________________
१९]
नानावयवात्मक एव अवयवी
४३
तथैव प्रतिभासनं हि कल्पनात्मकमात्मानं प्रतिपदम् आत्मनि विपरीतकल्पनां प्रतिहन्तीति संहृताशेषविकल्पावस्थायां दर्शनस्य कल्पनाविरहसिद्धौ यत् साधनमुक्तं परेणे- "या कल्पना यस्मिन् काले विद्यते सा तत्कालसम्बन्धिनी पुनः स्मर्यते, यथा गोदर्शनकालसम्बन्धिनी अवकल्पना, न च संहृताशेषविकल्पावस्थाभाविनी पुनः स्मर्यते सा ।" इति । तदुक्तम्*"पुनर्विकल्पयन् किञ्चिद् आसीन्मे कल्पनेदृशी ।
५
इति वेत्ति न पूर्वोक्तावस्थायाम् इन्द्रियाद् गतौ ||" [प्र०वा०२।१२५] इति । तत्रोत्तरमाह-तदर्थदर्शनम् इत्यादि । दर्शनम् अविकल्पार्थदर्शनं कर्तृ उपनिपत्य उपढौक्य स्वकार्यजन्मन्यव्यवहितं भूत्वा न पुनः सङ्केतस्मृतिजननेनैं । अन्यथा इदं दूषणं स्यात्*"ः प्रागजनको बुद्धेः उपयोगाऽविशेषतः । स पश्चादपि तेन स्यादर्थापायेऽपि नेत्रधीः ॥"
१०
अस्यायमर्थः- यः अविकल्पो बोधः प्राक् स्वसत्तासमये अजनको बुद्धः सदृशस्मृतेः स उपयोगाविशेषतः व्यापाराविशेषत: स पश्चादपि [३५] सङ्केतस्मृत्युत्तरकालमपि ते सौग - तस्य न स्यात् जनकः । ततः किं स्यात् ? इत्यत्राह - अर्थस्य अविकल्पबोधलक्षणस्य अपायेऽपि अभावेऽपि नेत्रधीः अक्षजविकल्पबुद्धिः । ततो न युक्तमेतत्-* "यत्रैव जनयेदेनाम्" इत्यादि । ततः सूक्तम् - उपनिपत्य इति । स्वतः आत्मनैव न वासनाप्रबोधद्वारेण "संस्कारा विनियम्येरन् " १५ [सिद्धिवि० १।६] इति दोषात् स्मृतिं स्मरणम् जनयद् उत्पादयत् नानात्मनान्तरीयकम् आत्मनि तदर्थदर्शनस्वरूपे अविद्यमानमाकारं सामान्यरूपं न पुरस्कर्तुं स्मृतेः अग्रे दर्शयितुं युक्तम् उपपन्नम् । अत्र निदर्शनमाह - तदर्थवत् । तस्य दर्शनस्य अर्थो निरंशस्वलक्षणं तदर्थः स इव तद्वदिति । यथा तदर्थ उपनिपत्य स्वतो दर्शयन् नानात्मनान्तरीयकमाकारं पुरस्कर्तुं युक्तः तथा दर्शनमपि इति । अन्यथा अर्थादेव सामान्यावभासिनो ज्ञानस्य उदद्याद् इदमयुक्तं स्यात् - " तद्धि २० अर्थसामर्थ्यम् (?)” इत्यादि ।
यत् पुनरत्रोक्तं प्रज्ञा कर गुप्ते न - * " नेदं स्वतन्त्रं साधनम् अपि तु प्रसङ्गसाधनम् । तयाहि-बहिरर्थग्राहकं चेद् दर्शनं परेणेष्यते तस्मादुत्पन्नं तदाकारानुकारि च अभ्युपगन्तव्यम्, अन्यथा तदयोगादिति निरंशाऽर्थानुकारित्वात् निर्विकल्पकं सिद्धम् ।" इति; तदनेन अपास्तम्; यत्र हि व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः " प्रदर्श्यते [३५ख] २५
(१) निर्विकल्पकरूपाम् । (२) बौद्धेन । (३) अन्यथा भवितुमर्हति । (४) उद्घृतोऽयम् - तत्त्वोप० पृ० ४० । न्यायम० पृ० ८६ । न्यायवा० ता० पृ० १३६ । अष्टस० पृ० १२२ । सम्मति० टी० पृ० ५२५ । (५) अर्थशब्देन अर्थविषयकं निर्विकल्पकज्ञानं ग्राह्यम् । ( ६ ) ' तत्रैवास्य प्रमाणता' इति शेषः । द्रष्टव्यम् - पृ० १० टि० ३ । ( ७ ) यद्यविद्यमानमाकारमुपदर्शयेत् । (८) विकल्पस्य ( ९ ) " तदुक्तम्तद्ध्यर्थं सामर्थ्ये नोत्पद्यमानं तद्र पमेवानुकुर्यात् " - हेतुबि० टी० पृ० १९५ । " तथाहि - अर्थस्य सामर्थ्येन समुद्भवात् इत्याह-तद्धि अर्थस्य सामर्थ्येनात्पद्यमानं तद्व पमेवानुकुर्यात् । " - प्र० वार्तिकाल० पृ० २७८ । (१०) न अन्तरा भवतीति नान्तरीयकम् अविनाभावीत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org