________________
२४
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः (अन्यथे) त्यादि। तत्त्वसिद्ध निर्णयात्मकत्वप्रकाराद् अन्येन अविकल्पकत्वप्रकारेण अन्यथा तदफलम् 'अन्यतः' इत्येतदनुवर्तमानं वात्त ('वान्त)मिह संपद्यते । तदन्यदफलम् अविद्यमानप्रयोजनं क्वचिदनुपयोगात् । अत एव असाधनमप्रमाणम् । एतदपि कुतः ? इत्यत्राह-असतः खरविषाणादे न विशेष्यत न भिद्यत 'यतोऽन्यथा' इत्यनेन सम्बन्धः ।
ननु निर्णयात्मकत्वं नाम स्वार्थ ग्रहणात्मकत्वमिति चेत , तदसंभाव्यमिति चेत् ; अत्राहअकिश्चित्कर इत्यादि । न किञ्चित् करोतीति अकिञ्चित्करम् स्वापादिदर्शनं *"सिद्धयन्न परापेक्ष्यम्" [सिद्धिवि० १।२४] इत्यादि कारिकावृत्तौ प्रतिपादयिष्यमाणं संशयः स्थाणुर्वा पुरुषो वेति ज्ञानम् , विपर्ययः स्थाणौ पुरुष इति तत्र वा स्थाणुरिति वेदनं तौ करोतीति इति तत्करम् , पुनर्द्वन्द्वः तयोः व्यवच्छेदेन निरासेन निर्णयात्मकत्वम् नान्यथा ।
ननु तद्व्यवच्छेदो नीलाद्यपेक्षायाम् अविकल्पदर्शनेऽप्यस्तीति चेत् ; अत्राह-अन्यथा इत्यादि । येन प्रकारेण नीलादौ तद्व्यवच्छेद इति भावः, ततः तदात्मकत्वं तत्त्वसिद्धेः अभ्युपगन्तव्यम् इति स्थितम् ।
ननु च *"अज्ञातार्थप्रकाशो वा प्रमाणम्" [प्र०वा० १।५] इति वचनात् अगृहीतग्रहणाद् दर्शनमेव प्रमाणं न विकल्पो विपर्ययादिति चेत् ; अत्राह-अनधिगत इत्यादि। प्रमा१५ णान्तरेण अप्रकाशि[१९क]तोऽनधिगतः स चासौ अर्थश्च तस्य अधिगन्त परिच्छेदकं यद् विज्ञानं तत प्रमाणम् इत्यपि एवमपि न केवलं पूर्वप्रकारेण केवलम् अन्यानपेक्षा अनिर्णीताथस्य निर्णीतिः अभिधीयते । अस्यानभ्युपगमे दूषणमाह-अन्यथा इत्यादि । उक्तप्रकाराद् अन्यप्रकारेण अन्यथा अनधिगतार्थाधिगन्तृ दर्शनमेव प्रमाणमित्यभिधीयते न निर्णयज्ञानमिति
मन्यते । अतिप्रसङ्गात् नीलादाविव क्षणभङ्गादावपि दर्शनस्यैव प्रमाणत्वात् तदनुमानमनर्थकं २० स्यादिति अतिप्रसङ्गात् अनिर्णीतार्थनिर्णीतिः अभिधीयत इति पदघटना ।
नन्वयमर्थः 'दृष्टे प्रमाणान्तरावृत्तिप्रसद्वात् (ङ्गात् )' इत्येतेन प्रतिपादयिष्यते तत्किमनेन ? तस्माद् अन्यथा व्याख्यायते-स्थिरस्थूलस्वगुणावयवात्मकघटादिनिर्णीतिरेव अनधिगतार्थाधिगन्त्री प्रतीयते । तद् यदि ततोऽन्यद् अनधिगतार्थाधिगन्तृ प्रमाणं कल्प्यते तर्हि तस्मादप्यन्यत् तथाविधं तस्मादप्यन्यत् इत्यनवस्था अतिप्रसङ्गः तस्माद् अनिर्णीतार्थनिर्णीतिः अभि
२५ धीयते।
यत्पुनरुक्तम्- 'तत्प्रमाणम्' इति । तत्र प्रमीयते अनेन तत् प्रमाणम् , करणकारकम् , तच्च स्वार्थपरिच्छित्तिक्रियां प्रति साधकतममेव युक्तम् । न चेत्कं दर्शयन्नाह-(न चेत् कदर्थयन्नाह-) अधिगतमात्रस्य इत्यादि । स्वकारणार्थीकारदर्शनमात्रस्य । कथंभूतस्य ? इत्याहविसंवादकस्य निरंशानेकक्षणिकपरमाणुदर्शने [१९ ख] स्थूलैकस्थिरघटादिप्रापकत्वेन विप्रलम्भ
(१) 'वा' इति प्रथमाविभक्तेः संज्ञा। वान्तं प्रथमान्तमित्यर्थः । 'अन्यतः' इति पञ्चम्यन्तं पदं 'अन्यत्' इति प्रथमान्तरूपेणात्र सम्बद्ध्यते इति भावः । (२) पुरुषे । (३) इतिपदं द्विलिखितमत्र । (४) संशयादिव्यवच्छेदः। (५) निर्णयात्मकत्वम् । (६) गृहीतग्राहित्वात् । (७) "अत एवानधिगतविषयं प्रमाणम्"-न्यायबि. टी. पृ० १९। (८) सर्व क्षणिकमित्यनुमानम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org