________________
निर्विकल्पस्यैव सविकल्पकपरिणतिः
स्यान्मतम्–पूर्वोत्तरक्षणाभ्यां मध्यक्षणस्य क्रद्य (त्रुट्य) त्ता स्वभावभूता, ततः 'तयोरदर्शनेऽपि तद्दर्शनादेव प्रतीयते; तर्हि तस्य सुखहेतुता तथा किन्न प्रतीयते सुखादर्शनेऽपि ? नहि सापि ततो भिन्ना । नन्वेवं सर्वस्यापि भावदर्शनादेव तत्प्रतीतेः सुखार्थिनो दुःखसाधने प्रवृत्तिः सुखहेतोर्वा निवृत्तिः भ्रान्त्या न स्यादिति चेत् ; न ; क्रद्य (मुख्य) ताप्रतिपत्तावपि ससमानमिति तदनुमान[मन]र्थकम् | समारोपकल्पनम् अन्यत्रापि । तथा सति कथं सुख [सा] ५ धने प्रवृत्तिरिति चेत् ? क्रद्य (मुख्य) त्तायां कथम् ? समारोपव्यवच्छेदात् ; प्रकृते समः समाधिः । यथैव च घटादौ सत्त्वादेः क्षणिकत्वेन व्याप्तिदर्शनादन्यत्रं ततः क्रद्य (मुख्य) तां अनुमीयते तथा आकारविशेषस्य पूर्व (पूर्व) सुखहेतुत्वेन व्याप्ततया दृष्टस्य पुनः क्वचिद् दर्शनात् सुखहेतुता अनुमीयताम् । ननु उक्तमत्र अनुमानेन सुखाप्रतिपत्तौ कथं तद्धेतुताप्रतिपत्तिः ? प्रतिपत्तौ न प्रवृत्तिरिति चेत्; इदमप्युक्तम्-तेन पूर्वोत्तरक्षणाविषयीकरणे कथं तत्सम्बन्धिनी क्रद्य (त्रुट्य) त्ता मध्यक्ष - १० णस्य प्रतीयते यतः समारोपो निवर्तेत । "तद्विषयीकरणे च एकक्षणभाविता सन्तानस्य [२३] इति ।
१४ ]
एतेन एतदपि निरस्तं यदुक्तं परेण - " यद्यपि दृश्यस्य सुखादर्शनेऽपि तद्धेतुता प्रतीयते तवा ( था ) पि निश्चेतुं न शक्यते" इति ; कथम् ? क्रद्य (त्रुट्य) त्तायामपि समानत्वात् । भवतु वा तनिश्चयः तथापि को दोष: ? 'तद्दर्शनं प्रवृत्तिहेतुर्न स्यादिति । कथं क्रय (त्रुट्य) तादर्श- १५ नमनिश्चितम् अनुमानहेतुः, येन यद् यथावभासते " इत्यादि सूक्तम् ? एैतदनिश्चितम् अनुमानस्य कारणं न "पूर्वं प्रवृत्तेरिति महती प्रेक्षाकारिता ! यदि च, कार्यानवधारणक्ष कारणतानवधारणम्; तर्हि कथं प्राप्यानवधारणे दृश्यस्य ततो विवेकावधारणम्, येनात्र पक्षत्रयमुत्थापितम् -" दृश्यप्राप्ययोः एकत्वाध्यवसायिनं प्रति प्राप्ये प्रत्यक्षं प्रमाणम्, अन्यं प्रति तदाभासम्, अवधारितविवेकं प्रति अनुमानम्" इति ? व्यवहारेण तदुत्थापितमिति चेत्; तेनैव " २० कार्यावधारणेऽपि कारणतावधारणमिति कारणे प्रवृत्तिसंभवादलं भाविनि प्रवृत्त्या, एकान्ते तदर्थेन कारणत्वोपवर्णनेन वा, व्यवहारविपर्ययात् । परमार्थेऽपि चित्रैकज्ञानाद्वैतरूपे नीलाकारः पीताद्याकारान् अनात्मसात्कुर्वन्नपश्यन् वा यथा तत्साधारणीं बोधरूपतामात्मसात्करोति पश्यति वा तथा कार्यानवधारणेऽपि कारणतावधारणं कारणदर्शनेन । सर्वविकल्पातीतेऽपि तस्मिन् इदमेव वक्तव्यम्; तथाहि-कारणत्वादिविकल्पानां प्रतिपत्तौ [२४] कस्यचित् तद्विविक्ततावित्तिः । २५ नहि अप्रतिपन्नमशकस्य 'नेह मशकाः सन्ति' इति निर्णीतिरस्ति । तथा चेत्; सुस्थितं तदद्वैतम् ! अप्रतिपत्तौ चेत्; 'प्रकृतमनुषङ्गि । ततो यथा कस्यचित् तद्विविक्तस्य दर्शनात् तद्भाव [व्य]
-
(१) पूर्वोत्तरयोः । (२) मध्यदर्शनादेव । ( ३ ) जलादिसाधनस्य । ( ४ ) साधनस्वभावभूता, अतः साधनज्ञानादेव प्रतीयताम् । (५) साधनात् । (६) सुखसाधनत्वप्रतीतेः । (७) क्षणिकतानुमानम् । (८) शब्दादौ । (९) क्षणिकता । (१०) मध्यक्षणदर्शनेन पूर्वोत्तरयोः विषयीकरणे च । ( ११ ) सुखहेतुता । ( १२ ) साधनदर्शनम् । (१३) त्रुव्यत्तादर्शनम् । (१४) जलादिसाधनदर्शनम् । (१५) व्यवहारेणैव । (१६) अद्वैते । (१७) कारणत्वादिविकल्पप्रतिपत्तिश्चेत् । (१८) यथा कारणत्वादिविकल्पानामप्रतिपत्तावपि तद्विविक्तताप्रतिपत्तिस्तथा कार्यानवधारणेऽपि कारणतावधारणं स्यात् ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org