________________
१३]
बहिरर्थसिद्धिः
१९
;
त्रापि समाना । यदि तत्र सा न पारमार्थिकी किं तर्हि पारमार्थिकम् ? [सं] वेदनाद्वैतं चेत् ; न; द्वयप्रतिभासप्रतिपादनात् । तन्नायमपि पक्षो युक्तः ।
तृतीयविकल्पे नैकान्तेन अर्थनिषेधः, पाक्षिकस्य तद्भावस्य अनिषेधात् । नहि 'स्थाणुर्वा Sयं पुरुषो वा' इति सन्देहे [१४] ' पुरुषो न भवति' इति निश्चयोऽस्ति, विरोधात् । ननु भवत्वेवम् ; तथापि किं तेन' अप्रवृत्तिहेतुना ? प्रवृत्त्यर्थ हि बहिरर्थ इष्यते इति चेत् ; कथं भव - ५ तः संवित्तिमात्रे प्रवृत्ति: ? बहिरर्थसन्देहे 'तत्रापि सन्देहात् । कथं वा अर्थे सन्देहः ? तत्प्रतिभासस्य तदभावेऽपि स्वप्नौ दर्शनादिति चेत्; एवं [तदा] "तदभाव एव युक्तो न सन्देहः, कथमन्यथा किञ्चित् प्रत्यक्षं स्वसंवेदनं निर्विकल्पस्वोप (ल्पञ्चोप) लभ्य सर्वत्र तथैव स्यात् ? अत्रापि सन्देह एव युक्तः । कुतो वा स्वप्ने बहिरर्थाभावसिद्धि: ? स्वयमनभ्युपगमात्, बाध्यबाधकभावनिषेधविरोधात् । पराभ्युपगमादिति चेत्; न; अतिप्रसङ्गात् । यथैव हि परेण तत्र तस्य १० असत्त्वमभ्युपगतं तथा क्षणिकत्वप्रकारादेरपि इति सर्वत्र क्षणिकत्वादावपि सन्देहः स्यात् । अथ स्वप्नेऽपि सन्देहः ; स कुतो जातः ? तददर्शनादिति चेत्; कथमदर्शनम् ? दर्शने अतिप्रसङ्गात् । तस्य तद्व्यभिचाराच्चेत्; किं पुनरिदमुभयत्र दृष्टं येनैवम् ? तथा चेत्; नैकान्तेन अर्थाभावः, तन्नामपि विकल्पो युक्तः ।
चतुर्थविकल्पेऽपि यथा बहिः सदसत्त्वविकल्पातीतता तथा वेदनेऽपि स्वपरवेदनविकल्पा - १५ तीतता स्यादिति न किञ्चित् स्यात् । अथ परनिरपेक्ष स्वसंवेदनस्य वेदनस्य प्रतीतेर्नायं दोषः ; कथमदोषः, यतः स्वसंवेदनेऽपि सदसत्त्वविकल्पाती [१४ख ] ततायाम् अर्थवन्न तत्सिद्धिः, इतरथा अर्थानिषेध (ध) । किञ्च, अन्यस्मिन् पक्षे प्रमाणमविसंवादि ज्ञानम् इत्यादि व्यवहारेण अज्ञातार्थप्रकाशो वा इति परमार्थेन प्रमाणलक्षणम्" [प्र० वार्तिकाल ०] इति विहन्यते, उभयत्राविशेषात् । तदयम्" अन्तर्बहिरविशेषं ब्रुवन्नेव स्वसंवेदनाद्वैतं वदतीति कथं २० स्वस्थः ? अथ स्वसंवेदने ( नं) परमार्थसदिष्यते बहिरर्थपरिहारेण ; तर्हि "अन्येनापि स्वप्नदृष्टपरिहारेण "अन्यदा दृष्टः तथा सन्निष्यतामिति स्थितम् -'अर्थविनिश्चयः प्रमाणस्य फलम्' इति । स्वनिश्चयः पुनः * “अङ्गीकृतात्मसंवित्तेः " [सिद्धिवि० ११९] इत्यादौ * “सिद्धं यन्न परापेक्षम्” [सिद्धिवि० १।२४] इत्यादौ च निरूपयिष्यते ।
93
भवत्वेवं ततः किं स्यादिति चेत् ? अत्राह - प्रतिपत्तुः इत्यादि । स्वं च अर्थं च प्रतिपद्यते २५ विषयीकरोतीति प्रतिपत्ता पुरुषः तस्य अपेक्ष्यं तेन अपेक्ष्यते स्वपरप्रतिपत्तौ यत् ज्ञानं तदेव प्रमाणम् । ननु ( नतु ) नैव पूर्वकं तत्कारणं निर्विकल्पकदर्शनं सन्निकर्षादि वा, पूर्वशब्दस्य कारणवाचित्वात् । नहि अन्यतः तत्फलनिष्पत्तौ अन्यत् प्रमाणम्, अतिप्रसङ्गात् । " ननु सुखादि
(1) बहिरर्थेन । (२) संवित्तिमात्रेऽपि । (३) अर्थाभावेऽपि । ( ४ ) स्वप्नसमये । (५) अर्थाभावः । (६) स्वमे । ( ७ ) बहिरर्थस्य । ( ८ ) असस्वमभ्युपगतम् । ( ९ ) संवेदनसिद्धिः । (१०) द्रष्टव्यम् पृ०१२ टि०७ (११) संवेदनाद्वैतवादी । (१२) जैनादिनापि । (१३) जाग्रदवस्थायाम् । (१४) प्रतिभासाद्वैतवादी प्रज्ञाकरः प्राह । तुलना - " तस्मात् सुखादिनीलादिव्यतिरिक्तमपरमिह जगति संवेदनं नास्तीति सुखादिवत् स्वसंवेदनं नीलादिकमपि इति युक्त एष निर्णयः । प्र० वार्तिकाल० ३।५०८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org