________________
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
संलग्नतयेव प्रतिभा [१३] तीति प्रतिपद्यते, तथा पर्वतोऽप्यन्यदेशस्तद्देशतया प्रतिभातीति प्रतिपद्यते (पद्येत ) इति । यदि पुनरयं निर्बन्धः सर्वत्र सैवास्तु इति ; तर्हि यथा अनुमानस्य अस्पष्टः सामान्याकारो बाह्ये स्वलक्षण आरोपात् प्रतिभाति, अन्यथा 'ततः तत्र प्रवृत्तिर्न स्यात्, तथा सर्वत्र ज्ञाने स्वसंवेदनरूपता अन्यस्य तत्र आरोपिता प्रतिभाति 'अन्यत्र अरोपिता प्रति५ भाति अन्यत्रापि अन्यस्य इत्यनवस्था । असत्त्वव्याति (असत्ख्याति ) रित्यन्ये ; तदनन्तरं निरूपयिष्यते । तन्न प्रथमपक्षः ।
१८
“द्वितीयेऽपि स्वप्ने बहिरर्थाभावमुपलभ्य 'अन्यत्र तदभावसाधने इदमनुमानमाश्रितं स्यात्*“निरालम्बनाः सर्वप्रत्ययाः प्रत्ययत्वात् स्वप्न प्रत्ययवत् " [प्र० वार्तिकाल० ३ | ३३१] इति । तत्रेदं चिन्त्यते - प्रत्ययत्वं यदि साकल्येन स्वसाध्येन व्याप्तं न ; कथमतः साध्यसिद्धिः अ१० तिप्रसङ्गात् ? व्याप्तं चेत्; कथमप्रतीतं तत्तथा ? तत्प्रतीतिश्चेत् निरालम्बना; स एव दोषः, 'अन्यथा अनयैव हेतोर्व्यमिचारः । एतेन अनुमानमपि चिन्तितम् । अथ नानुमानं सर्वप्रत्ययलंब नत्व (प्रत्ययानालम्बनत्व) विषयत्वात् प्रमाणम् अपि तु समारोपव्यवच्छेदात् ; भवेदेवं यदि अन्यतः प्रमाणात् तत् प्रतिपन्नं स्यात्, न चैवमिति निरूपयिष्यते । अपि च, यथा सौगतः "स्वप्न [नि ] दर्शनेन नै सर्वत्र बहिरर्थाभावं साधयति तथा अन्योऽपि यदि ग्राह्याकार निदर्शनेन १५ संवेदनाभावं साधयेत् कथं संवेदनमात्रसिद्धिः यतस्तत्र सौगतस्य आस्था स्यात् ?
90
"
अथ तदपि तथास्तु ; तथाहि - "यद्विसदर्शन [१३] दशावसेयं न तत् परमार्थसत् यथा कामलिना उपलब्धमिन्दुद्वयम्, विसदर्शनावसेयं च संवित्त्यादीति । अत्रापि परमार्थसत्त्वादन्यत् तदभावमात्रं वा साध्येत ? तत्र द्वितीयविकल्पस्य प्रथमचतुर्थष्यवि (वि) कल्पे चर्चा भविष्यति । प्रथमविकल्पे तु पूर्ववद् दोषः । * न च सर्वविभ्रमे विभ्रमसिद्धि; अतिप्रसङ्गात् ।
२०
ननु [न] परमार्थतः कस्यचित् केनचिद् व्याप्तिरिष्यते, नापि कुतश्चित् किञ्चित् साध्यते, अपि तु यथा व्यवहारेण बहिरर्थवादिना एकत्र अग्नेर्धूमदर्शनात् सर्वत्र सर्वदा ' तत एव स नान्यतः, धूमदर्शनाच्च अग्निरनुमीयते तथा प्रकृतमन्येन अनुष्ठीयत इति चेत ; उक्तमत्र * " सर्वेषामर्थसिद्धिः" [आप्तमी ० श्लो० ८१] स्यादिति । शक्यं हि " तैरपि वक्तुम् -' नास्माभिः केनचित् कस्यचित् व्याप्तिः साध्यते, किन्तु घटादौ बुद्धिमत्कारणत्वादिना कार्यत्वादेः सहभावदर्शनात्, "अन्यत्र २५ तद्दर्शनात् साध्यमनुमीयते । तथा च "पक्षधर्मः" [हेतुवि० श्लो० १] ' इत्यादि लिङ्गलक्षणमवाच्यम् निवर्त्याभावात् । अथ तथा पारमार्थिकी साध्यसिद्धिर्न स्यादिति मतिः ; सा अन्य
(१) आदित्य देशतया । (२) अनुमानात् । (३) स्वलक्षणे । ( ४ ) ' अन्यत्र आरोपिता प्रतिभाति' वाक्यमेतन्निरर्थकम् । ( ५ ) स्वप्नदशावत् जाग्रद्दशायामपि अर्थो नास्तीत्यस्मिन् विकल्पे । (६) जाग्रदवस्थायाम् । (७) साकल्येन स्वसाध्यव्याप्तं प्रतिपन्नमिति भावः । (८) सालम्बनत्वे । ( ९ ) अनुमानम् । (१०) स्वप्नदृष्टान्तेन । (११) 'न' इति निरर्थकम् । ( १२ ) जैनादिः । (१३) यद् विसंवादिदर्शनविषयम् । (१४) "विभ्रमे विभ्रमे तेषां विभ्रमोऽपि न सिद्ध्यति । " - न्यायवि० १।५४ | (१५) महानसादौ । (१६) अग्नेरेव धूमः । (१७) नैयायिकादिभिरपि । “विवादास्पदं बोधाधारकारणं कार्यत्वात्, यद्यत् कार्यं तत्तद् बोधाधारकारणं यथा घटादि " - प्रश० व्यो० पृ० ३०२ । (१८) तनुकरणभुवनादिषु । ( १९ ) " पक्षधर्मस्तदंशेन व्याप्ती हेतुविधैव सः । अविनाभावनियमाद्धेत्वाभासास्ततोऽपरे ॥" - हेतुबि० लो०१ । प्र०वा०३।१
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org