________________
११८]
सविकल्पस्य वैशद्यम् तदन्याभिलापापेक्षणे अनवस्थाप्रसङ्गात् । अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पनेति विशेषणाददोषश्चेत् स्वार्थसन्निकर्षनिर्भासविशेषवैकल्यव्यतिरेकेण न तद्विशेषणार्थमुत्प्रेक्षामहे । ततः किम् ?]
सदृशः सन्निहितेन समानः सङ्केतसमयभावी वश्च अर्थश्च तस्य अभिलापः अभिधानम् आदिर्यस्य विशेषणविशेष्यसम्बन्धलोकस्थित्यादेः स तथोक्तः तस्य, नापि नैव ५ अभिलापिनी शब्दवती, परपक्षनिक्षिप्तदोषप्रसङ्गः न्यायस्य समानत्वात् । अत एव अर्थाभिलापग्रहणं युगपद् [३०क] अर्थाभिलापः अभिलाप (अर्थाभिलाप) प्रतिभासप्रतिपादनार्थम् । अनवस्था च स्मर्यमाणाभिलापेऽपि स्मृतस्य तस्य योजनात् , तत्रापि स्मृतस्येति । ततः अनैकान्तिको हेतुः । नाऽनैकान्तिकः तस्या अविकल्पकत्वात् *"अभिलापवती प्रतीतिः कल्पना । ततोऽन्या अविकल्पिका।" इत्यपरः । तस्य उत्तरमाह-तावतैव इत्यादि । तावतैव १० अनभिलापित्वमात्रेणैव अविकल्पकत्वे अङ्गीक्रियमाणे 'तत्स्मृतेः' इति विभक्तिपरिणामेन सम्बन्धः। *ल्या (?) तुच्छा नीरूपा धीः बुद्धिः स्याद् भवेत् विकल्पिका कल्पनैव न स्यादित्यर्थः । एतदुक्तं भवति-यदा तदभिलापस्मृतिः अविकल्पिका तदा कल्पनापोढत्वात् प्रत्यक्षैव स्यात्-*"कल्पनापोढं प्रत्यक्षम्" [प्र०समु०पृ०८] इति वचनात् । स्वलक्षणविषयत्वाच । स्वलक्षणगोचरमध्यक्षम्, ततो न तद्विषयस्य अभिधानस्य दृष्टे योजनमिति 'नीलमिदम्' इत्यादि । विकल्पाभावः इति प्रत्यक्षलक्षणे कल्पनापोढपदमनर्थकं 'व्यवच्छेद्याभावात् । माभूदयं दोषः इति तत्स्मृतिः "अनभिलापिन्यपि सविकल्पिका अभ्युपगन्तव्येति स एव दोषः ।
एतेनेदमपि निरस्तं यदुक्तं परेण-*"न सोऽस्ति प्रत्ययः" [वाक्यप०१।१२४] इत्यादि।
कारिकां विवृण्वन्नाह-किश्चिद् इत्यादि । किश्चिद् देवदत्तादिकं केनचित् दण्डादिना विशिष्टं गृह्यमाणं विशेषणं दण्डादि विशेष्यं देवदत्तादि तयोः सम्बन्धः संयोगादिः आदि-२० शब्देन लोकव्यवस्थादिपरिग्रहः तेषां ग्रहणं सङ्केतकाले प्रतिपत्तिः तदन्तरेण न भवितुमर्हति [३०ख] किन्तु तस्मिन् सति भवति । तदुक्तं परेण
*"विशेषणं विशेष्यं च सम्बन्धं लौकिकी स्थितिम् ।
गृहीत्वा संकलय्यैतत् तथा प्रत्येति नान्यथा ॥" [प्र०वा० २।१४५] इति । ततः किं जातम् ? इत्यत्राह-तत इत्यादि । यत एवं ततः तस्मात् प्रत्यक्षः पुरो-... वर्ती तेन सदृशोऽर्थः सङ्केतकालदृष्टः तस्य अभिधानस्य वाचकस्य स्मृतिः अनभिलापिनी
(6) अभिलापस्य । (२) अभिलापस्मृतेः अविकल्पकत्वेन शब्दशून्यत्वात् , अतो नापरशब्दापेक्षा । (३) "विशेषणादिसम्बन्धवस्तुप्रतिभासा प्रतीतिः कल्पना"-प्र०वार्तिकाल.पृ. २४५ । "वाच्यवाचकाकारसंसर्गवती प्रतीतिः कल्पना ।"-प्र०वा. मनो० १११२५ । "अभिलापिनी प्रतीतिः कल्पना"-तत्त्वसं०श्लो० १२१४ । (४) व्यर्थमेतत् । (५) “प्रत्यक्षं कल्पनापोढम्"-न्यायप्र० पृ. ७ । (६) प्रत्यक्षा स्यात् । (७) "तस्य विषयः स्वलक्षणम्"-न्यायबि० ॥१२ । (८) व्यवच्छेद्यस्य विकल्पस्य अभावात् । (९) अभिलापस्मृतिः । (१०) शब्दरहिता अपि । (११) शब्दाद्वैतवादिना । (१२) ".."लोके यः शब्दानुगमादृते । अनविद्धमिवाभाति सर्व शब्दे प्रतिष्ठितम् ॥" इति शेषः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org