________________
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
यवानाम् इन्द्रियसन्निकर्षः तैः सहोपलभ्यते, येषां पुनः आवृतत्वान्नेन्द्रियसन्निकर्षः तैः सह नोपलभ्यत इति चेत्; उच्यते - शबलैकरूपवद् आवृताऽनावृतैकावयव्युपपत्तेर्नाऽयुक्तमेतत् । [४१क] यत्पुनरुक्तम्–'नहि यावा [नावा ] रकसंयोगोऽवयवमावृणोति तावान् अवयविनम्' इति; तदपि न सूक्तम्; *" कारणसंयोगिना हि कार्यमवश्यं संयुज्यते " [प्रश० भा०पृ० ६४ ] ५ इति वचनादवयववद् अवयविनोऽप्यावारकसंयोगोऽस्ति । तस्य चोत्पत्तौ अवयवी समवायिकारणमिति सर्वात्मना सँ तत्कारणं चेत् ; तत् सर्वत्र तत्संयोगप्रतिपत्तिरिति कथन्न तावानेव तत्संयोगः तदावारको न स्यात् येनोच्यते - 'अवयविनं पुनः अन्य एव आवारकद्रव्यसंयोगविशेष आवृणोति' इति । अथ न सर्वात्मना किन्तु एकदेशेन; सांशत्वमवयविनः । ननु चोक्तम् - समग्राऽसमग्रशब्दयोर्भेदविषयत्वाद् अवयविनस्तु अभिन्नत्वात् तेंदनुपपत्तिरिति; सत्यमुक्तम्, किन्तु 'तदभि१० न्नत्वात्' इति वदता तस्य एकं स्वरूपमङ्गीकृतम् । तेनैर्वं चेत् संयोगसमवायिकारणम् ; तंत्र संयोगः समवेतः प्रतिभातीति न तद्रहितं तद्र पमस्ति इति नोक्तदोषपरिहारः ।
यञ्चान्यदुक्तम्- 'अपि च भवान् गृहमाणस्य अवयविनः' इत्यादि; तत्राप्युच्यते - अवयविस्वरूपं न गृह्यते नावयवस्वरूपम् । एवं कथञ्चिदवयवाऽवयविनोस्तादात्म्यात्, अन्यथा आवारकजलादिमध्ये दृश्यभागस्य अवयविनः स्तम्भादेः सन्देहो न स्यात् - 'किमस्ति किं वा नेति, १५ कियान् वा समस्ति ?' इति ।
५०
यच्चान्यत्–'इयांस्तु विशेष:' इत्यादि; तदप्येतेन निराकृतम् ; यथैव हि आवृतावयवा इन्द्रियैरसन्निकृष्टा नोपलभ्यन्ते तत्सहितश्च अवयवी', तथा आवारकसंयुक्तः केवलोऽपि " [४१ख ] नोपलभ्यते । ततः स्थितम् - 'आवृतावयवापेक्षया आवृतात्मनोऽन्यापेक्षया अन्यथाभूतस्य' इत्यस्य प्रतिपादनार्थम् 'नानावयवात्मनः' इति वचनम् । तथा 'नष्ठैः नष्टात्मनोऽनष्ठैरनष्टात्मनः' इत्यस्य २० च प्रतिपादनार्थम् ।
ननु च नष्टा अवयवाः त एव ये निष्क्रियावयवेभ्योऽन्ये देशान्तरादिसंयोगिनो विच्छिन्नाः यथा पादादिभ्यो हस्तादयः, नच तेषु शरीरावयवी विद्यते प्राक्तनः पादादिषु येनोच्यते- 'अविनष्टावयवापेक्षया अविनष्ट:' इति, अन्यथा निष्क्रियावयवेभ्य इव आकाशादिभ्यः चित्रपाण्यादिविभागो न भवेत् । तदुक्तम् - " द्रव्याश्रय्यगुणवान् संयोगविभागेषु अकारणमनपेक्ष इति २५ गुणलक्षणम्" [वैशे० १|१|१६] इत्यत्र सूत्रे कैश्चित् “तथा कारणयोः वंशदलयोः विभागो विभागमभिनिर्वर्तयिष्यन् वंशविनाशमपेक्षते । कस्मात् ? अविनष्टे वंशे अस्वातन्त्र्यात् । स्वतन्त्रावयववृत्ति विभागो विभागमारभते न कार्यबद्धावयववृत्तिः, एतच्च यथा सुबद्धं भवति तथा अग्रे वक्ष्यामः इति, तदुच्यते - कारणयोर्वंशदलयोः विभागात् सक्ते - (a) यस्य अवयवस्य वंशदलस्य आकाशादिभ्यो विभागः" इति चेत् ; स्यान्मतं संयोग मावरणम् अल्पतरावयवग्रहणं च तत्रावयविनो न ग्रहणम्, यथा जलनिमग्नस्य शिरोमात्रदर्शनात् । "
- प्रश० कन्द० पृ० ४२ ।
(१) अवयवैः । (२) संयोगस्य । (३) अवयवी । ( ४ ) सांशत्वानुपपत्तिः । (५) अवयविनः । (६) स्वरूपेण । (७) एकस्वरूपे अवयविनि । (८) संयोगरहितम् । (९) आवृतावयवविशिष्टश्च । (१०) उपलभ्यते । (११) अवयवी । ( १२ ) नानावयवात्मनः इति वचनम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org