________________
४८
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः चित्रत्वमिति बमः । विशेषानवधारणात् , यस्वा सौरूप (यश्चासौ रूप)विशेषः शुक्लत्वादिः सोऽस्मात् नावधार्यते इति । न चेदमरूपं द्रव्यम् उप(अनुप)लब्धिप्रसङ्गात्' वायुवत् । उपलभ्यमानत्वाच तन्तुवत् रूपाधिकरणम् ।" इति ।
एतेन यदुक्तम्*"चित्रं तदेकमिति चेत् , इदं चित्रतरं महत् ।" [प्र० वा० २।२००] इति;
एतदपि प्रत्याख्यातम् ; चित्रशब्दस्य अनेकार्थविषयत्वानभ्युपगमात् । क तर्हि वर्तते' इति चेत् ? एकस्मिन् शबले रूपे वर्तते इति । तथा च प्रतिभासः-शबलो गौः शबलः खलु अश्व इति । कथम् ? यदि हि शुक्लाशुक्लैः तन्तुभिर्जनिते पटे नीलादीनि रूपाणि [३९ख]
भिन्नानि बहूनि वर्तन्ते; अपि तर्हि *"कर्माणि बहूनि युगपदेकस्मिन् द्रव्ये ण (न) वर्तन्ते, १० सजातीयत्वे समानेन्द्रियग्राह्यत्वे एकद्रव्यत्वे च सति अविभुद्रव्यवृत्तित्वात् रूपवत् ।"
इत्यत्र निदर्शनस्य साध्यविकलता । अथैकम् ; नीलादयः क वर्तन्ते ? द्रव्ये चेत; प्रकृतो दोषः । तद्रप इति चेत् ; केन सम्बन्धेन ? संयोगेनेति चेत् ; तद्पनीलाद्योः द्रव्यत्वम् । समवायेनेति चेत् ; तंद्र पस्य द्रव्यत्वं नीलादिसमवायिकारणत्वात् । विशेषणीभावेनेति चेत् ; रूपादयोऽपि
द्रव्ये तेनैव” वर्तन्त इति समवायाभावः । नीलादीनां द्रव्यादिषु अनन्तर्भावात् पदार्थान्तरत्वम् । १५ तादात्म्येन चेत् ; सिद्धं 'शबलैकरूपवत्" इति । ततः स्थितम्-चलाचलसंयुक्तासंयुक्तत्व
प्रतिपादनार्थम् 'एकस्य नानावयवात्मनः' इति वचनम् , दृशोः (दृश्यैः) अवयवैः अदृशोश्च (अदृश्यैश्च) दृश्येतरात्मकत्वप्रतिपादनार्थं च । . नन्वेवम् एकतन्त्ववयवग्रहणेऽपि पटो गृह्यत, न चैवम् , "भूयोऽवयवेन्द्रियसन्निकर्ष
सहायस्य अययवीन्द्रियसन्निकर्षस्य अवयव्युपलम्भकृत्त्वादिति चेत् ; स्यादेतदेवं यदि अवयव२० अवयविनोभे (नोभें) दैकान्तः, स तु नेतीति निरूपितम् । एवं च न अवयवेन्द्रियसन्निकर्षोऽन्यः,
अन्योऽवयवीन्द्रियसन्निकर्षः, येनोच्यते-'भूयोऽवयवेन्द्रियसन्निकर्षसहायस्य अवयवीन्द्रियसन्निकर्षस्य [४०क] अवयव्युपलम्भकत्वात्' इति ; साहाय्यस्य भेदनिबन्धनत्वात् । यदि च, अवयविन इन्द्रियसन्निकर्षोऽस्ति; कुतस्तत्रं ज्ञानं नोत्पद्यते ? कथमन्यथा समन्धकारादौ अवयविज्ञानम् , नहि तत्र भूयोऽवयवेन्द्रियसन्निकर्षोऽस्ति सालोकादिप्रदेशवत्, इतरथा तज्ज्ञानेऽस्पष्टता
(१) रूपसमवायस्य चाक्षुषप्रत्यक्षहेतुत्वात् । (२) अनेकरूपविषयस्वास्वीकारात् । (३) चित्रशब्दः । (४) तुलना-"एकदा एकस्मिन् द्रव्ये एकमेव कर्म वर्तते, एकं कर्म एकत्रैव द्रव्ये वर्तते ।"-प्रश० कन्द० पृ. २९० । “अविभुनि द्रव्ये समानेन्द्रियग्राह्याणां विशेषगुणानामसमवायादिति व्याहन्यते'-प्रश. व्यो० पृ. २२० । (५) चित्रं रूपम् । (६) ऊक्तानुमाने निदर्शनस्य साध्यविकलता । (७) चित्ररूपे । (८) द्रव्ययोरेव संयोगात् । (९) चित्ररूपस्य । (१०) द्रव्यस्यैव समवायिकारणत्वात् । (११) विशेषणीभावेनैव वर्तन्ताम् । (१२) चित्रैकरूपवदिति दृष्टान्तः । (१३) अवयवात्मक-अवयविस्वीकारे । (१४) "भृयोऽवयवेन्द्रियसन्निकर्षानुगृहीतेन अवयवीन्द्रियसन्निकर्षेण ग्रहणात् ।"-प्रश. व्यो. पृ०४६ । "इदं तस्य वृत्तं येषामिन्द्रियसन्निकर्षाद ग्रहणमवयवानां तैः सह गृह्यते येषामवयवानां व्यवधानादग्रहणं तैः सह न गृह्यते ।"-न्यायभा० २।१।३२ । (१५) अवयविनि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org