________________
१३]
बहिरर्थसिद्धिः
तनत्वम् ; सुखादेः अचेतनत्वं तथा स्यात् सांख्येन तदभ्युपगमात् । तन्न दर्शनं सन्निकर्षादिवत् अनुमानविकल्पकारणमिति स्थितम् ।
;
1
तत्तु ('ननु) अभ्रान्तत्वात् सर्वत्र दर्शनमेव प्रमाणं न विकल्पो विपर्ययादिति चेत् ; अत्राह - अभ्रान्तत्वेऽपि इत्यादि । अस्यायमर्थः - तद्दर्शनं स्थूलस्तम्भाद्याकारेण अभ्रान्तं *'' दूरस्थितविरलकेशेषु स्थूलप्रतिभासेन व्यभिचारात् न तथा प्रतिभासाद् अवयविसिद्धिः" ५ इत्यस्य "सर्वमालम्बने भ्रान्तम्" [ प्र०वार्तिकाल० ३।१९६] इत्यस्य च व्याघातः । कल्पनापोढत्वं च दुर्लभं तस्य सवि [कल्प ] कत्वात् । अथ तेन भ्रान्तम् ; अन्यस्य अभ्रान्तस्य अभावाद् "अभ्रान्तमिति अनर्थकत्वान्न वाच्यम् । अथ व्यवहारेण तदुक्तम् ; विषयस्तस्य वक्तव्यः ? जायत्संभादिः (जाग्रत्स्तम्भादिः) इति चेत् ; उक्तमत्र - कल्पनापोढत्वं दुर्लभमिति परस् निकटे (विकट) सङ्कटप्रवेशः इति स न लभते तत्त्वविवेचनविकटाटवीम् । यदि तु तन्न १० तस्य तत्राभ्रान्तत्वं नाम | अभ्युपगम्य उच्यते अभ्रान्तत्वेऽपि, 'अन्यतः' इत्यनेन [१८] लब्ध'तो' परिणामेन सम्बन्धाद् 'अन्यस्य' इति गम्यते । कथं तत्का (तथा) इत्यत्राह - सर्वथा इति । नीलादिप्रकारेणेव पूर्वोत्तरक्षणविवेकादिप्रकारेणापि सर्वथा । तस्मिन् सति किम् ? इत्यत्राह - निर्णयवशात् प्रामाण्यसिद्ध : अन्यस्य प्रमाणत्वस्थितेः कारणात् तच्चा ( तदा)त्मकत्वं निर्णय - त्मकत्वं तत्त्वसिद्धेः अभ्रान्तबुद्धः प्रमाणस्य अभ्युपगन्तव्यम् । कथं प्रामाण्यसिद्धि: ? इत्यत्राह- कथञ्चित् इति । कथञ्चित् नीलादिप्रकारेण न प्रतिक्षणपरिणामादिप्रकारेण, तत्र व्यवहारिणो दर्शनव्यवहाराभावात् । न दि (हि) स यस्यन् (पश्यन् ) 'प्रतिक्षणपरिणामादिकं पश्यामि' इति मन्यते, 'तँदनुमानवैक (फ) ल्यप्राप्तेः, तद्व्यवहारसमारोपयोर्विरोधात् न "तद्व्यवच्छेदकरणात् तदर्थवत् । अथ व्यवहारमुल्लङ्घ्य तेनापि प्रकारेण तत्सिद्धिरिष्यते गतमिदम् - "प्रामाण्यं व्यवहारेण" [ प्र० वा० १।४] इत्यादि । न च परमार्थप्रतिभासाद्वैते क्षणभङ्गादिसंभव:; २० सर्वविकल्पातीतत्वेन 'तेद्भ्युपगमात् । ततो यथा व्यवहारेण क्षणभङ्गाद (द्य) भ्युपगमः तथा "तेनैव तत्र दर्शनम (नं ) प्रमाणयितव्यमिति साधूक्तम् - कथञ्चिदिति । नन्वयमर्थः 'अन्यतः ' इत्यादेः तृतीयव्याख्यानेन दर्शितः तत् किमनेनेति चेत्; न; पूर्वं * “प्रमाणमविसंवादि" [प्र० वा० १।१] इत्यस्यापेक्षया, इदानीं * " कल्पनापोडमभ्रान्तम् ' [ न्यायवि० १1४] इत्यस्यापेक्षया इत्यदोषः । उभयमप्येतत् निर्णये नान्यत्र इति मन्यते ।
१५
ननु यदि तत्त्वसिद्धिः (द्ध े :) 'तदात्मकत्वं न स्यात् को दोष इति चेत् ? अत्राह - अभ्यसे
(१) बौद्धः । (२) " यथैव केशा दवीयसि देशेऽसंसक्ता अपि घनसन्निवेशावभासिनः परमाणवोऽपि तथेति न विरोधः । " - प्र० वार्तिकाल० पृ० २९६, २८७ । “ परस्परविविक्ताणु प्रथमप्रतिभासनम् । विकल्पकात्तु विज्ञानात् घनाकारावभासिता ॥ प्र० वार्तिकाल० पृ०३३६ । (३) दर्शनस्य । ( ४ ) आलम्ब -. नेन । (५) प्रत्यक्षलक्षणे अभ्रान्तमिति पदम् । (६) अभ्रान्तमिति पदमुक्तम् । (७) जाग्रत्स्तम्भादिविषयत्वे हि तस्य विकल्पकत्वं स्यादिति भावः । (८) 'यदि तु' इत्यधिकं भाति । ( ९ ) 'ता' इति षष्ठीविभक्तेः संज्ञा । (१०) क्षणिकत्वानुमान । (११) समारोपव्यवच्छेद । ( १२ ) प्रतिभासा द्वैतस्वीकारात् । " ननु सर्वप्रत्ययप्रलय एवायं प्रवर्तते नात्र प्रतीतेरुदयः । " - प्र० वार्तिकाल० पृ० २९३ । ( १३ ) व्यवहारेणैव । (१४) निर्णयात्मकत्वम् ।
Jain Education International
२३
For Personal & Private Use Only
२५
www.jainelibrary.org