________________
१॥३]
स्वार्थविनिश्चयः फलम् कस्य साधकतमत्वाऽनुपपत्तेः कारणात् तन्निर्णीतिरभिधीयते । 'विसंवादकस्य' इत्येतद्विशेषणमपि हेतुर्द्रष्टव्यः । ततोऽयमों भवति-अधिगतिमात्रं स्वार्थप्रतिपत्तिं प्रति न साधकतमं विसंवादकत्वात् इन्दुद्वयदर्शनवदिति न प्रमाणम् । अतः सैवाभिधीयते । पुनरपि हेत्वन्तरमाह- 'साधनान्तरेत्यादि । अधिगतिमात्रसाधनाद् अन्यत् नीलादौ 'विकल्पज्ञानं क्षणिकादाद (दाव)नुमानं तदन्तरं तस्य (तत्) अपेक्ष्यते [य]स्य गोचरस्य विषय[स्य] । कचित् *"साधना- ५ न्तरापेक्ष्य(क्ष)गोचरस्य" इति पाठसू(स्त) त्रापि साधनान्तरमपेक्ष्यत इति तदपेक्षो गोचरो यस्य तस्य साधकतमत्वाऽनुपपत्तेः तन्निर्णीतिः अभिधीयते । अत्रापि पूर्ववत् साधनेत्यादि विशेषणमपि हेतुर्द्रष्टव्यः। तद्यथा-अधिगतमात्रं तत्त्वप्रतिपत्तौ न साधकतमं साधनान्तरापेक्षा (क्ष्य)गोचरत्वात् सन्निकर्षादिवत् । ततः सूक्तम्-अनिर्णीतिरभिधीयते इति ।
ननु निर्णीतेरनधिगतसामान्यार्थाधिगमेऽपि अनधिगतस्वलक्षणाधिगमाभावात अनधिगमा- १० भावात् अनधिगतार्थाधिगन्तृ प्रमाणम् इत्यनेन साऽभिधीयते । तत्र अर्थशब्देन स्वलक्षणाभिधानात् ततो दर्शनमेव अभिधीयत इति चेत् ; अत्राह-तद् इत्यादि । तेन अधिगतिमात्रेण अनधिगतस्य ज्ञानान्तरेण अविषयीकृतस्य स्खलक्षणस्य अर्थक्रियासम[२०]र्थार्थरूपस्य अधिगतावपि परिच्छित्तावपि । अपिशब्दोऽभ्युपगमसूचकः । न खलु अन्येन अधिगतम् अन्यद्वा स्वलक्षणमधिगच्छद् दर्शनं प्रतीयते । तस्यां किं प्राप्तम् ? इत्यत्राह-दृष्टे १५ दर्शनेन विषयीकृत नीलादाविव क्षणभङ्ग प्रमाणान्तरस्य अनुमानस्य गृहीतग्राहित्वभयाद् अप्रवृत्तिप्रसङ्गात कारणात्तन्निमतिः अभिधीयते । एवं हि अनिश्चितनीलक्षीणकत्वयोनिश्चयाद् विकल्पानुमानयोः अपूर्वार्थता लभ्यते इति भावः। ननु मा भूद् अनिश्चितक्षणभङ्गनिश्चयात् प्रमा. णान्तरं तत्र वृत्तिमत् , अपि तु क्षणिके अक्षणिकज्ञानसमारोपव्यवच्छेदकरणात् स्यादिति चेत् ; अत्राह-समान इत्यादि । समाने सदृशे अत्र भूते दर्शनेन दृष्टे यः समारोपः विपर्ययज्ञानवि-२० शेषः तस्य व्यवच्छेदे निरासे संबृत्यनुमानयोः दर्शनोत्तरविकल्पानुमानयोः न कश्चिद् विशेषः भेदः । अनुमानं चेत् ; संवृतिरपि प्रमाणं स्यादित्यर्थः ।
ननु यथा क्षणिके अक्षणिकत्वसमारोपो नैवं नीले अनीलत्वसमारोपो यत्तद्वथच्छेदाय 'समान' इत्याधुच्यते इति चेत् ; अयमत्राभिप्रायः-यथा पूर्वापरक्षणयोः तद्वयात्ताया(तंव्याप्त)समारोपव्यवच्छेदादनुमानमर्थवत् तथा मध्यक्षणे स्थूलैकरूपे *"सञ्चिता- २५ लम्बनाः पञ्च विज्ञानकायाः" 'इत्यनेन परमाणुदर्शनारोपव्यवच्छेदात् संवृतिरपि अर्थवती स्यादिति । मरीचिकायां तोयसमारोपव्यवच्छेदाद्वा "तयोः[२०ख] विशेषं दर्शयन्नाह परःसाक्षात् इत्यादि । साक्षाद् अव्यवधानेन अनुभवाद् दर्शनाद् उत्पत्तिः नार्थात्संवृतेः इति अनुभवानकृत् (वानुकृत) प्रवृत्तिविषयानुकरणात् न तस्या भिन्नो व्यापार इति मन्यते ।
(१) नीलमिदमित्याकारं विकल्पज्ञानम् । (२) सर्व क्षणिकं सत्त्वादित्यादि । (३) 'अनधिगमाभावात्' इति निरर्थक भाति । (४) तनिर्णीतिः। (५) 'अनधिगतार्थाधिगन्तृ' पदेन । (६) क्षणिके । (७) संवृतिर्विकल्पः। (6) प्रमाणम् । (९) तस्मिन् व्याप्तः यः एकत्वारोपलक्षणः समारोपः । (१०) "सञ्चितालम्बनाः पञ्च विज्ञानकायाः इति सिद्धान्तः।"-प्र०वा०मनो. २११९४ । (11) संवृत्यनुमानयोः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org