________________
२८
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
न चेदमप्रातीतिकम्, 'अस्माद्भावात् मे सुखभावः' इति प्रतीतेः । तदपलापे स्तम्भादिदर्शनमपि दुर्निरीक्षं प्रसजतीति प्रतिपादयिष्यते । 'युगपदेकमनेकाकारं व्याप्नोति जानातीति वा, न क्रमेणे' इति परमगहनमेतत् ! ततः सिद्धा सुखतत्साधनयोर्हेतुफलभावप्रतीतिः । एतेन दर्शनादिसंस्कारादीनामपि सा चिन्तिता ।
यत्पुनरुक्तम् - पूर्वोत्तरदर्शनसंस्कारस्मृतीनाम् एकविषयत्वं कुतः प्रतीयते इति ? तदप्येतेन सृष्टम् ।
1
१४
ननु भवत्वेवम्, तथापि प्रवृत्तिकाले सुखाप्रतिपत्तौ कथं तंत्र दृश्यमानस्य हेतुता प्रतीयेत यतस्तव (स्त) प्रवृत्तिः स्यात्, प्रतिपत्तौ वा न प्रवृत्तिः तदैव सुखप्राप्तेः । अँथ प्रवृत्त्युत्तरकालं सुखप्रतिपत्तिः तर्हि तत्साधनप्रतिपत्तौ प्रवृत्तिः तस्याश्च सुखवत् प्रवृत्तिः स्यात् [२२] प्रतिपत्तौ १० वा न प्रवृत्तिः तदैव सुखप्राप्तेः अथ प्रवृत्त्युत्तरकालं सुखप्रतिपत्तिः; तर्हि तत्साधनप्रतिपत्त प्रवृत्तिः, तस्याश्च सुखप्रतिपत्त्या तत्साधनप्रतिपत्तिः इत्यन्योन्यसमाश्रयः । अथ सुखसाधनस्यं पूर्वस्य तत्सदृशस्य वा पुनर्दर्शनादेवं भवति 'इदं सुखसाधनं तत्त्वात् पूर्वसदृशत्वात् पूर्ववत्' इति " ततः प्रवृत्तिः । नन्विदमनुमानम्, तश्चेत् सुखं न प्रत्येति, कथं " तत् प्रति कस्यचित् कारणता - वैति ? कायं (र्य) प्रतिपत्तिनान्तरीयकत्वात् कारणताप्रतिपत्तेः । प्रत्येति चेत् ; उक्तमत्र प्रवृत्तिर्न स्या१५ दिति । यदि पुनर्न सिद्धतया अपि तु साध्यतया तत् प्रत्येति; तर्हि साध्यतया असतः, तस्य च प्रतीतिरित्यतिसाहसम्, इति कस्यचित सुखसाधनस्याप्रतिपत्तेर्न तत्र [ प्र] वृत्तिः । सुख इति चेत ; न; तस्य दर्शनेतरविकल्पद्वये पूर्ववत् प्रसङ्गः । तन्न कुतश्चित् प्रवृत्तिरिति किं 'व्यवसात्मनः ' इत्यादिना इति चेत् ; अत्रोच्यते - दृश्यदर्शनेन पूर्वोत्तरक्षणयोरदर्शने 'ताभ्यां तस्य कुतस्तृती प्रतिपत्तिः यतः प्रत्यक्षसिद्धा क्षणिकता स्यादिति नेदं सुभाषितम् - " यद् यथावभासते तत्तथैव २० परमार्थसद्व्यवहारावतारि यथा नीलं नीलतया भासमानं तथैव तद्व्यवहारावतारि, [अव] भासन्ते च भावाः क्षणिकतया । " इति" । अथ दृश्यदर्शनेन तयोर्दर्शनम् ; दृश्यसमकालता तथैव पराभ्युपगमात् । तयोरपि पुनः अन्याभ्यां पूर्वोत्तरक्षणाभ्यां क्रद्य (त्रुट्य) ताप्रतिपत्तौ अन्ययोरपि तेन ” दर्शनं पुनः तयोरपि [२३] ततोऽन्याभ्यां क्रद्य (त्रुट्य) त्ताप्रतिपत्तौ दर्शनं तेन तयोरित्येककालता सकलसन्तानक्षणानामिति नित्यताप्रतिपत्तिवत् क्षणिकताप्रतिपत्तावपि युगपत् जन्ममरणावधिदशाप्रतिपत्तिरिति तदैव जातो मृतश्च स्यात् । अथ दृश्यस्य दर्शनेन यथास्वकालं तयोर्दर्शनम् ; सुखस्यापि तथैव दर्शनमिति न दृश्ये तत्साधने प्रवृत्तिविरोधः ।
1
૨
५
२५
(१) चित्रज्ञानम् । (२) क्रमेण एकः आत्मा नानापर्यायान् न व्याप्नोति न वा जानाति इति कथनं परमाश्चर्यकरम् । (३) कारणकार्यभावप्रतिपत्तिः । ( ४ ) पूर्वोत्तरपर्यायव्यापिना आत्मना तत्प्रतिपत्तिसंभवादिति भावः । (५) सुखे । ( ६ ) जलाद्यर्थस्य । ( ७ ) ( एतच्चिह्नान्तर्गतः पाठः पुनरुको भाति । (८) प्रवृत्तेश्च । (९) जलादेः । (१०) प्रतीतिः । ( ११ ) सुखं प्रति । ( १२ ) जलाद्यर्थस्य । (१३) तदैव सुखप्राप्तेः । (१४) निष्पाद्यतया । (१५) सुखसाधने । (१६) पूर्वोत्तराभ्याम् । ( १७ ) मध्यक्षणस्य । (१८) रहितताप्रतिपत्तिः, उतृदिर हिंसायामिति रौधादिधातोः निष्पन्नमिदं गणकार्यस्यानित्यत्वात् । (१९) द्रष्टव्यम् - पृ० २ टि० १० । (२०) मध्यक्षणप्रत्यक्षेण । (२१) पूर्वोत्तरक्षणयोः प्रत्यक्षम् । (२२) तर्हि पूर्वोत्तरयोः वर्तमानक्षणापत्तिः । (२३) पूर्वोत्तरयोरपि । (२४) त्रुट्यत्ता क्षणिकता, रहितता वा । (२५) मध्यक्षणदर्शनेन । (२६) पूर्वस्य पूर्वस्मिन् क्षणे उत्तरस्य च उत्तरक्षणे । (२७) भविष्यति निष्पाद्यत्वेन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org