________________
४६
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः विभागोपपत्तौ संयोगजसंयोगोपपत्ते: अयमदोषः । कुत एतत् ? कारणेन वियोगिना 'संयोगिना वा कार्यमवश्यं वियुज्यते संयुज्यते वा यथा तन्त्वादिसंयोगिना तुर्यादिना पटादिरिति चेत् ; स्यादेतदेवं यदि कार्यकारणयोः कथञ्चिदैक्यं स्यात्, इतरथा कुम्भकारकारणेनापि वियोगिना संयोगिना वा केनचित् सर्वं घटादि तत्कार्यं वियुज्येत संयुज्येत वा । 'समवायिकारणेन' इति विशेषणादयमदोषः, ५ कथमदाः (मदोष: ?) कार्यकारणभेदैकान्ते समवायीतर कारणविभागकारणाभावात् । समवायः तत्कारणमिति [३ ७ख] चेत्; न; तस्य निषेधस्यमान (त्स्यमान) त्वात् " प्रत्यक्षं सविकल्पकं (ल्पं ) च" [सिद्धिवि०२।२६ ] इत्यादिना । अनिषेधेऽपि यथा विवक्षितयोः कार्यकारणयोः' अन्तराले समवायः; तथा घटादिकुम्भकारयोरपि । अथ सम्बन्धाऽविशेषेऽपि कुतश्चित् प्रत्यासत्तेः किञ्चित् कस्यचित् समवायि केनचित् [ संयुज्यमानेन ] वियुज्यमानेन [वा] संयुज्यते वियुज्यते वा किश्चित्; १० तर्हि तस्या एव कस्यचित् केनचित् तादात्म्यसिद्धेः किं समवायेन विभागजविभागेन संयोगज
संयोगेन च ? पाण्यादेश्व कुतश्चित् केनचिद् विभागात् संयोगाद्वा न परं शरीरस्य विभाग (गं) संयोग (गं) वा पश्यामः । तथापि तत्कल्पने एकमेव न किश्चित् स्यात् । अथ पाणिशरीरयोर भेदः; कुतः ? विभागभेदात् ; अन्योऽन्यसंश्रयः - पाणिशरीरयोः भेदसिद्धेः विभागभेदसिद्धिः, अस्याश्च प्रकृतसिद्धिरिति । नापि पाण्याकाशयो। परिणामविशेषव्यतिरेकेण परस्तयोर्विभागोऽस्ति १५ यः शरीराकाशविभागकारणं स्यात्, अन्यथा कारणविभागात् कार्यविभागात्, कार्यविभागस्य
" तदन्तरं तयोरेकताभयात् स्यात्, तत्रापि " तदन्तरमित्यनवस्था । स्वरूपमेव ततस्तस्य विभक्तमिति चेत्; अन्यत्रापि तदस्तु । किञ्च, यदि आकाशादिना संयुक्त प्रतीयमाने एव शरीरे ततः पाण्यादिविभागप्रतीतिः स्यात्, युक्तमेतत् - " पाण्याकाशविभागात् शरीराकाश-[३८] विभागः ततः शरीराकाशसंयोगनिवृत्तिः । " इति । न चैवम्, तथा क्रमानुपलक्षणात् २० पाण्याकाशविभागकाल एव शरीराकाशविभागदर्शनात् । नहि कश्चित् "खादिना संयुक्त एव शरीरे मम ततः पाण्यादिकं विभक्तमिति मन्यते । उत्पलपत्रशतवेधवद् आशुवृत्तेः तदनुपलक्षणमिति चेत्; भवेदेवं यदि तत्पत्राणां स्वरूपदेशभेदवत् तद्विभागानां स्वरूपकालभेदः कुतश्चित् सिद्धः स्यात्, न चैवम्, प्रतीतिबाधनात् ।
१२
यत्पुनरुक्तं परेण-*“पाण्याकाशयोर्विभागात् तत्संयोगविनाशः” इति; तन्न सुन्दरम्; संयोगे सति विभागानुत्पादात् तद्विरोधिनि । यथैव हि संयोगविरोधिनि विभागे समुत्पन्ने संयोगो नश्यति तथा विभागविरोधिनि संयोगे स्थिते विभागो नोत्पद्यते । न हि शीतविरोधिनि
२५
अकृतसंयोगस्य कर्मणः कालात्ययाभावात् । कारणाकारणविभागादपि कथम् ? यदा हस्ते कर्मोत्पन्नमवयवातद् विभागमकुर्वद् आकाशादिदेशेभ्यो विभागानारभ्य प्रदेशान्तरे संयोगानारभते तदा ते कारणाकारणविभागाः कर्म याँ दिशं प्रति कार्यारम्भाभिमुखं तामपेक्ष्य कार्याकार्यविभागानारभन्ते, तदनन्तरं कारणाकारणसंयोगाच्च कार्याकार्य संयोगाविति । ” - प्रश० भा० पृ० ६७-६८ ।
(१) " कारण संयोगिना ह्यकारणेन कार्यमवश्यं संयुज्यते इति न्यायः " - प्रश० भा० पृ० ४८५ । "कारणसंयोगिना कार्यं संयुज्यते " - प्रश० कन्द० पृ० १४९ । (२) "पटसंयुक्ततुरीवत् " - प्रश० कन्द० पृ० १४९ । (३) निमित्तभूतेनापि । ( ४ ) तन्तुपटयोः । ( ५ ) प्रत्यासत्तेः । (६) भिन्नम् । (७) तुलना"एकदेशाश्रयत्वे तु यदेकस्माद् विभागकृत् । तदेवान्यत इत्यस्ति न विभागो विभागजः ॥ " -न्यायम० पृ० १२३ । (८) चेत् । (९) अवस्थाविशेष । (१०) विभागान्तरम् । (११) आकाशादिना । (१२) खादेः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org