________________
१९]
नानावयवात्मक एव अवयवी व्यवहारो न स्यात् । अवयवाऽग्रहणकृतः सं इति परस्य दर्शनम् । अथेन्द्रियसन्निकर्षोऽपि तस्य नेष्यते; एकावयवस्यापि न स्यादिति तस्यापि न ग्रहणम् । ततोऽयुक्तमेतत्-*"एकतन्तुवीरणसंयोगात् पटकटसंयोगः" इति; तद्ग्रहणोपायाभावात् । अथ तेशे (अथ ने)ष्यते तत्सन्निकर्षः; पटस्यापि स्यात् *"कारणसंयोगिना कार्यमवश्यं संयुज्यते" [प्रश० भा० पृ० ६४] इति वचनात् , अन्यथा वीरणेनापि न स्यात् । किंच, एकतन्त्ववयवेन्द्रियसन्निकर्षोऽपि यदि ५ तद्भूयोऽवयवेन्द्रियसन्निकर्षसहाय एव तन्तूपलम्भकः; तर्हि तदवयवेन्द्रियसन्निकर्षोऽपि तद्भूयोऽवयवेन्द्रियसन्निकर्षसहाय एव तेदवयवोपलम्भकः, एवं यावत्परमाणवः । न च तेषामिन्द्रियसन्निकर्ष इति सर्वाग्रहणम् । यदि च एकावयवेन्द्रियसन्निकर्षात् तंत्र ज्ञानं न स्यात् ; तर्हि जलमग्नकरिणः करमात्रदर्शनात् 'करी तिष्ठत्यत्र' इति प्रतीतिर्न स्यात् , इष्यते च परेण । ततः साधूक्तम्-'दृश्यावयवैः दृश्यात्मनः विपरीतैः विपरीतात्मनः' इत्यस्य प्रदर्शनार्थम् 'नानावय- १० वात्मनः' [४०ख] इति वचनमिति, तथा आवृतैः आवृतात्मनः विपरीतैर्विपरीतात्मन इत्यस्य च ।
"नन्वेकस्या[ऽऽवृता]नावृतत्वानुपपत्तेः अयुक्तमेतत् । न खलु एकस्मिन्नवयवे पाण्यादौ आवरणे सत्यपि शरीरस्य आवरणमस्ति महत्त्वात्। न हि यावान् आवारकद्रव्यसंयोगः अवयवमावृणोति तावान् अवयविनं "तस्य महत्त्वात्तु पुनरन्य एकावारकद्रव्यसंयोगविशेष आवृणोति यथा प्रतिशरादिसंयोगविशेषः कुड्यमिति । अवयवावारकं तु द्रव्यम् अवयविना संयुक्त नाऽऽवृणोति अमह- १५ त्वात् संयोगविशेषाभावाच, यथा कौपीनप्रच्छादकमल्पं वासः यथा वा परिधानवास इति । समयावयव्युपलब्धिप्रसङ्ग इति चेत् ; ''समग्राऽसमग्र' इतिशब्दयोः भेदविषयत्वात् , अवयविनस्तु अभिन्नत्वात् । न खलु अवयवी समग्रो नाप्यसमग्रः, तस्य एकत्वात् । अपि भवान् गृह्यमाणस्य अवयविनः किमगृहीतं मन्यते येनायमकृत्स्नो गृह्यत इत्याचष्टे ? आवृतोऽवयवो न गृह्यत इति चेत् ; न गृह्यतां नाम, अवयवी तु गृह्यते"ततोऽन्यत्वात्। इयांस्तु विशेषः -येषामव- २०
(१) समन्धकारादौ अस्पष्टताव्यवहारः (२) अवयविनः। (३) एकावयवस्यापि । (४) एकावयवेन्द्रियसन्निकर्षः। (५) एकावयवोपलम्भकः। (६) यावन्तः परमाणुरूपा अवयवाः सन्ति तावतां सन्निकर्षः आवश्यकः । (७) अवयविनि । (८) शुण्डा । (९) "एक चलं चलै न्यैः नष्टं नष्टैर्न चापरैः । आवृतैरावृतं रूपं रक्तं रक्तर्विलोक्यते ॥"-प्रमाणसं० पृ० १०२। न्यायवि० २।२७१। (१०) "न तावदेकस्यावयविनो ग्रहणाग्रहणे ; अवयवावरणेऽपि तस्य कतिपयावयवावस्थानस्य ग्रहणादेव । न च बह्ववयवावस्थानस्य ग्रहणे इव तादृशस्थौल्यानवभासादनवभासोऽवयविन इति साम्प्रतम् ; परिमाणभेदो हि स्थौल्यमवयविधर्मः। न च तस्य तादृशस्यानवभासे अवयवी अनवभासितो भवति. तस्य ततोऽन्यत्वात . तस्मादिन्द्रियसन्निकर्षमात्रादवयविनो ग्रहणम् । इन्द्रियेणार्थस्य इन्द्रियावयवैरर्थस्य इन्द्रियेणार्थावयवानाम् इन्द्रियावयवैरर्थावयवानां सन्निकर्षात् परिमाणभेदग्रहणमिति सामग्रीभेदादवयवितत्परिमाणभेदयोर्ग्रहणाग्रहणे उपपद्यते ।"-न्यायवा. ता. पृ० ३८४ । “एकावयवावरणे अवयव्यावरणस्याभावात् । स ह्येको. ऽनेकेषु अनावृतेतरकतिपयावयवग्रहणेन गृह्यते तस्य सर्वत्राभिन्नत्वात् ।"-प्रश० कन्द० पृ० ४२। (११) अवयविनः । (१२) अल्पस्य आवारकम् । (१३) अधिकस्यावारक विशेषसंयोगसद्भावात् । (१४) "एकस्मिन् भेदाभावात् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ॥११॥-कृत्स्नमिति अनेकस्याशेषाभिधानम् , एकदेश इति नानात्वे कस्यचिदभिधानम् . ताविमौ कृत्स्नैकदेशशब्दौ भेदविषयौ नैकस्मिन्नवयविनि उपपद्यते भेदाभावादिति ।"-न्यायभा० ४।२।११। (१५) अवयवात् । (१६) “यत्त बहुतरावयवग्रहणवत् स्थूलप्रतीतिनं भवति तद भूयोऽवयवप्रचयग्रहणस्य परिमाणप्रकर्षप्रतीतिहतोरभावात् । यत्र तु भूयसामवयवाना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org