________________
१५]
निर्विकल्पस्यैव सविकल्पकपरिणतिः चेत् ; उभयत्र आदिशब्दसम्बन्धार्थम्-दर्शनपाटवादेः अभ्यासादेः इति । तेन एकत्र आदिशब्देन दर्शनप्रतिबन्धकस्य गुणान्तरारोपस्य *"नो चेद् भ्रान्तिनिमित्तेन" [प्र० वा०३।४३] इत्यादिना प्रतिपादितस्य [२५क] वैकल्यं गृह्यते। यद्वक्ष्यते अत्रैव-*"दर्शनपाटवाद्यविशेषेऽपि" इत्यादि । पैरत्र आदिशब्देन अर्थित्वादिपरिग्रहः । यदि वा, सर्वत्र अभ्यासस्य प्राधान्यप्रदर्शनार्थम् अभ्यासग्रहणम् । यदुक्तं परेण-*"अभ्यासे प्रत्यक्षम् अनभ्यासे अनुमान प्रमाणम्" ५ इति । तत्र क्षणभङ्गादाविव नीलादावपि अभ्यासविरहे कुतः संस्कारादिः यतोऽनुमानम् ? एवं तर्हि 'दृष्टसजातीयसंस्कारादिप्रबोधे' इति वक्तव्यं नार्थः स्मृतिग्रहणेनेति चेत् ; तत् क्रियते उत्सरार्थम् । तत्र हि स्मृतिरेव प्रधानतया चिन्त्ययिष्यते *"अभेदात् सदृशस्मृत्याम्" [सिद्धिवि० १।६] इत्यादौ । अनेन व्यतिरेकमुखेन कारिकार्थो विवृतः।। ___ इममेवाथ समर्थयमा[नः] प्राह-आधत्ताम् इत्यादि।
[आधत्तां क्षणिकैकान्तस्वार्थसंवित् पटीयसी।
सदाभ्यासात्स्मृति सापि दृष्टसंकलनादिकम् ॥५॥ सदृशापरोत्पत्तिविप्रलम्भानावधारयतीत्यसमञ्जसम् ; सर्वथा सादृश्यासंभवात् । वैलक्षण्यानवधारणे अतिप्रसङ्गः । तद्विकल्पकारणव्यतिरेक इत्यपि ताडगेव । स्वार्थदृष्टिस्मृत्योः स्वभावव्यवसायाभावे कुतः संकलनाज्ञानं यतः सङ्केतस्मृत्यादयः? निर्विकल्पक- १५ दृष्टावपि सजातीयाध्यवसायादिः सुप्तप्रबुद्धवच्चेत् ; न; अर्थदर्शनभावेऽपि तदनुषङ्गात् ।]:
. ननु अयमर्थोऽनन्तरकारिकावृत्तावुक्तः । न च पुनस्तस्यैवाभिधाने स एव समर्थितो नाम अतिप्रसङ्गात् किन्तु अन्यस्माद्धेतो, सँ चात्र नोक्तः, तस्मात् 'उक्तार्थोऽनन्तरश्लोकोऽयम्' इत्य न न्र्तं वी र्यः । अस्यायमर्थः-आधत्तमादव्यक्ता (आधत्तां) क्षणिकैकानु(न्त) स्वार्थसंविद इति । क्षणिक इति भावप्रधानो निर्देशः, ततः क्षणिकत्वम् एकः असहायः अन्तो.. धर्मो ययोः स्वार्थयोः तयोः संवित् दृष्टिः । कथम्भूता ? इत्यत्राह-पटीयसी पटुतरा । कदा ? इत्यत्राह-सदा सर्वकालम् । कुतः ? अभ्यासात् । किम् ? इत्यत्राह-स्मृतिविकल्पम् । स्मृतिः किं कुर्यात् ? इत्यत्राह-सापि स्मृतिरपि दृष्टसंकलनादिकम् दृष्टस्य पूर्वदर्शनेन विषयीकृतस्य उत्तरपर्यायेण सह एकत्वेन सादृश्येन वा समीचीनं कलनं निर्णयनं येन तत् [२५ख संकलनं प्रत्यभिज्ञानम्, आदिशब्देन तर्कादिकं गृह्यते तद् आधत्ताम् इति ।
___यदुक्तम्-'क्षणभङ्गादावपि लिङ्गानुसरणमयुक्त तदविशेषात्' इति; तत्राह-परादर्शन (सदृशापरोत्पत्तिदर्शन) इत्यादि । विवृतार्थमेतत् । सदृशस्य पूर्वेण समानजातीयस्य अपरस्य क्षणस्य या उत्पत्तिः उत्पत्तिविषयं दर्शनम् उत्पत्तिः विषयिणि "विषयशब्दोपचारात् । न खलु तदुत्पत्तिरेव विप्रलम्भहेतुः", सर्वदा प्रसङ्गात् । तया विप्रलम्भः"गुणान्तरारोपः तस्मान्नावधारयति
(१) दर्श नपाटवे । (२) क्षणिकत्वादौ नित्यत्वाद्यारोपस्य । (३) “संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारः रूपसाधर्म्यदर्शनात् ॥” इति शेषः । (४) अभ्यासे । (५) द्रष्टव्यम्-पृ० २२ टि०१७ । (६) समर्थितेन भाव्यम् । (७) हेतुः । (८) अनन्तवीर्योऽयं प्रकृतटीकाकारात् रविभद्रपादोपजीविनोऽनन्तवीर्याद् भिन्न एव भाति । (९) पृ० ३० ५० १४ । (१०) उत्पत्तिविषयके दर्शने । (11) उत्पत्ति । (१२) किन्तु उत्पत्तिविषयकं दर्शनम् । (१३) स्थिरस्थूलादिभ्रमः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org