________________
३८
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः अभिलापसंसर्गरहिता अभिलापादिविषया सिद्धा । तदनभ्युपगमे दोषमाह-तद् इत्यादि । तस्य स्मर्यमाणस्य अभिलापस्य योऽन्योऽभिलापः तस्य अपेक्षणे अङ्गीक्रियमाणे अनवस्थाप्रसङ्गाद् अनभिलापिनी सिद्धेति । एतदुक्तं भवति-यदि अभिलापवती प्रतीतिः कल्पना तर्हि तद्विपरीता अकल्पना इति स्वल्पा धीः स्याद् विकल्पिका इति । ५ एतत् परिहरन्नाह परः-'अभिलाप' इत्यादि । अभिलप्यते येन यो वा असौ अभिलापः शब्दसामान्यम् अर्थसामान्यं च, तेनं अर्थस्य तस्य वा शब्देन संसर्गो योजनम् तस्मै योग्यः प्रतिभासो यस्याः सा तथोक्ता प्रतीतिः संवित्तिः कल्पना इत्येवं विशेषणात् कारणाद् अदोषः 'स्वल्पा धीः स्यात् विकल्पिका' इत्यस्य दोषस्य अभावः। प्रत्यक्षसदृशाभिलापस्मृतेरपि कल्पनात्मकत्वादिति । इत्येवं चेत् शब्दः पराभिप्रायसूचकः । अत्राह आचार्यः१० स्वार्थ इत्यादि । स्वं च अर्थश्व स्वस्य वा अर्थः तस्य वा सन्निकर्ष इन्द्रियेण सम्बन्धः तेन
जनितः स चासौ [३१क] निर्भासविशेषश्च निरंशपरमाणुनिर्भासः तस्य वैकल्यम् अभावः, पर्युदासापेक्षया स्थूलैकप्रतिभास एव तद्वैकल्यं तद्व्यतिरेकेण तदपहाय न तद्विशेषणार्थ विशेषणाभिधानाभिधेयम् उत्प्रेक्षामहे इति किन्तु तदेव पश्यामः । ततः किम् ततः तस्मात् तद्विशेषणार्थात् किं दूषणमित्यपरः । १५ अत्र आचार्यः प्राह-पश्यन् इत्यादि ।
[ पैश्यन स्वलक्षणान्येकं स्थूलमक्षणिकं स्फुटम् ।
यव्यवस्यति वैशचं तद्विद्धि सशस्मृतेः ॥९॥ स्वलक्षणानि स्वयमभिमतक्षणक्षयपरमाणुलक्षणानि पश्यतोऽपि केवलमेको हि ज्ञानसनिवेशी स्थवीयानाकारः परिस्फुटमवभासते । यदि तुभ्यं रोचते । प्रकृतसदृश२० स्मृतेरिव अव्यापृताक्षबुद्धावप्रतिभासनात् । शब्दैश्च सदृशाकारमशब्दं स्मरत्येव । तस्याश्च
प्रामाण्यं युक्तम् । न हि तयाऽर्थं परिच्छिद्य अर्थक्रियायां विसंवाद्यते । अनधिगतार्थाधिगन्तृत्वाभावादयुक्तम् , इत्यत्रोक्तम् । तत्समुच्चयलक्षणे प्रमाणे अन्यतरस्यापि प्रामाण्यासंभवात् । तदशाब्दमविसंवादकं सदृशस्मरणमस्ति संहृतसकलविकल्पावस्थायां तथैव प्रति
भासनात् । तदर्थदर्शनमुपनिपत्य स्वतः स्मृतिं जनयत् नानात्मनान्तरीयकमाकारं पुर२५ स्कर्तुं युक्तं तदर्थवत् । तद्दर्शनं नासाधारणैकान्तगोचरं व्यापृताक्षस्य कदाचित् क्वचित्त
थैवाप्रतीतेः । नहि बहिरन्तर्वा जातुचिदसहायमाकारं पश्यामो यथा व्यावर्ण्यते तथैवानिर्णयात् । नानावयवरूपाद्यात्मन एकस्य परिणामिनो घटादेः बहिः संप्रतीतेः अन्तः चित्तैकाकारस्य एकस्य चित्रस्येव । न च तद्विपरीतार्थप्रकाशकं किञ्चिज्ज्ञानमस्ति यत्
प्रकृतं भ्रान्तं स्यात् । न हि तदेकान्ते स्वसदसत्समये अर्थक्रियासंभवः। तथा सति ३० कथमक्षणिकत्वे क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् तीरादर्शिशकुनिन्यायेन ततः सत्त्वं
(१) बौद्धः । “अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना ।"-न्यायबि० १।५ । (२) शब्दसामान्येन । (३) अर्थसामान्यस्य । (४) उद्धृतोऽयम्-न्यायबि० वि० प्र० पृ० ९८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org