________________
सिद्धिविनिश्चयटीकायाम [१ प्रत्यक्षसिद्धिः में निश्चिनोति क्षणभङ्गादिकम्' इति विभक्तिपरिणामेन सम्बन्धः । तत्र संस्काराविमान (म्म) भवति जनः इत्यर्थः । तस्य उत्तरमाह-इत्यसमञ्जसम् इत्यादि । इत्येवं परमतम् असमञ्जसम् अयुक्तम् । कुत एतत् १ इत्यत्राह-सर्वथा सर्वप्रकारेण सादृश्यासंभवात , पूर्वोत्तरक्षणयोः सारूप्य
संभवनाया अपि विरहात् । तथाहि-पूर्वपूर्वनित्यसमारोपक्षणाद् उत्तरोत्तरसमारोपक्षणो यदि ५ सर्वात्मना सदृशो जायते तेन तर्हि पूर्वतत्क्षणवत् उत्तरस्यापि उत्तरतत्क्षणोत्पादनस्य सामर्थ्यम् ,
एवमुत्तरोत्तरस्येति आसंसारं न क्षणोपरमः । नहि अनुनानेन पूर्वस्मिन् समर्थ उत्तरं कार्य निवारयितुं शक्यते, तस्मिन् सति अवश्यंभावात् । नापि तत्सामर्थ्यम'; सतो निवारणायोगात्।
*"तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । निरंशत्वाटधिकिसास्य (नित्यत्वादचिकित्स्यस्य) कस्तां क्षपयितुं क्षमः॥"
[प्र०वा०२।२२] एवं सर्वभाषेषु वाच्यम् । तथा [२६क सति चरमक्षणाभावः स्यादिति चेत् ; अयमपरोऽस्य दोषोऽस्तु । तन्न पूर्वोत्तरतत्समारोपक्षणयोः तत्त्वे नैव उत्तरकार्यजननसामध्येनापि सारश्यम् । अपि च, यथा पूर्वस्य उत्तरं प्रति कारणत्वम् , एवं चेत् "तस्यापि"तत्प्रति कारणत्वम् ; युक्तं
सर्वात्मना सादृश्यम् । न चैवम, आत्मनि अर्थक्रियाविरोधात् । अथ पूर्वस्मात् तत्समारोपक्षणात् १५ क्षणक्षयानुमानसहायाद् "अपरोऽपरजनने” असमर्थोऽसमर्थतरोऽसमर्थतमो जायते ; तर्हि [न]
"तत्समारोपत्वेन सादृश्यम् उक्तप्रकारेण । अन्यथा छतिति (भवति) निरंशवादहानिः । एवं सर्वत्र योज्यम् । ततः सूक्तम्-सर्वथा इत्यादि । एतदुक्तं भवति निरंशैकान्ते सदृशापरोत्पत्त्यभावेन विप्रलम्भाभावात् तदवधारणं स्यादिति ।
ननु मा भूत् पूर्वापरयोः समानधर्मान्वयः सादृश्यं वैलक्षण्यानवधारणं तु स्यादिति चेत्; २० अत्राह-वैलक्षण्य इत्यादि । वैलक्षण्यं पूर्वोत्तरयोः वैसदृश्यंतस्य अनवधारणे अतिप्रसङ्गः। तथाहितदनवधारणं प्रसज्यप्रतिषेधरूपम् ,पर्युदासरूपं वा स्यात्? प्रथमपक्षे "तदवधारणाभावमात्रमनवधारणं कथं सादृश्यं विप्रलम्भहेतुर्वा ? अन्यथा खरशृङ्गादिकमपि स्यात् । द्वितीयेऽपि किं तद् वैलक्षण्यावधा
(१) "सदृशापरोत्पत्तिविप्रलब्धो वा, सदृशे हि तदेवेदमिति बुद्धिर्यमजे। .. अत्रापि सदृशापरोपत्तिविप्रलब्धो लूनपुनर्जातकेशनखादिवत्..."-प्र. वार्तिकाल. २१२०९ । "तस्मात् सदृशापरभावनिबन्धन एवायं केशकदलीस्तम्बादिष्विव आकारसाम्यतामात्रापहृतहृदयानां भ्रान्त एव तत्वाध्यवसायो मन्तव्यः... (पृ.८६) सशापरभावग्रहकृतश्च अर्वाग्दर्शनानामेकत्वविभ्रमो लूनपुनर्जातेविव नखकेशादिष्विति किन्नेष्यते । (पृ० १२०)'सदृशापरमावनिबन्धनं चैकतया प्रत्यभिज्ञानं लूनपुनर्जातेविव केशनखादिषु इत्यत्र विरोधाभावादिति ।"-हेतुबि० टी० पृ० १३६ । “तुल्येत्यादिना भदन्तशुभगुप्तस्य परिहारमाशङ्कते-तुल्यापरक्षणोत्पादाद्यथा नित्यत्वविभ्रमः। अविच्छिन्नसजातीयग्रहे चेत्स्थूलविभ्रमः ॥"- तत्त्वसं. श्लो० १९७२ । (२) समारोपक्षणवत् । (३) कारणभूतसमारोपक्षणे । (४) समारोपान्तरक्षणम् । (५) निवारयितुं शक्यते । (६) सामर्थ्यनिवारणाभावे । (७) बौद्धस्य । (6) पूर्वक्षणवर्तित्व-उत्तरक्षणवर्तित्वरूपभिन्नस्वभावत्वे । (९) यदि । (१०) उत्तरस्यापि। (११) पूर्व प्रति । (१२) द्वितीयः समारोपक्षणः । (१३) तृतीयसमारोपक्षणजनने । (१४) तयोः पूर्वोत्तरयोः समानसमारोपत्वेनापि सादृश्यं नास्ति इत्यर्थः । (१५) क्षणिकत्वावधारणं प्रत्यक्षत एव स्यात् । (१६) वैलक्षण्पावधारणाभावमात्रम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org