________________
३०
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
वहारः तथा आकारविशेषदर्शनात् हेतुताव्यवहारोऽपि साध्यते इति सूक्तं व्यवसायात्मन
इत्यादि ।
ननु यदुक्तम्- 'नान्यथा क्षणिकादिवत्' इति ; तत्र यदि नाम निर्विकल्पदृष्टेः क्षणिकादौ संस्कारादिर्न जायते, तथापि नीलादौ जायते दृष्टत्वात् । न च दृष्टमन्यथा कर्तुं शक्यम् । ५ न च 'दर्शनम्' इत्येव सर्वत्र स्वगोचरे संस्कारादिहेतुः; अन्यथा व्यवसायात्मकमपि' तथा इति गृहीतट्टकादिविस्मरणादि न भवेत् । अथ तत् दर्शनपाटवादिकमपेक्षते; प्रकृतमपि तथैव अपेक्षते इति तदभावान्न क्षणिकादौ संस्कारादिः, अन्यत्र तु अस्ति 'विपर्ययादिति चेत्; अत्रोत्तरमाहदर्शनेत्यादि । प्रतिपत्तिगौरव (वं ) दर्शन पाटवमिति । " तच्च संस्कारादिकार्ये सामर्थ्यम्, मुहुर्मुहुः चेतसि परिमलनम् अभ्यासः, तौ आदी यस्य प्रकरणादेः स तथोक्तः तस्मात् दृष्टसजातीय१० संस्कारस्मृतिप्रबोधे दृष्टः पूर्वदर्शनगोचरः स चासौ सजातीयश्च सदृशः उत्तरविशेषेण, उपलक्षणमेतत्, ततः तेनैकोऽपि दृष्ट इत्युच्यते, तत्र संस्कारथ स्मृतिश्च तयोः प्रबोधे उत्पादे अभ्युपगम्यमाने । किमन्तरेण ? इत्यत्राह - स्वभावव्यवसायमन्तरेण दर्शनस्य स्वरूपभूतनिर्णयमन्तरेण संस्कारस्मृति [२४] वचनमप्युपलक्षणमिति प्रत्यभिज्ञानादिपरिग्रहः । तत्र किं स्यात् ? इत्यत्राह - क्षणभङ्गादावपि आदिशब्देन स्वर्गप्रापणसामर्थ्यादिपरिग्रहः, न केवलं नीलादौ ि १५ अपिशब्दार्थः, लिङ्गानुसरणं हेत्वाश्रयणम् उक्तमनुपपन्नं प्रत्यक्षत एव तत्सिद्धेरिति मन्यते ।
कुत एतत् ? इत्यत्राह - तदविशेषात् तस्य दन (दर्शन) पाटवादेः अविशेषात् क्षणभङ्गादावपि । निदर्शनमाह - नीलादिवत् तत्रैव (तत्रेव ) तद्वदिति । नहि दर्शनं स्वविषये पोटवेतरात्मकं तदप्रसंगात् ( अतिप्रसङ्गात् ) । अभ्यासोऽपि मुहुर्मुहुः क्षणिकदर्शनस्य तद्विकल्पस्य वा वृत्तिः सौगतानां विद्यते, तथा अर्थित्वादयोऽपि । न च 'तंत्र 'तत्प्रबोधः । तन्न तत्कार्यम् । प्रयोगश्चात्र - यस्मिन्न२० विकलेsपि यन्न भवति तन्न तत्कार्यम्, यथा अविकलेऽपि चक्रादौ अभवन् पटो न तत्कार्यः, अविकलेऽपि च दर्शनपाटवाभ्यासादौ न भवति क्षणिकादौ संस्कारादि [ : ] इति । विपर्ययप्रयोगः - यस्मिन्नविकले यद्भवति तत् तस्य कार्यम्, यथा अविकले चक्रादौ भवन् घटः तस्य कार्य:, भतिच निर्णये विकले संस्कारादिः इति । ननु 'दर्शनपाटवादेः' इत्यस्तु किमभ्यासग्रहणमिति
(१) ज्ञानम् । (२) संस्कारादिहेतुः स्यात् । (३) प्रघट्टकं प्रकरणम् । ( ४ ) व्यवसायात्मकं ज्ञानम् । (५) निर्विकल्पकदर्शनम् । (६) पाटवादिकमपेक्षते । (७) नीलादौ । ( 4 ) पाटवाभ्यासादिसद्भावात् । (९) तुलना - " - "येषां तु पुनरभ्यासपाटवादयो निश्चयस्य हेतवः सन्ति ते महामतिशक्तयः..." - प्र० वार्तिकाल० पृ० २४० । “यथा दृष्टस्याकारोऽभ्यासपाटवादिप्रत्ययान्तरसापेक्षो विशेषस्तस्य ग्रहणात् । न हि दृष्टमित्येव विकल्पेन गृह्यते ; दर्शनाऽविशेषात् सर्वाकारेषु विकल्पोदयप्रसङ्गात् अपि तु कश्चिदेव अभ्यासादिप्रत्ययापेक्ष इत्याकारग्रहणेनाचष्टे ।" - हेतुबि० टी० पृ० २६ । “यथानुभवमभ्यासपाटवादिप्रत्ययान्तरसहकारिणां विकल्पानामुदयात् । " - हेतुबि० टी० पृ० २२ । “अथ मतम् अभ्यासप्रकरणबुद्धिपाटवार्थित्वेभ्यो निर्विकल्प - कादपि दर्शनानीलादौ संस्कारः स्मरणं चोत्पद्यते न पुनः क्षणिकादौ तदभावात् । " - प्रमाणप० पृ० ५४ । प्रमेयक० पृ० ३३ | स्या० २० पृ० ८४ । (१०) पाटवञ्च । “पाटवं तीक्ष्णता बुद्धेः इति, प्रकरणात् आदिशब्दात् प्रत्यासत्तितारतम्या देर्ग्रहणम्" - हेतुबि० टीकालो० पृ०२७१ । ( ११ ) नीलादौ इव । (१२) नीलादौ पाटवम् क्षणिकादौ च अपाटवमिति । (१३) क्षणिकादौ । (१४) संस्कारस्मृतिप्रबोधः । (१५) अभ्यास - पाटवादिकार्यम् । (१६) किमर्थम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org