________________
१५]
निर्विकल्पस्यैव सविकल्पकपरिणतिः रणाद् अन्यत् यत् तद[न]वधारणशब्दवाच्यं स्यात् ? स्वलक्षणमिति चेत् ; घटकपालादौ प्रसङ्गः, तथा च ततो विप्रलम्भात् न तत्र संस्कारस्मृतिप्रबोधः । अथ एकत्वावधारणं तदनवधारणम् ; तर्हि 'सदृश्याद् विप्रलम्भः' [२६ख] इति किमुक्तं स्यात् 'एकत्वावधारणाद् एकत्वावधारणं विप्रलम्भः' इति । न च तदेव तस्यैव कारणम् ; विरोधात् । तदपि च एकत्वावधारणं कुतो भवति ? सदृशापरदर्शनादिति चेत् ; न; सर्वथा सादृश्यासंभवात् अतिप्रसङ्गः, अनवस्था च । ।
किश्च, 'क्षणभङ्गादावपि लिङ्गानुसरणमयुक्तम्' इति वदता तदनवधारणमेव चोदितम् ; तत्र तदनवधारणसुत्तरं (णं सुतरां) साध्यसममिति न सादृश्यमिदमपि युक्तम् ।।
पुनरप्याह पर:- तद् इत्यादि । तस्य वैलक्षण्यस्य विकल्पो निश्चयः तस्य कारणं तस्य व्यतिरेकोऽभावः सादृश्यम् । अत्रोत्तरमाह-इत्यपि इत्यादि । न केवलं पूर्व किन्तु एतदपि ताडगेव पूर्वसमानमेव, दर्शनपाटवाभ्यासादेः तत्कारणभावात् सर्वथा तद्विकल्पकारणव्यति- १० रेकासंभवादिति मन्यते । यद्यस्मात् सादृश्यान्नावधारयति तदपि ताहगेव इति ।
__ एवम् अविकल्पस्य प्रतिबन्ध-वैकल्यविकलस्यापि दर्शनस्य क्षणभङ्गादौ संस्काराद्यहेतुत्ववत् नीलादावपि तदभिधाय इदानीं प्रकारान्तरेणापि तदभिधातुकामः प्राह-स्वार्थ इत्यादि । स्वं च अर्थश्च तयोः दृष्टिश्च स्मृतिश्च तयोः स्वभावस्य स्वरूपस्य स्वभाव एव वा व्यवसायः तस्य अभावे । ननु भवतु दृष्टेस्तदभावः नतु स्मृतेः, तस्याः व्यवसायस्वभावत्वादिति चेत् ; न; तस्या १५ अपि संभावे व्यवसायाभावे अर्थेऽपि से दुर्घटः एवमध्यं च (मर्थं च) फक्किकाया आदौ स्वभावग्रहणम् , अन्यथा [२७क] व्यवसायेत्याधुच्येत । अथै तत्र तस्या व्यवसाय इष्यते; दृष्टेरपि तथैव स्यात् । 'दृष्टिस्मृत्योः' इति सहवचनं च तयोः तुल्यधर्मताप्रतिपादनार्थम्। इतश्च परस्य निर्विकल्पिका स्मृतिः 'तथाविधानुभवकार्यत्वात् उत्तरानुभवक्षणवत्। तस्मिन् सति किं जातमिति चेत् ? अत्राह-कुतः इत्यादि। कुतो न कुतश्चित् संकलनाज्ञानम् 'तदेवेदं तेन सदृशम्' इति वा प्रत्य-२० भिज्ञानं व्यवतिष्ठते, अत्रापि उक्तन्यायस्य संभवात् । कथम्भूतं तत् ? इत्यत्राह-यत इत्यादि। यतो यस्मात् संकलनाज्ञानात् सङ्केतस्मृत्यादयः आदिशब्देन अभिलापयोजनादिपरिग्रहः, कारणाभावात् तदभावः स्यादिति मन्यते । एतदुक्तं भवति-पूर्व सङ्केतविषयस्यार्थस्य दर्शनम्, पुनः तस्य तज्जातीयस्य च दर्शनात् 'तस्य स्मृतिः, ततोऽपि तदेवेदं तेन सदृशम्' इति वा संकलनम् , ततोऽपि सङ्केतस्मृतिः, तस्याः पुरोवर्तिनि शब्दयोजनम् , अतोऽपि 'घटोऽयं पटोऽयम्' इति विकल्पं ज्ञानम्, २५ तत् सर्वं न स्यादिति । ननु च यथा मेघात् जलं प्रदीपात् कजलं विजातीयाद् भवति, तथा सर्वत्र अविकल्पाद्दर्शनात् व्यवहारेण स्वरूपे अविकल्पकम् अन्यत्र "विपरीतं स्मृत्यादिकं स्यात् । एतदेवाह-निर्विकल्प इत्यादिना । विकल्पान्निष्क्रान्ता सा चासौ दृष्टिश्च तस्यामपि सत्यां सजातीयाव्यव(याध्यव)सायादिः आदिशब्देन संकलनादिपरिग्रहः । अत्र निदर्शनमाह-सुप्तप्रबु
(१) पूर्वोत्तरक्षणयोः। (२) वैलक्षण्यानवधारणमपि । (३) बौद्धः । (५) कारणान्तराणां विकलता। (५) संस्काराद्यहेतुत्वमभिधाय । (६) स्वभावव्यवसायाभावः । (७) स्मृतेरपि । (८) स्वभावे सर्व ज्ञानं निर्विकल्पकमिति तत्सिद्धान्तात् । (९) व्यवसायः। (९) स्मृतेः। (१०) बौद्धस्य । (११) निर्विकल्यानुभव । (१२) पूर्वदृष्टस्य । (१३) अर्थरूपे । (१४) निश्चयात्मकम् । .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org