________________
[ १ प्रत्यक्षसिद्धिः
तत्प्रसङ्गसाधनम्' । न चेह तदस्ति आकारान्तरानुकारित्वस्याप्यविरोधात् । अर्थसिद्ध स्यादिति चेत्; तथैव अविकल्पसिद्धिरपि । न चैवं नीलादिविकल्पस्य गृहीतमाहित्वम् इति युक्तम् *“अज्ञातार्थ " [प्र०वा० १७ ] इत्यादि । यदा चैवं व्यवहारी वदति यथा मम ज्ञानादनुत्पन्नः अंतदाकारानुकारी वा अर्थः तस्य कारणम्, तथा अर्थादनुत्पन्नम् अतदाकारं ज्ञानं तस्यै ५ ग्राहकम् ; तदापि कथं प्रसङ्गसाधनम् ? ततः स्थितम् - तदर्थवत् इति । तथा च यथा दर्शनं तदर्थाज्जायमानम् अविकल्पकम्, तथा तद्दर्शनादुत्पद्यमानं स्मरणमपि इति विकल्पवार्तापि गता, इति न युक्तमेतत् -* " पुनर्विकल्पयन् किञ्चिद् आसीन्मे कल्पनेदृशी । इति वेत्ति " [प्र० वा० २।२२५] इति । न चा ( न वा) स्मृतौ संहृताशेषविकल्पावस्थाप्यस्ति, कल्पनापि तदा तथैव अन्यथा भवेत् । अथ सामान्यावभासि स्मरणमिष्यते; दर्शनमपि तथैष्यतामिति कथं तदथाभावी कल्पना न स्मर्यते इति भावः ।
१०
४४
सिद्धिविनिश्चयटीकायाम्
1
उपसंहरन्नाह–तद्दर्शनम् इत्यादि । यत एवं तत् तस्मात् दर्शनं प्रत्यक्षं न असाधारणैकान्तगोचरम् असाधारण एकः असहायः अन्तो धर्मो गोचरो यस्य तत् तथोक्तम् न । कुत एतत् ? इत्याह- व्यापृताक्षस्य इत्यादि । व्यापृतानि ज्ञानजनने प्रणिहितानि अक्षाणि इन्द्रियाणि यस्य तस्य कदाचित् संहृताशेषविकल्पावस्थायाम् अन्यदशायां वा क्वचिद् बहिरन्तर्वा तथैव १५ [३६क] असाधारणगोचरप्रकारेणैव अप्रतीतेः 'दर्शनस्य' इति पदघटना । एतदेव भावयन्नाह - न हि इत्यादि । हिः यस्यात् न बहिरन्तर्वा जातुचित् कदाचित् असहायं प्रत्यनीकधर्मरहितम् आकारं वस्तुस्वरूपं पश्यामः यथा येन प्रकारेण व्यावर्ण्यते कथ्यते 'परैः" इत्यध्याहारः । कुत एतत् ? इत्यत्राह–तथैवाऽनिर्णयात् [ तथैव ] वर्णितप्रकारेण अनिर्णयात् अनिश्चयात् । निर्णीतं च गृहीतमुच्यते इति मन्यते । एतदपि कुतः ? इत्यत्राह - नानावयवरूपाद्यात्मनः इत्यादि । घट आदिर्यस्य शरीरादेः स घटादिः तस्य । कथम्भूतस्य ? अर्थस्य न ज्ञानस्य । कुत एतत् ? बहिः ज्ञानादन्यत्र देशे संप्रतीतेः निर्णयात् एकस्य न परमाणु संचयरूपस्य 'असहायमाकारं नहि पश्यामः' इति सम्बन्धः |
२०
२५
एवमपि च अवयवगुणेभ्यो भिन्नस्य तस्य संप्रतीतेः नैयायिकादिमतसिद्धिरिति चेत् ; अत्राह - नानावयवरूपाद्यात्मन इति । नाना अवयवाश्च रूपादयश्च आत्मानो यस्य स तथोक्तः, ते चलाच अचलाच आवृताश्च अनावृताश्च रक्ताश्च तद्विपरीताश्च नष्टा [श्चा] ऽनष्टाश्च अवयवाः नानावयवाः, तदात्मनः इति वचनात् चलैः पाण्यादिभिः चल: विपरीतैः अचलः स इत्युक्तं भवति । कथमेकस्तथेति चेत् ? ‘तथासंप्रतीतेः' इति ब्रूमः । नहि ' पाण्याद्यवयवचलने सं न चलति ' इत्यत्रापि तथासंप्रतीतेरन्यत् शरणमस्ति । " इयमेव प्रतीतिः, नेतरेति चेत्; न; [३६ख ]
१.
(१) "प्रसङ्गसाधनं परस्येष्ट्या अनिष्टापादनात् ।... साध्यसाधनयोर्व्याप्यव्यापकभावसिद्धौ व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः व्यापकाभावो वा व्याप्याभावाविनाभावी इत्येतप्रदर्शनफलम् ।"प्रमेयक० पृ० ५४४ | प्रश० कन्द० पृ०४३ । (२) ज्ञानाकाराननुकारी । (३) ज्ञानस्य । (४) अर्थस्य । (५) अविकल्पकं स्यात् । (६) संहृताशेषविकल्पावस्था । (७) बौद्धैः । (८) अवयविनो द्रव्यस्य वा । ( ९ ) अवयवी । (१०) अवयवचलनेऽपि अवयवी न चलतीत्याकारिका ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org