________________
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
अयुक्तमिति, दर्शनेन अनधिगतोऽपरिच्छिन्नो योऽर्थः तस्य अधिगन्तृत्वाद् ( त्वाभावात् ) अयुक्तं प्रामाण्यमिति; अत्रोत्तरमाह - अत्रोक्तम् इति । अत्र पूर्वपक्षे उक्तम् उत्तरम् *"अनधिगत" [सिद्धिवि० पृ० २४] इत्यादि ।
*" प्रमाणमविसंवादिज्ञानम्" [ प्र०वा० २।३] इत्यादि * “अन्यतः प्रवृत्तौ अविसं५ वादनियमायोगात् " [ सिद्धिवि० वृ० १ ३ ] इत्यनेन * " अज्ञातार्थ " [ प्र० वा० १1७] ’इत्यादि च *“अनधिगतार्थाधिगन्तु प्रमाणमित्यपि " [सिद्धिवि०वृ० १।३] इत्यादिना च प्रत्येकपक्षे निराकृत्य समुत्तरम् अनधिगतेत्यादि प्रमाणमविसंवादिज्ञानामित्यादि अन्यतः प्रवृत्तावविसंवाद नियमायोगात् । समुदायपक्षे निराकुर्वन्नाह - तत्समुच्चय इत्यादि । तयोः *“प्रमाणमविसंवादिज्ञानम् " [प्र०वा० १ ३ ] * " अज्ञातार्थप्रकाशो वा " [प्र०वा० १ | ७ ] १० इत्येतयोः समुच्चयः समुदायः स एव लक्षणं प्रमाणस्य यस्य तस्मिन् प्रमाणे अङ्गीक्रियमाणे प्रत्यक्षनुमानयोर्मध्ये अन्यतरस्य प्रत्यक्षस्य अनुमानस्य वा अपिशब्दाद् द्वयोरपि [३४] प्रामाण्यासंभवात्, 'तस्याश्च प्रामाण्यं युक्तम्' इति सम्बन्धः । तथाहि - परस्यै प्रत्यक्षे अज्ञातार्थप्रकाशोऽस्ति न तु अविसंवादः, तत्र स्वार्थयोः विप्रतिपत्तिविषयत्वात् । अनु अविसंवादोऽस्ति न पुनः अज्ञातार्थप्रकाशः, व्याप्तिग्राहक ज्ञानगृहीतगोचरत्वात् । वक्ष्यते चैतत् - १५ *“ साकल्येनादितो व्याप्तिः " [सिद्धिवि० ३।३] इत्यादिना ।
प्रकृतमुपसंहरन्नाह–‘तद्' इत्यादि । यत एवं तत् तस्मात् अशाब्दम् शब्दानाम् इदं शाब्दं तत्कार्यमिति यावत्, न शाब्दम् अक्षजमित्यर्थः । अविसंवादकं स्वयम् अध्यवसितार्थप्रापकं सदृशस्मरणं युगपत् क्रमभाविभागसाधारणाकारज्ञानं परप्रसिद्धधा 'सदृशस्मरणम्' उच्यते अस्ति विद्यते । ननु चेदं नाक्षजं किन्तु मानसं संहृतसकलविकल्पावस्थायाम् अक्षजस्य २० अन्यथा दर्शनादिति चेत्; अत्राह - संहृत इत्यादि । संहृताः सकला विकल्पा यस्याम् अवस्थायां तस्यामपि न केवलम् अन्यस्यां तथैव उक्तप्रकारेणैव प्रतिभासनात् स्वार्थयोः इति । ननु यदि सा अवस्था; कथं तथैव प्रतिभासनम् ? तच्चेत्; न साऽवस्था, तथाप्रतिभासस्य विकल्पात्मकत्वादिति चेत् ; सत्यम्, तथापि ततोऽन्यस्य विकल्पस्य अभावात् 'संहृत' इत्यादि वचनम् । अथव पंरापेक्षया इदमभिधानमित्यदोषः । परेण हि याऽसौ तदवस्था उपवर्णिता "संहृत्य सर्वतश्चि२५ न्ताम् ” [प्र०वा० २।१२४ ] " इत्यादिना, तस्यामपि तथैव प्रतिभासनादिति । अनेन सैव नास्ति इत्युच्यते । ततो निराकृतमेतत् [ ३४ख] यदुक्तं परेण -* " यद् उपलब्धिलक्षणप्राप्तं यत्र नोपलभ्यते तत् तत्र नास्ति यथा प्रदेशविशेषे घटः, उपलब्धिलक्षणप्राप्ताश्च कल्पनाः संहृताशेषविकल्पावस्थायां दर्शने नोपलभ्यन्ते" इति । कथम् ? प्रत्यक्षबाधितत्वात् पक्षस्य ।
1
४२
(१) "अज्ञातार्थप्रकाशो वा " - प्र०वा० । (२) (एतचिह्नान्तर्गतः पाठो द्विलिंखितः । (३) "तस्मादनधिगतार्थं विषयं प्रमाणमित्यपि अनधिगते स्वलक्षणे इति विशेषणीयम् । " - हेतुबि० पृ० ५३ । "तत्राप्यविसंवादग्रहणात् । " - प्र० वार्तिकाल० पृ० ३० । “तस्मादुभयमपि परस्परसापेक्षमेव लक्षणं बोद्धव्यम् ।"प्र० वा० मनो० १।८ । ( ४ ) बौद्धस्य । (५) निर्विकल्पप्रत्यक्षे । (६) परिस्फुटरूपेण । (७) विद्यते । (८) स्थिरस्थूलादिरूपेण । (९) बौद्ध । (१०) "स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ।" इति शेषः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org