________________
२०
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः नीलादिज्ञानव्यक्तिव्यतिरेकेण नापरः प्रतिपत्ता अस्ति, तत् कथमुच्यते 'प्रतिपत्तुः' इति चेत् ? न ; जीवसिद्धिप्रकरणे अस्य उत्तरनिरूपणं भविष्यति किमौत्सुक्येन ?
का[रिका]याः पूर्वार्धस्य सुगमत्वात् [१५क] उत्तरार्धस्य सयुक्तिकमर्थं दर्शयन्नाह'यथास्वम्' इत्यादि। अस्यायमर्थः-प्रमेयस्य घटादेः व्यवसायो विनिश्चयः नाधिग५ तिमात्रम् दृष्टे प्रमाणान्तरावृत्तिप्रसङ्गात् । यतो यदाश्रित्य यस्माद्वा 'भवति' इत्यध्याहारः तदेव नान्यत् प्रमाणम् । *'पक्षधर्मतानिश्चयः क्वचित प्रत्यक्षतः" इत्यत्र यदुक्तं ध ो त्त रे ण-*"यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता" इति तद् व्येति, एतद् एवकारेण दर्शयन्ति । न हि प्रमेयव्यवसायः तदाश्रित्य ततो वा भवति इति, यद्वक्ष्यते अत्रैव- *"अभेदात् सशस्मृ
त्याम्" [सिद्धिवि० ११७] इत्यादि । भवतु वा निर्विकल्पदर्शनात् तद्व्यवसायः, तथापि तन्न १० प्रमाणमिति दर्शयन्नाह-स्वतः इति । [स्वतः] स्वात्मनो न परम्परया विकल्पजननात् , उक्तदोषात्
*'तस्याश्चेद्' [सिद्धिवि० १।२] इत्यादिकाद् वक्ष्यमाणकाच *"अनुमानेऽप्येवं प्रसङ्गात्' इत्यस्मात् । एतेन सन्निकर्षादिरपि चिन्तितः। यदि तर्हि स्वतो यतः प्रमेयव्यवसायः तत् प्रमाणम्, परोक्ष-ज्ञानानुर (नान्तर) प्रत्यक्ष-प्रधानपरिणामज्ञानतः [न] स्वतः सदेव प्रमाणं
स्यात् ; इत्यत्राह-'यथास्वम्' इति । स्वशब्दोऽयं ज्ञानात्मवाचक इति, तस्य अनतिक्रमण १५ यथास्वं स्वव्यवसायेन सह तद्व्यवसायो यत इत्यर्थः ।
१"अन्ये तु अन्यता (थाऽ)वतार्य एतद् व्याचक्षते-यदि "तद्व्यवसायो यतो भवति तदेव प्रमाणम् सर्व[ज्ञ]ज्ञानमेव प्रमाणं स्यादिति; अत्राह-यथास्वम् [१५ख] इति । यद्यस्य ज्ञानस्य स्वग्रहणयोग्यं तस्य अनतिक्रमेण इति । तत्र प्रमातुं शक्यं योग्यं स्वप्रमे
यम् इत्यनेन गतः । ननु मा भूत् तज्ज्ञानं प्रमाणम्, रस्यात् (सरस्यां) तारानिकरमिव २. चैतन्यस्वभावे पुंसि प्रमेयस्य अवभासनात् स एव प्रमाणमिति चेत् ; अत्राह-ज्ञानम् इति ।
*"मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम्" [त० सू० ११९] तत्प्रमाणम् न पुमान् तस्य प्रमातृत्वात् नित्य[त्व]प्रतिषेधाच्च । ननु तैव्यवसायफलं न ज्ञानं प्रमाणम् अपि तु
स्वकारणाकारमिति चेत् ; न; जलाधारोपहेतोमरीचिकादिदर्शनस्यापि प्रमाणतापत्तः, ततोऽपि "सम्यग्ज्ञानपूर्विका सकलपुरुषार्थसिद्धिः स्यादिति मरीचिकाद्यर्थिनो दिप्रसर्पणादिति गानु२५ सरणमयुक्तं स्यात् (?) 'नं चैवं तदनुसरणमयुक्तम् स्यात् । न चैवं तदनुसरणदर्शनात् । अथ जलादिज्ञानमेव नापरं तत्समानकालभावि पूर्वकालभावि वा मरीचिकादिदर्शनम् ; किं
(१) सन्निकर्षादि । (२) तुलना-"पक्षधर्मश्च यथास्वं प्रमाणेन निश्चितः"-प्र० वा. स्व० पृ०१८ । "तत्र पक्षधर्मस्य साध्यधर्मिणि प्रत्यक्षतोऽनुमानतो वा प्रसिद्धिः"-हेतुबि० पृ० ५३ । (३) यस्मिन् नीलाघंशे । (४) सविकल्पबुद्धिम् । (५) निर्विकल्पस्य । (६) निर्विकल्पदर्शनात् । (७) ग्रन्थे । (८) प्रमेयनिश्चयः । (९) परोक्षज्ञानवादिनो मीमांसकाः, ज्ञानान्तरप्रत्यक्षज्ञानवादिनो नैयायिकाः, प्रधानपरिणामज्ञानवादिनः सांख्याः । (१०) टीकाकाराः । (११) स्वपरव्यवसायः। (१२) पुरुष एव । (१३) तद्व्यवसायः प्रमेयनिश्चयः फलं यस्य तत् । (१४) स्वकारणभूतस्य अर्थस्य आकारधारकं यज्ज्ञानं तत्प्रमाणमित्यर्थः। (१५) मरीचिकादर्शनादपि । (१६) तुलना-“सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति..."-न्यायबि. ११ । (१७) 'न चैवं तदनुसरणमयुक्तं स्यात्' इति व्यर्थमत्र पुनर्लिखितम् । .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org