________________
१।४]
दृष्टेः संस्कारः सजातीये सदृशे उत्तरस्वव्यक्तिविशेषे । एतदुक्तं भवति-एकदा जलव्यक्तिं स्नानादिहेतुमुपलब्धवतः तत्राहितसंस्कारस्य पुनः तत्सदृशव्यक्तिदर्शनात् तत्समाने दृष्टे स्मृतिः इति । अनेन पूर्वोत्तरदर्शनसंस्कारस्मृतीनां सदृशविषयत्वं कथयति ।
अन्ये तु *"दृष्टे संस्कारः दृष्टजातीये स्मृतिः" इति व्याचक्षते । तेनायमों लभ्यते न वेति चिन्त्यम् ।
किश्च, यदि दृष्टे संस्कारः, स्मृत्यापि तत्रैव भवितव्यम् *"अनुभूते स्मृतिः" इति वचनात् । नहि पूर्वसमुद्रदर्शनाहितसंस्कारस्य तत्सदृशे पश्चिमसमुद्रे स्मृतियुक्ता । कथंभूतायाः [२१ख] दृष्टेः ? इत्यत्राह-व्यवसायात्मनो निर्णयात्मिकाया एव । कुत एतत् ? इत्यत्राह-नान्यथा अन्येन निर्विकल्पकप्रकारेण या दृष्टिः तस्याः न संस्कारः स्मृतिर्वा । केव ? इत्यत्राह-क्षणिकादिवत्। आदिशब्देन निरंशत्वादिपरिग्रहः, तत्रेव तद्वदिति । ननु च तस्याः संस्कारः स्मृतिरेव ।। इति वक्तव्यम्, किं वाशब्देन, तमन्तरेण समुच्चयगतेः ? न; अनुक्तसमुच्चयार्थत्वादंदोषः । अनुक्तं हि अनेन प्रत्यभिज्ञोहानुमानादिकं समुच्चीयते । ततोऽयमों लभ्यते-पूर्वसुखसाधनदर्शनाहितसंस्कारस्य॑ पुनस्तस्य तत्समानस्य वा दर्शनाद् दृष्टे स्मृतिः, ततस्तदेवेदं तेन सदृशमिति वा प्रत्यभिज्ञानम्, ततोऽपि 'पूर्ववद् एतत सुखसाधनसमर्थम्' इति तर्कः, अस्मादपि 'अनुमेये प्रवर्तमानस्य सुखप्राप्तिर्भविष्यति' इत्यनुमानम्, ततः प्रवृत्तिः अर्थप्राप्तिरिति । वक्ष्यते च
*"अक्षज्ञानैरनुस्मृत्य प्रत्यभिज्ञाय चिन्तयन् ।
आभिमुख्येन तद्भदान् विनिश्चित्य प्रवर्तते ॥" [सिद्धिवि० १।२८] इति । ननु च यदुक्तं सुखस्य तत्साधनस्य च दृष्टेः संस्कार इति; तत्रेदं चिन्त्यते-'इदं सुखसाधनम्' 'अस्माद् इदं सुखम्' इति कुर्तः प्रतीयते ? न तावत् तत्साधनदर्शनात् ; तत्काले सुखानुद (नुत्पादात् , अ) नुत्पन्नं च नि(न) तेन गृह्यते । नापि सुखदर्शनात् ; अस्यापि समये तंत्सा-.. धनात्ययात् । नापि तत्समुदायेन; क्रमभाविनोः “तदभावात् । पूर्वोत्तरकालभाविदर्शनमेकं विप्रतिषिद्धम्, सर्ववस्तुनः क्षणिकत्वात् । अथ 'अस्माद् इदमु[२२क]त्पद्यते' इति आत्मा प्रतिपद्यते; सोऽपि यदि सत्तामात्रेण, 'तव्य इति [सुप्तमूर्छितादिष्वपि प्रसङ्गः। अथ दर्शनपर्यायात ; पूर्ववत् प्रसङ्गः । तन्न सुखतत्कारणयोः दर्शनात्" तद्भावसिद्धिः । नाप्यनुमानात् ; तस्य तत्पूर्वकत्वेन तदभावे अभावात । एतेन पूर्वदर्शनादेः उत्तरोत्तरसंस्कारादिजन्मप्रतिपत्तिः निरस्तेति ।
अत्र प्रतिविधीयते-सुखसाधनदर्शनस्य तद्ग्रहणाभिमुख्यमजहत "एव सुखग्रहणपरिणामोपपत्तेः "अप्रतिषेधः । वक्ष्यते चैतदत्रैव द्वितीयप्रस्तावे-*"पूर्वपूर्वस्य स्वविषयग्रहणानुबन्धमजहत एव उत्तरोत्तरं प्रति साधकतमसात् स्मातंज्ञानवत् ।" [सिद्धिवि० २।१५] इति ।
(१) व्याख्यातारः । (२) । दृष्ट एवार्थे । (३) "अनुभूते हि स्मृतिः -हेतुबि० टीकालो० पृ०२६९ । "तदित्याकाराऽनुभूतार्थविषया स्मृतिः"-प्रमाणप० पृ. ६९। "अनुभूतविषयासंप्रमोषः स्मृतिः"योगसू० ॥११ । (४) दृष्टेः । (५) वा शब्दस्य । (६) पुसः । (७) स्मृतेरनन्तरम् । (८) प्रमाणात् । (९) सुखसाधनविनाशात् । (१०) समुदायासंभवात् । (११) प्रत्यक्षप्रमाणात् । (१२) प्रत्यक्षपूर्वकत्वेन । (१३) आत्मनः । (१४) अयुक्तः प्रतिषेधः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org