________________
३४
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः द्धवत् इति । पूर्व सुप्तः पश्चात् प्रबुद्धः सन्तानः स इव तद्वत् । [२७ख] एतदुक्तं भवति-यथा सुप्तपश्चात्तः (सुप्तस्य पश्चात्) प्रबुद्धावस्था तथा प्रकृतमपि इति । अत्रेदं विचार्यते-कोऽयं सुप्तो नाम ? स्वप्नदशी निद्राक्रान्त इति चेत् : न तस्य प्रकृतसमत्वा (त्वम)। दशीति चेत . तस्य यदि निर्विकल्पं दर्शनम् , अतोऽपि प्रबुद्धः तथाविधदर्शनवान ; न 'प्रकृतस्य तद्भवति । स्मृत्यादिमान'; ५ साध्यसमता । न च परेण तस्य दर्शनमिष्यते अचेतनत्वोपगमात् । अथ चेतनारहितं सुप्तमित्यु
च्यते, न तस्मात् प्रबुद्धः, जाग्रहशातः तँदभ्युपगमात् । कथं पैरसम्बन्धिनिदर्शनमेतत् प्रदर्शितमिति चेत् ? न; अन्यथा व्याख्यानात्-सुप्त इव सुप्तः स्वलक्षणासाक्षात्करणात् सुगतस्मानुमानदर्शः (सुगतस्य अनुमानदशा) विशेषः प्रबुद्ध इव प्रबुद्धः सर्वदर्यवस्थाभेदः, ततो न दोषः,
परेणापि अनुमानात् सुगतत्वोपगमात् । चेच्छब्दः पराभिप्रायसूचकः । अस्योत्तरमाह-नार्थ १० इत्यादि । नेति पूर्वपक्षनिषेधे । अर्थदर्शनभावेऽपि न केवलं [तदभावे] तदनुषङ्गात् सजातीयाव्य (याध्य)वसायाद्यनुषङ्गात् । कुत एतत् ? इत्यत्राह-अभेदात् इत्यादि ।
[अभेदात् सशस्मृत्यामर्थाकल्पधियां न किम् ।
संस्कारा विनियम्येरन् यथास्वं सन्निकर्षिभिः ॥६॥
वस्तुस्वभावोऽयं यत् संस्कारः स्मृतिबीजमादधीत । ततः सहकारिकारणवशात् १५ स्मृतिबीजप्रबोधः स्यात् । तत्र इन्द्रियार्थसन्निकर्षापेक्षिणः तत्प्रबोधस्य अविकल्पकल्पनायां पूर्व पश्चाच्च दर्शनमनर्थकम् । ]
क्रमेण योगपद्येन च सादृश्यैकत्वयोः विकल्पबुद्धिः सदृशस्मृतिः परमतापेक्षया उच्यते । परस्य हि मतम्-परमाणव एकार्थक्रियाकारिणः अतत्सन्तानपरावृत्ताः स्वसमानाः
परम्परया तस्या हेतवः, तस्यां कर्त्तव्यायाम् अभेदाद अविशेषात् । केषाम् ? इत्यत्राह२० अर्थाकल्पधियाम् । अर्थाश्च अकल्पधियश्च तासाम् इति । एतदुक्तं भवति- यथा [२८क]
अनुभवात् निरंशात् सदृशस्मृतिसंभवः तथा अर्थादेव तथाविधात् "सोऽस्तु इति । न चेदमत्र चोद्यम्-'अर्थदर्शनपूर्विका स्मृतिः सा कथं तदभावे भवेत् ? अन्यथा सर्वत्र तदनुषङ्ग इति । कथम् ? यदि हि दर्शनगोचरे स्वलक्षणे जायते स्मृतिः तदा "तत्पूर्विकेति स्यात् , न चैवं सामा
(१) सुप्तस्य । (२) चेत् । (३) सुप्तस्य । (५) जाग्रहशाभाविचेतसः प्रबोधचेतस उत्पत्तिस्वीकारात् । “गाढसुप्तस्य विज्ञान प्रबोधे पूर्ववेदनात् । जायते व्यवधानेन कालेनेति विनिश्चितम् ॥"-प्र० वार्तिकाल०पृ० ६८ । (५) बौद्धमतप्रसिद्धमुदाहरणम् । (६) सुगतत्वप्राप्तिप्राक्कालभाविनी श्रुतमयी चिन्तामयी च भावना अत्र क्रमशः परार्थानुमान-स्वार्थानुमानरूपा ग्राह्या । (७) "न भावनामाग्रत एव योगी भवति, अपि तु श्रुतमयेन ज्ञानेन अर्थान् गृहीत्वा युक्तिचिन्तामयेन व्यवस्थाप्य भावयतां तन्निष्पत्तौ यदवितथविषयं
प्रमाणं तद्यक्ता योगिनः ।।"-प्र. वार्तिकाल. ३१२८५। "याशो योगिनां भावनाक्रमो विनिश्चिये श्रुतमयेत्यादिनाऽभिहितः..."-न्यायवि० ध० पृ० ६८ । “वृत्तस्थः श्रुतचिन्तावान् भावनायां प्रयुज्यते । धियः श्रुतादिप्रभवा नामोभयार्यगोचराः ॥ श्रुतमयी प्रज्ञा हि आप्तप्रमाणजो निश्चयः, चिन्तामयी प्रज्ञा युक्तिनिध्यानजो निश्चयः..."-अभिध० को० ६।५ । (८) उद्धृतोऽयम्-न्यायवि० वि० प्र० पृ. ५२० । (९) निरंशात् । (१०) सशस्मृतिसंभवोऽस्तु। (११) “पूर्वानुभवाभ्यासान्वयव्यतिरेकानुविधायिनी स्मृतिः"-प्र. वार्तिकाल. पृ० ६१० । (१२) दर्शनाभावे। (१३) अर्थपूर्विका ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org