________________
१९]
सविकल्पस्य वैशद्यम् निवर्तमानं क्षणिकत्वे अवतिष्ठते इति सतः साकल्येन क्षणभङ्गसिद्धिः १ तत्रैव ताभ्यां तद्विरोधात् । ततो यत् सत् तत्सर्वमनेकान्तात्मकम् । तदेकान्तस्यासत्त्वम् उपलब्धिलक्षणप्राप्तावनुपलभ्यमानखात् । अन्यथाऽप्रमेयत्वम् ।]
परस्परविलक्षणानि निरंशक्षणानि स्वलक्षणानि पश्यन् सौगतः अन्यो वा जिनः (जनः) अनेन *"सञ्चितालम्बनाः पञ्च विज्ञानकायाः" इति परस्य सिद्धान्तो दर्शितः । ५ किमर्थमिति चेत् ?
*"प्रत्यक्षं कल्पनापोडं प्रत्यक्षेणैव सिध्यति ।
प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः ॥" [प्र० वा० २।१२३] इस्यस्य 'एकम्' इत्यादिना वक्ष्यमाणेन प्रत्यक्षेण बाधाप्रदर्शनार्थम् ; तथाहि
प्रत्यक्षं कल्पनापोढं प्रत्यक्षेण निराकृतम् ।
प्रत्यात्मवेद्यं सर्वेषां जीत्यन्तरमिह स्फुटम् ॥ तद्यथा-स्थूलं महत्त्वोपेतं घटादिकं व्यवस्यति निश्चिनोति सौगतो जनो वा न सूक्ष्म परमाणुरूपम् एकं युगपदनेकावयवगुणसाधारणम् । अनेन अंक्रमानेकान्तो दर्शितः। अक्षणिक पूर्वापरकोटिसंघटितशरीरं मृत्पिण्डादिषु कथञ्चिन्मृदेकत्वदर्शनात् । अनेन क्रमाऽनेकान्तः । ननु व्यवस्यति तथाभूतं तत्तु कल्पनामिति (मति) कल्पितत्वात् अपरिस्फुटमिति चेत् ; अत्राह-स्फुटम् ॥ इति । स्फुटं विशदमिति । ततो निराकृतमेतत् यदुक्तं -प्रज्ञा करेण *"अस्थूलाऽनेकापेक्षया तत् स्थूलमेकम् इति न पारमार्थिकम् । न हि वस्तुस्वभावाः परापेक्षया भवन्ति अतिप्रसङ्गात् ।" [३१ख] इति । कथम् ? स्फुटत्वाभावप्रसङ्गात् । तथैव तत् , न परापेक्षमेतत् , स्वयं स्थूलस्यैव बिल्वकपित्थादेः सर्षपापेक्षया स्थूलताव्यवहारः। न हि तथाऽपरिणतम् अन्यापेक्षया तद् भवति अतिप्रसङ्गात् । यत् यस्मात् वैशद्य विद्धि जानीहि सहशस्मृतेः २० व्यवसायात्मनो दृष्टेः सम्बन्धीति ।
ननु यदि *"प्रत्यक्ष कल्पनापोहम्" [प्र. वा० २।१२३] इत्यादेनिषेधार्थम् 'एकम इत्यादि वचनम् ; तर्हि 'एकं स्थूलम्' इत्यनेन "अक्षिणकम्' इत्यनेन वा तन्निराक्रियत इत्युभयवचनमनर्थकमिति चेत् ; न; क्रमाऽक्रमानेकान्तयोः समानबलताप्रतिपादनार्थत्वात् तद्वचनस्य । तथाहि-यथैव प्रज्ञा क र स्य मध्यक्षणदर्शनं पूर्वोत्तरक्षणौ द्रष्टुमसमर्थमिति न तयोः तेने' २५
(१) “यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदः तत् स्वलक्षणम् । तदेव परमार्थसत् ।"-न्यायबि० १११३, १४ । (२) रूपवेदनाविज्ञानादयः। “पञ्चसञ्चयस्यालम्बात्"-प्रमाणसमु० इलो० १७ । (३) तुलना-"प्रत्यक्षं कल्पनापोडं प्रत्यक्षादिनिराकृतम् ।"-न्यायवि. १।१५४ । (४) कथञ्चित् नित्यानित्यात्मकम् । (५) युगपदनेकद्रव्यव्यापकस्कन्धविषयकः स्थूलत्वग्राहकः । (६) दर्षि क्रमशः परापरपर्यायच्याप्येकद्रव्यविषयकः स्थिरत्वग्राहकः । (७) "परमार्थसन्तोऽवयवाः संवृतिसन्नवयवीति..."-प्र. वार्तिकाल० पृ० ५५५ । पृ० १८७ । (८) सत्ता स्वीकुर्वन्ति । (९) तथा परिणतमेव तत् भवति न परापेक्षया तथाऽपरिणतं तद् भवितुमर्हति, व्यवहार एव हि परापेक्षया भवति न स्वरूपम् । (१०) पूर्वोत्तरयोः। (११) मध्यक्षणेन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org