________________
२८
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः अत्रोत्तरमाह-महानपराधः। उपहासपदमेतत् , अल्पीयसोऽप्यपराधस्य अभावेऽपि अभिधानात् । ततः तदुत्पत्तौ नितरामर्थविषयत्वसिद्धः अनुमितेरिव अर्थप्रतिबन्धाद् एकविषयत्वञ्च न विरोधि सर्वज्ञेतरज्ञानवत् सन्तानविरोधिसर्वज्ञोतरज्ञानवत् । सन्तानभेदोऽत्रापि व्यवहारश्च। प्रतिपत्तुः इत्याद्युपसंहरन्नाह-प्रतिपत्तः इत्यादि। उत्तरं विकल्पज्ञानं प्रमाणं तस्य उत्तरस्य साधनभावात् ५ हेतुत्वात् , नतु नैव पूर्वकं सन्निकर्षदर्शनादि प्रमाणमिति । कुत एतत् ? इत्यत्राह-अनुमानेऽपि
इत्यादि । न केवलं विकल्पे किन्तु अनुमानेऽपि एवम् उक्तवत् प्रसङ्गात् तत्रापि साधनावभास्येव ज्ञानं तत्कारणं प्राप्ये प्रमाणं स्यात् नानुमानम् । प्रमेयाविषयीकरणम् अन्यत्रापि इति भावः ।
यदुक्तं प्रज्ञा क रेण-*"अभ्यासे दर्शनमविकल्पकम् अन्यदा अनुमानं प्रवर्तकत्वात् प्रमाणम् । निर्णीतेः पुनः क्वचिदप्यनुपयोगात् पक्षान्तरासंभवादप्रमाणता।" इति ।
तत्र अनभ्यासे सति अभ्यास इति अनभ्यासे निर्णीतेः उपयोगं दर्शयन्नाह-व्यवसायात्मन इत्यादि।
[व्यवसायात्मनो दृष्टः संस्कारः स्मृतिरेव वा।
दृष्ट दृष्टसजातीये नान्यथा क्षणिकादिवत् ॥४॥ दर्शनाभ्यासपाटवप्रकरणादः दृष्टसजातीयसंस्कारस्मृतिप्रबोधे स्वभावव्यवसा१५ यमन्तरेण क्षणभङ्गादावपि लिङ्गानुसरणमनुपपन्नं तदविशेषानीलादिवत् । ] .
अस्यायमर्थः-सुखसाधनस्य सुखस (स्य) च पूर्व या दृष्टिः तस्याः संस्कारः स्मृतिबीजम् आत्मपरिणमो 'जायते' इत्यध्याहारः । [२०क] स्मृतिर्वा स्मरणं च ईष्टेर्जायते इति । ननु दृष्टिः (टेः) संस्कारः, ततः स्मृतिर्न दृष्टिः ("टेः) इति चेत् ;न;] उत्तरदृष्टेः संस्कारसहकारिणः
तदुद्भवाददोषः। नन्वेकोऽयं दृष्टिशब्दः कथममुमर्थं प्रतिपादयति ? आवृत्त्याभिसम्बन्धाद् एकस्या २० दृष्टेः उभयत्र व्यापाराद् भेदावगतिः । क पुनः स्मृतिः तद्धेतुश्च दृष्टिः प्रवर्तत इति चेत् ? अत्राह
दृष्ट इति । संस्कारहेतुदृष्ट्या विषयीकृतो दृष्टोऽर्थ उच्यते । तत्र उत्तरा दृष्टिः तत्कार्यभूता स्मृतिः प्रवर्तते, कथमन्यथा 'अयं मया दृष्टः' इति प्रतीतिः ? अनेन पूर्वोत्तरदर्शनसंस्कारस्मृतीनाम् एकविषयत्वं दर्शयति । तथा दृष्टसजातीये दृष्टश्चासौ उत्तरव्यक्त थपेक्षया सजातीयश्च तत्र
संस्कारः। स कुतः ? इत्यत्राह-दृष्टः इति । यत्र संस्कारः । तदर्शनात् तत्रैव च स्मृतिः । २५ सापि कुतः ? इत्यत्राह-दृष्टः इति । सा क ? इत्यत्राह-सजातीये दृष्टेन पूर्वदर्शनविषयेण
(१) 'सन्तानविरोधिसर्वज्ञोतरज्ञानवत्' इति द्विरुक्तं भाति, निरर्थकञ्च। (२) "हेयोपादेयविषये प्रवर्तकं हि प्रमाणमुच्यते । तत्र च प्रवर्तने धीरेव प्रधानम् । यद्यपि नाम भाव्यर्थो न प्रतिपन्नस्तथापि तत्र प्रवर्तनात् प्रमाणं यथानुमानस्याग्रहणेऽपि (प्रामाण्यं) न झनुमाने वस्तुस्वरूपस्वीकार इति प्रतिपादयिष्यते । न च चक्षुरादिकात् प्रवर्तते ज्ञानमन्तरेण, विकल्पमन्तरेणापि बुद्ध्या अभ्यासात् प्रवर्तते । ततो हेयोपादेयविषये धीरेव पूर्विका प्रवर्तनात् प्रमाणं न विकल्पादयः। यत्र तु नाभ्यासस्तत्र अनुमानमेव [न] प्रत्यभिज्ञानादयोऽतो नातिप्रसङ्गः।"-प्र. वार्तिकाल. पृ० २२, २१८ । (३) उद्धृतोऽयम्प्रमाणप० पृ. ५४ । “व्यवसायात्मनो दृष्टेः संस्कारः" इत्यंशः न्यायवि. वि.प्र. पृ० ४९३, ५२१ । (१) दर्शनात् । (५) साक्षात् स्मृतिरुत्पद्यते । (६) दृष्टिशब्दस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org