________________
१९]
नानावयवात्मक व अवयवी
एकदेशचलनेऽपि लोके ‘शरीरं चलति' इति व्यवहारदर्शनात, तथाहि यदा 'किमयं मृत जीवति' इति क्वचित् सन्देहः, तदा 'जीवति अयं हस्तचलनेऽपि शरीरं चलयति (चलति ) यतः ' इति व्यवहारदर्शनात् । अवयवक्रियायाः अवयविनि उपचारात् तथाव्यवहारः, अश्वक्रियायाः पुरुषे उपचारात् 'पुरुषो याति' इति व्यवहारवदिति चेत्; तर्हि न अवयवेऽपि परमार्थतः क्रिया स्यात्, तंत्रापि परक्रियोपचारात् तथा व्यवहारात् । अस्खलत्प्रत्ययः उभयत्र समानः । एकस्य ५ चलेतररूपत्वमयुक्तं विरोधादिति चेत्; न; स्वरूपेण विरोधासिद्धेः । नहि यद् यस्य स्वरूपं तत् तेन विरुध्यते, सर्वभावेषु तथात्वापत्तेः । तत्स्वरूपं च तथाप्रतीतेः ।
I
योऽप्याह परैः -*"पाण्यवयवे चलति न शरीरं चलति । कुतः १ कारणविशेषात् क्रियाविशेषसिद्धेः । यः खलु अवयवस्य अङ्गुल्यादेः अल्पस्य क्रियाहेतुः प्रयत्नः नासौ महतः शरीरस्य क्रियाहेतुः, न वै यावान् संयोगः तृणमपसारयति तावाक्लेष्ट (तावान् काष्ठ)- १० मिति । नच अङ्गुल्यवयवे चलति शरीरं चलति इति प्रत्ययोऽस्ति ।" इति सोऽप्यनेन निरस्तः; न खलु अङ्गुल्यवयवे चलति तत्समवेतमपरमचलं स्वरूपं पश्यामः, तंत्र नाट्यकार - “प्रतीतिविरहात् । तथापि तत्कल्पने अचलावयवेषु चलमवयविरूपं कल्पनीयं स्यात् । प्रत्यक्षविरोधः अन्यत्रापि [३७] न दण्डवारितः ।
१५
यत्पुनरुक्तं तेनैर्वै -*“यदि अवयव सं (सत् ) कर्मसमानकालम् अवयविनि कर्म स्याद् अपि तर्हि अङ्गुल्यवयवे चलति शरीरं चलतीति प्रत्ययः स्यात् । किं कारणम् ? असति देशव्यवधाने उपलभ्याधारसमवेतस्य कर्मणः प्रत्यक्षत्वात् न चैवम् अङ्गुल्यवयवे चलति चलति शरीरमिति प्रत्ययः ।" इति; तदपि न युक्तम् ; उक्तोत्तरत्वात्, 'हस्तचलनेऽपि शरीरं चलयति (चलति ) इति व्यवहारदर्शनात्' इति । किञ्च, अवयवात्मकत्वे अवयविनः अवयवस्य पाण्यादेः आकाशादिभ्यो विभागे नियमेन विभागः, तैर्वा संयोगे संयोगः सिद्धो भवति न भेदे । २० न हि हस्तस्य कुतश्चिद् विभागे केनचिद्वा संयोगे चलतः अचल संयुक्तः । अथ विभागज"
(१) अवयवेऽपि । (२) अवयवक्रियायाम् अबाधितप्रत्ययः प्रमाणमिति चेत् । (३) वैशेषिकः । तुलना - "अवयविसद्भावे तु बाधकं प्रमाणमस्ति । तथाहि - पाणौ कम्पवति तदाश्रितं शरीरं न कम्पते, पादे वा कम्पमाने तद्गतं शरीरं न कम्पते इत्येकस्य विरुद्धधर्मताप्रसङ्गः ; तदसङ्गतम् ; पाणौ कम्पमाने शरीरकम्पस्यावश्यम्भावनियमाभावात् । यदा पाणिमात्रं चालयितुं कारणं भवति तदा तन्मात्रं चलति न शरीरं कारणाभावात् । यदा तु शरीरस्यापि चलनकारणं भवेत् तदा शरीरं चलत्येव नास्याचलनमस्तीति कुतो विरोधः ?” - प्रश० कन्द० पृ० ४१ ४२ । (४) शरीरे । (५) शरीरं नृत्यति इत्याकारप्रतीत्यभावप्रसङ्गात् । (६) वैशेषिकेण । (७) क्रियाशीलस्य । (८) शरीरस्य । ( ९ ) संयोगः विभागो वा । (१०) “विभागजस्तु द्विविधः कारणविभागात् कारणाकारणविभागाच्च । कारणविभागान्तावत् कार्याविष्टे कारणे कर्मोत्पन्नं यदा तस्य अवयवान्तराद् विभागं करोति न तदा आकाशादिदेशात्, यदा तु आकाशादिदेशाद्विभागं करोति न तदा अवयवान्तरादिति स्थितिः । अतः अवयवकर्म अवयवान्तरादेव विभागमारभते । ततो विभागाच द्रव्यारम्भकसंयोगविनाशः, तस्मिन् विनष्टे कारणाभावात् कार्याभाव इत्यवयविविनाशः । तदा कारणयोर्वर्त मानो विभागः कार्यविनाशविशिष्टं कालं स्वतन्त्रं वा अवयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्यसंयुक्तादाकाशादिदेशात् विभागमारभते न निष्क्रियस्य, कारणाभावादुत्तरसंयोगानुत्पत्तावनुपभोग्यत्वप्रसङ्गः । न तु तदवयवकर्म आकाशादिदेशाद् विभागं करोति तदारम्भकालातीतत्वात् । प्रदेशान्तरसंयोगं तु करोत्येव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org