विभागः स क्रियाज इति न 'द्रव्यारम्भकसंयोगविरोधिविभागारम्भकस्य कर्मणः' । [ यानि ] द्रव्यानारम्भकसंयोगविरोधि-[४२क] 'विभागारम्भकाणि कर्माणि न तानि द्रव्याना (द्रव्यार) रम्भकसंयोगविरोधिनं विभागमार भन्ते यथा नृत्यतः अवयवकर्माणि, तथेहापि छेदनभेदनतक्षणकर्मणामपि आकाशादिभ्यो विभागजनकत्वे द्रव्यारम्भकसंयोगविरोधिविभागारम्भकत्वं न स्यात् । अस्ति च तस्मादिदमुच्यते - छेद - ५ पाटनक्षणकर्माणि स्वाश्रयस्य' आकाशादिभ्यो न विभागमारभन्ते द्रव्यारम्भकसंयोगविरोधिविभागजनकत्वात् ; " यानि पुनः स्वाश्रयस्य आकाशादिभ्यो विभागमारभन्ते न तानि द्रव्यारम्भकसंयोगविरोधिनं विभागमारभन्ते यथा नृत्यतः अवयवकर्माणि इति । उभयसंयोगित्वाद् उभाभ्यां वियुज्यते इति चेत् ; स्यान्मतं यथाऽयं सक्रियोऽवयवः अवयवान्तरेण संयुज्यते तथा आकाशादिभिरपि तस्माद् यथा अवयवान्तरेण संयुक्तत्वात् तेन वियुज्यते तथा आकाशादिभिरपि सं- १० युक्तत्वात् तेभ्योऽपि वियुज्यते इति ; न ; अनेकान्तात् । नायमेकान्तः - हस्तावयवे उत्पन्नं कर्म 'स्वाश्रयस्य सर्वसंयोगिभ्यो विभागमारभत इति, किं तर्हि कुतश्चिदेव इदम् दृष्टत्वात् । दृष्टं खलु अङ्गुलिकर्म अङ्गुलिद्रव्यस्य आकाशादिभ्यो विभागमारभते न अवयवान्तराद् द्रव्यारम्भकसंयोगविरोधिनं विभागमारभत इति तथेद [ मपि ] पाटनाद्यवयवकर्म अवयवान्तराद् द्रव्यारम्भकसंयोगविरोधिनं विभागमारभते नाकाशादिभ्यः इति तस्माद् [ ४२ ] ' उभाभ्यां वियुज्यते' इति १५ अयुक्तमुक्तमिति । कुतः पुनरयं विशेष इति चेत् ? कारणविशेषात् ।
5
स्यान्मतम् - हस्ताद्यवयववृत्तित्वाऽविशेषेऽपि सति कानिचित् कर्माणि स्वाश्रयस्य आकाशादिभ्यो विभागमारभन्ते “कानिचित् पुनः अवयवान्तराद् द्रव्यारम्भकसंयोगविरोधिनं विभागमारभन्त इति किंकृतोऽयं विभागः इति ? कारणविशेषात् क्रियाकारणविशेषादयं विशेष: । तदुक्तम्*"नोदन विशेषात् "उदसनविशेषः।” [वैशे ० सू०५।१।१०] इति । * “तत्र कार्याविष्टे कारणे २० कर्म उत्पन्नं अवयवान्तराद् विभागमारभते, विभागाद् द्रव्यारम्भकसंयोगनिवृत्तिः, ततः कार्यद्रव्यं निवर्तते, तस्मिन् निवृत्ते कारणयोर्वर्तमानो विभागः सक्रियावयवस्य आकाशादिभ्यो विभागमारभते " [प्रश० भा० पृ० ६८ ] इति । को हेतु रिति चेत् ? स्यान्मतं 'कार्यद्रव्यनिवृत्तौ कारणयोर्वर्तमानाद् विभागात् सक्रियावयवस्य आकाशादिभ्यो विभाग उपजायते न पुनः पूर्वम्' इत्यत्र को हेतुरिति ? कार्यद्रव्यविनाशसहचरितत्वं हेतुः ; यदि सति कार्यद्रव्ये सक्रियावयवस्य आकाशादिभ्यो विभाग उपजायेत, नैवं तर्हि तस्य कार्यद्रव्यविनाश सहचरितत्वं "न स्याद् अङ्गुल्याकाशविभागवदिति चेत्; अत्र प्रतिविधीयते
२५
यत्तावदुक्तम्- 'कारणयोर्वंशदलयोर्विभागो विभागमभिनिर्वर्तयिष्यन् वंशविनाशमपेक्षते'
(१) द्रव्योत्पादक । (२) सकाशात् भवति । (३) आकाशादिदेशविभाग । (४) अब्रवयविभागम् । (५) द्रव्यस्य । (६) तुलना - "कर्मोत्पन्नं यदा तस्यावयवस्य अवयवान्तराद् द्रव्यारम्भकसंयोगविनाशकं विभागं करोति न तदा द्रव्यविरुद्धाद् आकाशादिदेशाद्विभागं करोति । यदा चाकाशादिदेशात्; न तदा अवयवान्तरादिति स्थितिनियमः । " - प्रश० कन्द० पृ० १५५ । ( ७ ) आकाशादिदेश - अवयवान्तर - एतदुभयसंयोगित्वात् । (८) हस्तस्य । ( ९ ) हलन चलनादिरूपाणि । (१०) उत्पाटनादिरूपाणि । ( ११ ) दूरोक्षेपण । (१२) द्रष्टव्यम् - पृ ४५ टि० १० । (१३) 'न' इति निरर्थकमत्र ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org