________________
४०
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः एकत्वं हेतुफलभावमन्यं वा सम्बन्धं प्रत्येतुमर्हति *"द्विष्ठसंबन्धसंवित्तिः" [प्र० वार्तिकाल. २।१] इत्यादि वचनात् , नापि सत्त्वम् अद्वैतोपगमात् । तथा मध्यक्षणस्य पूर्वसूक्ष्मनिरंशैकांशग्रहणे मग्नं न तद् इतरभावत्वाक्षितुं (भावान् वीक्षितुं) क्षमते इति तेषामपि सैव वार्ता स्यात् । न च तदंशज्ञान (न) सामान्यवत् इति सर्वशून्यताप्रसङ्गः। स मा भूदिति स्तम्भज्ञानमेकम५ भ्युपगन्तव्यम्, तच्च मध्यभागे प्रवर्तमानं तद्ग्रहणानुबन्धमजहदेव ऊर्ध्वाधस्तर्यग्भागेषु यथा प्रव
र्तते तथा मृत्पिण्डे प्रवर्तमानं तद्ग्रहणानुबन्धमजहदेव क्रमेण शिविका[३२क]दीनि अवस्यतीति सिद्धम्-अक्षणिकं स्फुट व्यवस्यति इति । शेषं परस्य दुश्चेष्टितं प्रहन्तव्यं दिशाऽनया।
पूर्वकारिकायां सदृशेत्यादिना परकीयस्य हेतोः अनैकान्तिकत्वं दर्शितम् , 'तावतैव' इत्यादिना *"कल्पनापोडम्" [प्र० वा० २।१२३] इति लक्षणस्य व्यवच्छेद्याभावः, अनेन १० श्लोकेन "तदसंभवः इति विभागः ।
कारिकां विवृण्वन्नाह-स्वलक्षणानि इत्यादि । स्वलक्षणानि कथम्भूतानि ? [स्वयम् आत्मना सौगतेन न जैनेन नैयायिकादिना वा अभिमतः अङ्गीकृतो यः क्षणे क्षणे क्षयः नासौ निरन्वयो न परिणामलक्षणः षट्कोणस्थानलक्षणो वा, तेन उपलक्षिता ये परमाणवः ते लक्षणं
स्वरूपं येषां तानि तथोक्तानि । तानि किम् ? इत्यत्राह-पश्यतोऽपि वीक्ष्यमाणस्यापि सौगतस्य १५ न केवलमपश्यतः केवलम् एको हि ज्ञानसन्निवेशः(शी) स्थवीयान् आकारः परिस्फुटमवभा
सत इति । ननु "तथाविधानि स्वलक्षणानि पश्यतः तथाविध आकारोऽवभासते इति विरुद्धमेतत् । नहि नीलं पश्यतः पीतं तथाऽवभासते इति वचन[म] विरुद्ध[म् ] इति चेत् ; न; अर्थापरिज्ञानात्। अयं हि अस्यार्थः-*"सञ्चितालम्बनाः पञ्च विज्ञानकायाः" इति परस्य राद्धान्तः।
तत्र च यावन्तः परमाणवो न तावन्त्येव तदाकारानुकारीणि ज्ञानानि, "सन्तानान्तरवद् भेदात् १. समूहादिप्रतीतिविलोपात् , एकं तेषां ज्ञानं ग्राहकमभ्युपगन्तव्यम् । तच्च "अन्योऽन्यविविक्तानेक
परमाण्वर्पिताकारानुकरणाद् [३२ख एव (एक) मुच्यते, एकः अनेकपरमाण्वर्पितभिन्नाकारसाधारणः । हि इति यस्मादर्थे, यस्मादेवं तदविसंवादकं सदृशस्मरणमस्ति' इत्यनेन सम्बन्धः। अत्रापि 'तत्' इत्येतत् तस्मादर्थे द्रष्टव्यः । कथम्भूतोऽसौ ? इत्यत्राह-ज्ञानसन्निवेशो (शी)
भेदविवक्षया परमाणुभिरर्पिता ज्ञानस्य आकारा ज्ञानानि सम्यक् कथञ्चित्तादात्म्येन निवेष्टुं २५ शीलः सन्निवेशी। पुनरपि कथम्भूतः ? इत्यत्राह-स्थवीयान् स्थूलतरः । ननु कारिकायाम् 'स्थूलं व्यवस्यति' इति वचनात् नातिसायिकस्य (नातिशायिकस्य) श्रुतिः वृत्तौ तु "सास्ति तत्कथं
(१)"नैकरूपप्रवेदनात् । द्वयोः स्वरूपग्रहणे सति सम्बन्धवेदनम् । इति शेषः। (२)प्रत्येतुमर्हति । "विचार्यमाणं सकलं विशीर्यते नाद्वैतादपरं तत्त्वमस्ति ।"-प्र. वार्तिकाल० पृ० ३१ । (३) दर्शनम् । (४) पूर्वोत्तरादि । (५) असत्त्वं स्थादित्यर्थः । (६) इतरनिरपेक्षं सत् स्वरूपं लभते, इति अस्तित्वविहीनमित्यर्थः । अथवा सामान्यवत्-सामान्यम् अस्तित्वं तद्वत् अस्तित्वशालि इर्थः। (७) स्थूलस्कन्धज्ञानम् । (6) स्तम्भज्ञानमेकम् । (९) अभिधानसंसृष्टार्थग्राहकत्वे साध्ये सविकल्पकत्वादिति हेतोः। (१०) क्षणिकस्वलक्षणग्राहकनिर्विकल्पप्रत्यक्षासंभवः। (११) क्षणक्षयपरमाणुलक्षणानि। (१२) बौद्धस्य । द्रष्टव्यम्पृ०३९ टि०२ । (१३) विभिन्मपुरुषज्ञानवत् । (१४) परस्परविभिन्न । (१५) अतिशयवाचिनः प्रत्ययस्य । (१६) अतिशयेन स्थूल इति स्थवीयान् इत्यत्र अतिशयार्थस्य श्रुतिः वृत्तौ वर्तते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org