________________
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः *"न ह्याभ्यामर्थ परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते” इति । *'अभ्यासे भाविनि प्रवर्तकत्वात् प्रत्यक्षं प्रमाणम्" इति च । ननु मा भूत् दर्शनं साक्षात् प्रवर्तकम् अविसंवादकं वा, तथापि तथाविधविकल्पजननात् तदपि तथाविधमिति चेत् ; अत्राह-तद्धेतुत्वम् इत्यादि । ननु च *"तस्याश्चेत् जननात्" [सिद्धिवि० १।२] इत्यादिना *"प्रमेयव्यव५ सायः स्वतो यतः तदेव ज्ञानम्" [सिद्धिवि० १।४] इत्यन्तेन अयमर्थ उक्तः, तत् किमनेनेति
चेत् ; न; [समा]ध्यन्तरप्रतिपादनार्थत्वाददामः (ददोषः) । तथाहि-तस्य यथोक्तस्य विकल्पस्य हेतुः कारणम् तस्य भावः तत्त्वं दर्शनस्य यन्नत् (यत्तत्) सन्निकर्ष आदिर्यस्य इन्द्रियादेः तस्येव तद्वत् । एतदुक्तं भवति-यथा चक्षुःश्रोत्रमनसाम् [१७क] अँप्राप्यकारित्वात् त
ज्ज्ञानं प्रति सन्निकर्षस्य सत्यस्वप्नज्ञानं प्रति इन्द्रियस्य अकारणत्वात् न तत्र सन्निकर्षादेर्माना १० अपि तु ज्ञानस्यैव तथा 'यत् सत् तत्सर्वं क्षणिकम्' इति व्याप्तिज्ञानं प्रति न दर्शनस्य कारणता
तंत्र तंदभावात् न तत्र "तत् प्रमाणम् अपि तु विकल्प एव । अथ दर्शनमस्ति; तर्हि ततः सर्वस्य दर्शनात् सर्वस्य सर्वदर्शित्वमनुपायसिद्धम् , कथमन्यथा 'तस्य क्षणिकत्वेन व्यप्तिप्रतिपत्तिः-*"द्विष्ठसम्बन्धप्रतिपत्तिः" [प्र. वार्तिकाल० २।१] 'इत्यादि वचनात् । प्रादेशिकी न च व्याप्तिः ।
अथेयमपि नेष्यते; कथमनुमा नं यतो द्वे प्रमाणे स्याताम् ? व्यवहारेण तदङ्गीकरणात अशे (अदो)१५ षश्चेत् ; तर्हि व्यवहारेण उपगतेर्यथा प्राप्ये भाविनि प्रमाणमुपगतं तथा तंत्र अभ्युपगन्तव्यं
तदर्था मार्गभावना व्यर्था, तद्भावनाया अनुमानरूपायाः तस्य प्रागपि भावात् । संवृतिविकल्पश्चेत् ; सिद्ध सन्निकर्षादिवत् तस्य तं प्रत्यव्यापिहेतुत्वम् । ततो यथा सन्निकर्षादिपरिहारेण सर्वत्र दर्शना (न) मेव अतः प्रमाणं तथा अत एव दर्शनपरिहारेण विकल्प एव प्रमाणम् ।
अथवा यदुक्तं प्रज्ञा क रे ण-*"भाविनि प्रवर्तकत्वात् साक्षाद् अभ्यासे दर्शनं २० प्रमाणम् अनभ्यासे तत्रानुमानजननात्" 'इंति ; तत्राह-तद्धतुत्वं पुनः इत्यादि । तस्य
अनुमानविकल्पस्य हेतोदर्शनस्य भावः तत्त्वं 'पुनः' इति उभयत्र पक्षान्तरसमुच्चये सन्निकर्षादेरिव तद्वदिति । यथैव हि इन्द्रियार्थसन्निकर्षादिः [१७ख अनुमानस्य न हेतुः तथा दर्शनमपि । यदि पुनरचेतनत्वात् नेन्द्रियादि तद्धेतुः ; कथं दर्शनस्य चेतनत्वम् ? स्वतः प्रतिभासना
च्चेत् ; न ; शरीरसुखादिनीलादिव्यतिरेकेण परेण तत्प्रतिभासानभ्युपगमात् , शरीरादिप्रति२५ भासस्य विकल्पकत्वमिति निरूपयिष्यते इति परस्य पाशारज्जू । अथ अन्यस्य अभ्युपगमाच्चे
(१) प्रत्यक्षानुमानाभ्याम् । उद्धृतमिदम्-तत्त्वोप०पृ० २९ । सन्मति०टी०पृ० ४६८ । न्यायवि० वि. प्र. पृ. २५६, ५३२ । (२) तुलना-“यत्रात्यन्ताभ्यासादनिकल्पयतोऽपि प्रवर्तनं तत्र प्रत्यक्षं प्रमाणम् ।"-प्र. वार्तिकाल. पृ०२१८ । (३) अविसंवादिप्रवर्तकविकल्पोत्पादकत्वात् । (४) प्रत्यक्षमपि । (५) इति प्रारभ्य। (६) इति पर्यन्तेन । (७) सन्निकर्ष विनापि ज्ञानोत्पादकत्वात् । “अप्राप्तान्यक्षिमनःश्रोत्राणि'-अभिध. को. ११४३। (८) प्रमाणता । (९) व्याप्तिविषये । (१०) निर्विकल्पदर्शनस्याभावात् सर्वविषयत्वाद् व्याप्तः (११) निर्विकल्पदर्शनम् । (१२) सर्वोपसंहारवति व्याप्तिविषये । (१३) सर्वस्य । (१४) "नैकरूपप्रवेदनात् । द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम् ॥” इति शेषः। (१५) क्षणिकत्वादौ । (१६) नैरात्म्यमार्ग । (१७) तुलना-“यत्र भाविगतिस्तत्रानुमान मानमिष्यते। वर्तमानेऽतिमात्रेण वृत्तावध्यक्षमानता ॥"-प्र० वार्तिकाल. पृ० २१८ । (१८) बौद्धेन । दृष्टव्यम्-पृ० १९ टि. १४ । (१९) जैनस्य । (२०) दर्शनस्येति शेषः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org