________________
११७]
निर्विकल्पस्यैव सविकल्पकपरिणतिः न्यविषयत्वात् , नैवं तस्याः एवमर्थं च 'सशस्मृत्याम्' इत्युक्तम् । तथापि तत्पूर्विका चेत् ; नीलस्मृतिः पीतदर्शनपूर्विका स्यात् ।।
___ अत्राह परः-'नार्थदर्शनादेवे केवलादुपादानात् सजातीयस्मृतिर्येनाऽयं दोषः, अपि तु पूर्वसदृशस्मृत्याहितवासनातः उत्तरतत्स्मृतिजन्म, दर्शनं तु तद्वासनाप्रबोधहेतुत्वात् तद्धेतुः इत्युच्यते, अत एव सदृशाकारः तत्र न विरुद्धयते' इति; तं [प्र]त्याह-न किम् इत्यादि । संस्काराः ५ पूर्वपूर्वविकल्पाहितवासना विनियम्येरन् उत्तरोत्तरनियतार्थसदृशस्मृतिजनने नियताः क्रियेरन् , किंन अपि तु विनियम्येरनेव, प्रतिषेधद्वयेन प्रकृतार्थगतेः । कैः ? इत्यत्राह-यथास्वम् इत्यादि ।
सन्निकर्षः योग्यदेशावस्थानम् न संयोगादिः तस्य निषेत्स्यमानत्वात् , 6 विद्यते येषाम् अर्थेन्द्रियाणां ते सन्निकर्षिणः तैः इति । यो यस्य संस्कारस्य प्रबोधनपटुः सन्निकर्षी तस्य अनतिक्रमेण यथास्वम् इति । तन्न कचिदर्थे दर्शनस्य उपयोग इति मन्यते ।
पूर्वस्य कारिकाद्वयस्य व्याख्यानम[२८ख] कृत्वा सुगमत्वात् , उत्तरस्य अक्षरद्वयाधिकस्य व्याख्यानं कुर्वन्नाह-वस्तुस्वभावोऽयम् इत्यादि। वस्तुनः पदार्थस्य स्वभावोऽयं स्वरूपमिदं यद्यस्मात्तश्च (तत्स्व)भावाद् व्यवसायो विकल्पः स्मृतिबीजम् स्मरणनिमित्तं संस्कारम् आदधीत *"व्यवसायात्मनो दृष्टेः" [सिद्धिवि०१।४] इत्यादौ चिन्तितमेतत् । तन्न युक्तमेतत्*"वस्तुस्वभावोऽयं यदनुभवः पटीयान् स्मृतिबीजमादधीत ।" इति । ततः किं स्यादिति १५ चेत् ? अत्राह-ततः तस्मात् स्मृतिबीजप्रबोध (धः) प्रकृष्टः संशयादिरहितो बोधः सदृशस्मृतिः स्याद् भवेत् । किं तत एव उतान्यतोऽपि ? इत्यत्राह-सह[कारि]कारणवशात् इति । तेन स्मृतिबीजेन सह करोति सदृशस्मृति[मिति]सहकारि तञ्च तत्कारणं च इन्द्रियार्थादि तस्य वशात् । अनेन परप्रसिद्ध्या सदृशस्मृतेः प्रत्यक्षत्वे निमित्तं दर्शयति । प्रकृतमुपसंहरन्नाह-तत्र इत्यादि । तत्र तस्मिन् संभवे सति कस्य तत्प्रबोधस्य सदृशस्मृतिप्रबोधस्य । कथंभूतस्य ? २० इन्द्रियार्थसन्निकर्षापेक्षिणः इन्द्रियार्थयोः सन्निकर्षमपेक्षते इत्येवंशीलस्य, किम् ? अविकल्पकल्पनायां पूर्व पश्चाच्च दर्शनमनर्थकम् इति ।
ननु भवत्वेवं तथापि सदृशस्मृतेन वैशद्यम् , तदुक्तम्
*"न विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासिता ।
स्वप्नेऽपि स्मर्यते स्मात्तं न च तत्तागर्थदृग् ॥"[प्र०वा० २।२८३] इति । २५ [२९क] विशदं च ज्ञानं भवतामध्यक्षमिति चेत् ; अत्राह-वैशद्यम् इत्यादि ।
[वैशद्यमत एव स्यात् व्यवसायात्मनः स्मृतेः। असंस्कारप्रमोषे हि संज्ञानं नापि पश्यताम् ॥७॥
व्यवसायात्मनः संस्कारप्रबोधस्य कारणसामग्रया स्वतो वैशद्यमनुभवतः को विरोधः ?]
(१) बौद्धः। (२) निर्विकल्पात् । (३) स्मृतिहेतुः । (४) स्मृतौ । (५) भादिपदेन संयुक्तसमवाय-संयुक्तसमवेतसमवाय-समवाय-समवेतसमवाय-विशेषणविशेष्यभावा ग्राह्याः । (६) सन्निकर्षः । (७) निर्विकल्पस्य । (८) सविकल्यस्य ।
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org