________________
सिद्धिविनिश्चयटीकायाम्
[१ प्रत्यक्षसिद्धिः वैशा स्पाष्टयम् अत एव इन्द्रियार्थसन्निकर्षापेक्षित्वादेव स्याद् भवेत् । कस्य ? व्यवसायात्मनः स्मृतेः इति । ननु संस्काराद् वासनाऽपरनाम्नः तत्स्मृतेः संभवे निर्विषया सा भवेत् , वैशद्येऽपि कामाद्युपप्लुतज्ञानवदिति चेत् ; अत्राह-असंस्कार इत्यादि । न
संस्कारस्य प्रमोषः असंस्कारप्रमोषः संस्कारसद्भावः तस्मिन् हि स्फुटम् 'अत एव' इ५ त्येतदत्रापि सम्बन्धनीयम् [सं] ज्ञानं समीचीनं संशयादिरहितम् ज्ञानम् । एतदुक्तं भवतिसंस्कारमात्रभावि निर्विषयम् , न चेदं तथा, अर्थादेरपि कारणस्य प्रतिपादनात् । दृश्यते हि तथाविधं समीचीनं स्वभ्यस्ते क्षणभङ्गादिवत् जलादौ । ननु न वैशा व्यवसायात्मनः स्मृतः किन्तु दर्शनस्य तंत्राध्यारोपात् ने तस्याँ इति व्यपदिशति । तदुक्तम्
*"मनसोयुगपद्वृत्तेः सविकल्पाऽविकल्पयोः ।
विमूडो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥" [प्र० वा० २।१३३]
इति चेत् ; अत्राह-नापि पश्यताम् इति । 'अत एव' इत्येतदत्रापि अनुवर्तनीयम् । ततोऽयमों भवति-यत एव इन्द्रियार्थसन्निकर्षापेक्षी तत्प्रबोधः किमविकल्पकल्पनया ? अत एव यस्य तां (पश्यतां) स्वलक्षणं विषयीकुर्वतां दर्शनानां नापि नैवम् अवैशद्यमिति ।
इदमत्र तात्पर्यम्-यथा जपाकुसुमेषु रक्तत्वं तथा यदि दर्शनेषु वैशद्य विनिश्चितं स्यात् तदा १५ अन्यत्र तंदध्यारोपात् प्रतिभातीति [२९ख] शक्यं वक्तुं नान्यथा अतिप्रसङ्गादिति ।
___ कारिका) विवृण्वन्नाह-व्यवसायात्मन इत्यादि । [व्यवसायात्मनः] निर्णयस्वभावस्य संस्कारप्रबोधस्य संस्कारस्य वासनापराभिधानस्य यः प्रकृष्टः समीचीनो बोधः चेतनापरिणामः तस्य अक्षार्थसन्निकर्षापेक्षया स्वतो न याचितकमण्डनन्यायेन दर्शनानां सम्बन्धि वैशद्यम्
अनुभवतः स्वीकुर्वतः को विरोधः न कश्चित् । कुत एतत् ? इत्यत्राह-कारणसामया इ२० त्यादि । सुगमम् । 'परापेक्षया इदमुक्तम् । "भावतः पुनः आवारणधिगपाद् ( आवरणविगमाद्) वैशद्यमिति ।
नर्नु स्वार्थयोश्चेत् प्रत्यक्षं सविकल्पकं स्वाभिधानसंसृष्टयोरेव ग्राहकं स्यात् , तदभिधानयोरपि स्वाभिधानसंसृष्टयोः इत्येवं युगपदनेकाभिधानप्रतीतिप्रसङ्गः अनुभवविरुद्धः । प्रयोग
श्चात्र-[यत्] सविकल्पकं ज्ञानं तदभिधानसंसृष्टार्थग्राहकं यथा नीलमिदमिति ज्ञानम् , सविकल्प२५ कं च प्रत्यक्षमिति चेत् ; अयुक्तमेतत् ; अनैकान्तिकत्वात् हेतोरिति दर्शयन्नाह-सदृश इत्यादि ।
[सदृशस्वार्थाभिलापादितस्मृति प्यभिलापिनी ।
तावतैवाविकल्पत्वे तुच्छा धीः स्याद्विकल्पिका ॥८॥ किञ्चित्केनचिद्विशिष्टं गृह्यमाणं विशेषणविशेष्यतत्सम्बन्धादिग्रहणमन्तरेण न भवितुमर्हति । ततःप्रत्यक्षसदृशार्थाभिधानस्मृतिरनभिलापिनी अभिलापादिविषया सिद्धा।
(6) सदृशस्मृतेः । (२) स्मृतिः। (३) स्मरणादिकम् । (४) स्मृतौ । (५) 'न' इति निरर्थकमत्र । (६) स्मृतेः । (७) संस्कारप्रयोधः। (८) विकल्पे। (९) निविकल्पारोपात् । (१०) बौद्धापेक्षया । (११) परमार्थतस्तु । (१२) ज्ञानावरणक्षय-क्षयोपशमाभ्यामेव ज्ञाने वैशयं भवति । (१३) बौद्धः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org