________________
१९]
नानावयवात्मक एव अवयवी
पावके स्थिते शीतोत्पादादिः । संयोगे विनष्टे तदुत्पाद इति चेत्; कुतस्तर्हि तेद्विनाश: ? विभागादिति चेत् ; अन्योन्यसंश्रयः - सति संयोगविनाशे विभागोत्पादः, तस्माच्च तद्विनाश इति । अथ दृश्यत एव संयोगे सत्येव विभागोत्पादः, 'न दृष्टेऽनुपपन्नं नाम' इति चेत्; न; तथाप्रतीतिविरहात् । संयोगविनाशात्मकविभागप्रतीतेश्च 'संयोगविनाशः, विभागः' इति नाम्नि भेदः नार्थे | विभागाभावे कुतस्तन्नाशँ इति चेत् ? तन्नाशाभावे कुतो विभागः ? स्वकारणात् कर्म ५ इति चेत्; तासोऽपि (नाशोऽपि ) 'स्वकारणात्' इति ब्रूमो द्रव्यादेरिति [३८] यद्वक्ष्यते*"अनादिनिधनं द्रव्यम् उत्पित्सु [ स्थास्नु] नश्वरम् ।
[व] तोऽन्यतो विवर्तेत क्रमाद्धेतु फलात्मना ॥" [सिद्धिवि० ३।२१] इति।
४७
न च अन्योन्यापसरैद्वस्तुव्यतिरेकेण परं कर्म, यद् विभागस्य अन्यस्य वा कारणं स्यात्, इतरथा उत्क्षेपणादिक्ष (क्रि) योत्पत्तावपि यदि द्रव्यं स्वभावतो न चलति न तर्हि तस्य कुतश्चिद् १० विभागः संयोगो वा देशान्तरादिना, अविशेषेण सर्वस्य प्रसङ्गात् । अथ यस्यैव तदिति मतिः; कस्य ? समवायसम्बन्धः आकाशादेरपि । तत्सम्बन्धस्य तत्राप्यविशेषात् । एष यः चलयति (चलति ) इति प्रतीयते तस्य तदिति; न; स्वयमचलति ' तत्प्रतीत्ययोगात् भ्रान्तताप्रसङ्गात् । स्वयं चलति चेत ; तर्हि द्रव्यस्वरूपविशेष एव क्रिया न परा, इति न युक्तमेतत् -* " एकद्रव्यमगुणं संयोगविभागेषु कारणमनपेक्षमिति कर्मलक्षणम्।” [वैशे०सू० १।१।१७] इति विफलम् *" कार्यविरोधि कर्म" १५ [वैशे०सू० १।१।१४] इति च । एतेन आकाशशरीरयोर्विभागात् " तत्संयोगविनाशो व्याख्यातः ।
9
यत् पुनरेतत्-*“उत्तराकाशपाणिसंयोगात् शरीराकाशसंयोगः ।" इति तदपि न प्रातीतिकम् ; नहि 'पूर्वं शरीररहितस्य पाणेः आकाशेन संयोगः, पश्चात् शरीरस्य' इति प्रतीतिरस्ति । आवृत्त्या यौगपद्यविभ्रमोऽपि निरस्तः । अपि च, यदि गगनादिभ्यो वियुज्यमाने पाणी शरीरं वियुज्यते, तैः संयुज्यमाने तस्मिन् तत् संयुज्यते वा ; तर्हि तेभ्योऽवियुज्यमानेषु [३९] पादा- २० दिषु तदैव " तन्न वियुज्यते इति युगपत् " तत् संयुक्तमन्यथा च स्यात् ।
स्यान्मतम् - सर्वात्मना तद् वियुक्तमेव, किन्तु आकाशादिभिः संयुज्यमानेषु पादादिषु आशु “तत्संयोग इति तत्संयुक्तप्रतिपत्त्यविच्छेद इति; तन्न निरूपिताभिधानम् ; अन्यथाप्यविरोधात् । न हि एकं चावयवापेक्षया चलम् अन्यथा अचलम्, तथा विभक्त-संयुक्तावयवापेक्षया संयुक्त विभक्तं च विरुद्धम्, सचलैकरूपवत् । अथ एतदपि नेष्यते; कथं तर्हि “गुणाश्च गुणान्त - २५ रम्" [वैशे० सू० १।१।१०] इत्यत्र सूत्रे अन्तरशब्दस्य उक्तं प्रयोजनमिदं शोभते - "कार्यकारणगुणयोः क्वचित् जात्यन्तरत्वज्ञापनार्थत्वाददोषः । कथम् ? यथा शुक्लाशुक्लैः तन्तुभिरारब्धस्य पटस्य रूपं कारणरूपेभ्यो जात्यन्तरमिति । का पुनः तत्र रूपे जाति: ?
(१) संयोगविनाशः । (२) विभागाच्च । (३) संयोगनाशः । ( ४ ) क्रियातः । (५) गमनशील । (६) संयोगस्य । (७) व्यापित्वात् समवायस्य । (८) कर्म । ( ९ ) चलनक्रियारहिते । (१०) “संयोगधिभागेष्वनपेक्ष कारणमिति" - वैशे० सू० । “संयोगविभागेष्वनपेक्षं कारणमिति" - नयचक्रष्ट० पृ० ३० । (११) विफलमिति निरर्थकम् । ( १२ ) “ कार्यं विरोधि यस्येति बहुव्रीहिः " - वैशे० उप० पृ० २१ । (१३) शरीराकाशसंयोग । (१४) शरीरम् । (१५) शरीरम् । (१६) शरीरसंयोगः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org