________________
१९]
सविकल्पस्य वैशद्यम्
वृत्तिकारिकयोः साङ्गत्यमिति चेत् ? अयमभिप्रायः - सौगतापेक्षया मध्यक्षणः स्थूलः एकस्यानेकभावव्याप्तेः, स एव जैनापेक्षया अतिशयेन स्थूलः सावयवः पूर्वोत्तरक्षणव्याप्तेः । ततः प्रकृत्य आदौ 'स्थूलम्' इति व्याख्यातम् । तेन (एतेन ) 'अक्षणिकम्' इति व्याख्यानं (व्याख्यातम्) । ' तेनाक्षणिकमिति । कोऽसौ ? इत्यत्राह - कृतो: ( आकारः) वस्तुस्वभावः । कथमवभासते ? इत्यत्राहपरिस्फुटम् इति, क्रियाविशेषणमेतत् । ननु यदि ममं स्वलक्षणानि क्षणिक परमाणुलक्षणानि पश्यतः ५ तथाविध आकारोऽवभासते कथं तथा न जानानि ( तथा नाभ्यनुजानाति ) ? कथमन्यथा 'यत् सत् तत्सर्वमनेकान्तात्मकम्' इति वक्ष्यमाणकमनुमानमर्थवत् ? इतरा ( रस्य) क्षणक्षयेऽपि क्षे तँदनुमानमनर्थकं न स्यादिति चेत्; अत्राह - जाना (ज्ञाना) सौष्ठवप्रदर्शनार्थः यदि तुभ्यं सौगताय रोचते दिण्डिक (डिण्डिक) रागं [ ३३ ] परित्यज्य यदि तत्र रुचिं कुरुषे स्वयमेव । न चैवम्, तस्मात् रुचिकरणार्थमनुमानमिति मन्यते । ननु ज्ञानसन्निवेशी स्थवीयानाकारोऽवभा- १० सते, किन्तु तज्ज्ञानस्य अनक्षजत्वात्, अंक्षजं ज्ञानं स्वार्थपरिस्फुटम्, " अभिधानजनतिस्वर्गादि"विकल्पप्रतिभासाऽविशेषाच्च न परिस्फुटमवभासत इति चेत्; अत्राह - प्रकृत इत्यादि । प्रकृता प्रमाणस्य उत्पादे (दे) अधिकृता या सदृशस्मृतिः तस्यातिवा ( तस्या इव) अव्यापृताक्षस्य अर्थग्रहणं प्रति अव्यापृताभ्येक्षणियस्य ( अव्यापृतानि अक्षाणि यस्य तस्य) या बुद्धि: विकल्पिका तस्याम् अप्रतिभासनात् 'एकस्य ज्ञानसन्निवेशिनः स्थवीयसत्स्वाकारस्य (स्थवीयसः १५ आकारस्य)' इति "तापरिणामेन सम्बन्धः । एतदुक्तं भवति - यथा प्रकृतसदृशस्मृतौ तदा प्रतिभासनं तथा यद्यव्यापृतेन्द्रियविकल्पबुद्धौ” स्यात् युक्तमेतत्, न चैवम्, “एकत्र स्फुटतया अन्यत्र ' विपर्ययेण प्रतिभासनात्। शब्दैश्च कारणभूतैर्बुद्धावप्रतिभासनात् । च शब्दो भिन्नप्रक्रमः । ततः किं जातम् ? इत्यत्राह - सदृशाकारम् इत्यादि । सदृशः साधारण: युगपत्क्रमभाविभागे स्वाकारो ( भागेषु आकारो) यस्य तम् अशब्द शब्दरर्वमर्थं ( रहितमर्थं ) स्मरत्येव निश्चिनोत्येव ।
93
४१
"ननु भवतु प्रकृतसदृशस्मृतौ तथाविधाकारस्य " तथाभासनम् तथापि " सा प्रमाणं माभूद् दूरस्थित विरलकेशादौ तथाविधाकाराभावेऽपि तदवभासदर्शनादिति चेत्; इत्यत्राह - तस्याश्च इत्यादि । तस्या एव प्रकृतसदृशस्मृतेरेव प्रामाण्यं [ ३३ख] युक्तम् उपपन्नम् । न हि यस्मात् तया प्रकृतसदृशस्मृत्या अर्थं सदृशाकारं वस्तु परिच्छिद्य प्रवर्तमानः अर्थस्य क्रियायां प्राप्तौ विसंवाद्यते दूरस्थितविरलकेशादिषु स्थूलैकाकारवद् विप्रलम्भं नार्हति । भवतु अविसंवादिनीय २५ तथापि नास्याः” प्रामाण्यं दर्शनदृष्टविषयत्वात् । एतदेवाह - अनधिगतार्थाधिगन्तृत्वाभावाद्
।
(१) 'तेनाक्षणिकमिति' द्विलिखितम् । (२) बौद्धस्य । ( ३ ) परः । ( ४ ) जैनो नाभ्यनुजानाति अतएव । (५) इतरस्य बौद्धस्य । 'कथमन्यथा' इति अत्रापि योज्यम् । (६) क्षणक्षयानुमानम् । (७) "डिण्डिकरागम् परेणोक्ते तस्योपरि मयाऽवश्यमयुक्ततया निष्फलमभिधानीयम् इत्यस्थानाभिनिवेशम् " - हेतुबि० टी० पृ० ७१ । (८) विकल्पज्ञानस्य । (९) इन्द्रियजं निर्विकल्पज्ञानम् । (१०) शब्दजनित । ( ११ ) विकल्पप्रतिभासतुल्यत्वात् । (१२) 'ता' इति षष्ठीविभक्तेः संज्ञा जैनेन्द्रव्याकरणे । (१३) एकस्थूलाकारस्य । (१४) इन्द्रियव्यापारशून्यस्य पुंसः वासनाजन्यविकल्पज्ञाने । (१५) इन्द्रियजन्यविकल्पबुद्धौ । (१६) मानस कल्पनाज्ञाने । (१७) बौद्धः । (१८) स्फुटं प्रतिभासनम् । (१९) स्मृतिः । ( २० ) स्मृतिः । (२१) स्मृतेः । (२२) अनुभूतविषयत्वात् स्मृतेः ।
For Personal & Private Use Only
Jain Education International
२०
www.jainelibrary.org