________________
१३]
बहिरर्थसिद्धिः पुनरिदं प्रमादभाषितम्-*"नो चेद् भ्रान्तिनिमित्तेन" [प्र० वा० ३।४३] इत्यादि । तथा नीलादिविकल्पात् त्राक् (न प्राक् ) नापि सह निरंशदर्शनमिति इदमपि प्रपादप्रभाषितम्*"मनसोयुगपवृत्तेः" [प्र०वा० २।१३३] इत्यादि । भवतु तद्धतुस (स्त) दर्शनम् , न तु तत्प्रमाणम् अप्रवृत्तिहेतुत्वात् , अन्यत् प्रमाणं विपर्यायादिति चेत् ; अत्राह-अन्यत इत्यादि । स्वार्थविनिश्चयफलाद् यदन्यत् परस्तं ततो (परस्ततो) या प्रवृत्तिसत्यां (स्तस्यां)[१६क ५ विषयभूतायां योऽविसंवादोऽविप्रतिपत्तिः तस्य नियमेन अवश्यंभावेन अयोगात् । न हि लौकिकाः 'प्रतिपरमाणुभिन्ननिरंशदर्शनाद् वयं प्रवृत्ताः प्रवर्तामहे प्रवर्तिध्यामहे' इति प्रतिपद्यन्ते । अभ्यासावस्थायामपि स्थूलस्यैकस्य तद्ग्रहणावयवव्यापिनो जलादेर्दर्शनात् । ननु तत्फलादपि न दृश्यमाने प्रवृत्तिः; अनुभूयमानत्वात् , नापि भाविनि अप्रतिभासनादिति चेत्, न; पशूनामपि तृणादौ प्रवृत्तिदर्शनात् । निरूपयिष्यते चैतत् *"व्यवसायात्मनो दृष्टेः" [सिद्धिवि० ११५] १० इत्यादौ । भवतु श (वा) दर्शनात् प्रवृत्तिः तथापि तन्न प्र[माण]म; अन्यथा मरीचिकाजलज्ञानमपि स्यात् । अविसंवादि प्रमाणमिति चेत् ; अत्राह-अन्यत इत्यादि । अन्यतोऽविकल्पदर्शनात् प्रवृत्तौ सत्यां योऽविसंवादः दृष्टार्थप्राप्तिः तस्य नियमेन अयोगो निरंशक्षणिकपरमाणुदर्शनात् स्थूलैकस्थिरप्राप्तः । ननु व्यवसायफलादपि प्रवृत्तौ न दृष्टस्य प्राप्तिरस्ति तत्काले तदत्ययादिति चेत् ; न; चित्रैकज्ञानवत् दृश्यप्राप्ययोः कथञ्चिदेकत्वस्याविरोधादिति । करिष्यते १५ अत्र स्नः (प्रश्नः) *"पश्यन् स्वलक्षणान्येकम्" [सिद्धिवि० १।१०] इत्यादौ ।
ननु माभूत् क्षणिकनिरंशत्वादौ तदविसंवादः, दृश्य-प्राप्ययोः एकत्वारोप्य (पा)न्नीलादौ स्यादिति चेत् ; अत्राह-अन्यत इत्यादि । अन्यत इति व्याख्यातार्थम् , प्रवृत्तौ इति चें, अनन्तरम् अविसंवादस्य यो नियमः [१६ख] सर्वत्र दर्शनगोचरे भावः तस्याऽयोगात् नीलादौ योगो न पूर्वापरक्षणविवेके । व्यवहारिणं प्रति तत्रापि तदविसंवादेन अभ्यासे प्रत्यक्षं भाविनि प्रमाणं .. भवेत् , अन्यथा प्रतिपन्नव्यभिचारस्य शङ्ख पीतज्ञानं प्राप्ये संस्थाने प्रमाणमिति व्यर्थकमिदमनुमानं नाम-*"एवं प्रतिभासो यः" [प्र०वार्तिकाल० पृ० ५] ईत्यादि । भवतु तत्रैवः (यत्रैव) तयोर्गः तत्रैव प्र[मा]णं स्यात् नान्यत्र इत्येकस्य प्रमाणेतरभावः । व्यवहारतः सोऽप्यस्तु इति चेत् ; किं पुनरिदं व्यवहारादन्यत्र चिन्तितम्-*"प्रत्यक्षं कल्पनापोहम्" [प्र०वा०२। १२३] इत्यादि । तथा चेत् ; 'चातुर्विध्यकथनमयुक्तम् परमार्थ[तः] तदसंभवात् । अतोऽयुक्तमेतत्
(१) "नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारः रूपसाधर्म्यदर्शनात् ॥"-प्र. वा. ३।४३ । (२) "मनसोर्युगपदवृत्तः सविकल्पाविकल्पयोः । विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥"-प्र. वा. २११३३। (३) स्वार्थविनिश्चयफलादपि । (४) प्रवृत्तिकाले। (५) क्षणिकत्वेन तद्विनाशात् । (६) निर्विकल्पकदर्शनस्य अविसंवादः। (७) व्याख्यातार्थम् । (८) “पीतशङखादिविज्ञानं तु न प्रमाणमेव तथार्थक्रियावाप्तेरभावात् । संस्थानमात्रार्थक्रियाप्रसिद्धावन्यदेव ज्ञानं प्रमाणमनुमानं तथाहि प्रतिभास एवम्भूतो यः स न संस्थान वर्जितः। एवमन्यत्र दृष्टत्वादनुमान तथा च तत् ॥ येन कदाचिद व्यभिचार उपलब्धः स यथाभिप्रेते विसंवादाद् विसंवाद्यत एव । यस्तु व्यभिचारसंवेदी स विचार्य प्रवर्तते संस्थानमात्रं तावत् प्राप्यते परत्र सन्देहो विपर्ययो वा । ततोऽनुमानं संस्थाने संशयः परत्रेति प्रत्ययद्वयमेतत् प्रमाणमप्रमाणं च।"-प्र. वार्तिकाल. पृ० ५। (९) अविसंवादसद्भावः। (१०) "प्रत्यक्षेणैव सिद्ध्यति । प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः॥” इति शेषः । (११) “तच्चतुर्विधम्"-न्यायबि. १७। इन्द्रियमानसस्वसंवेदनयोगिप्रत्यक्षभेदात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org