________________
बहिरर्थसिद्धिः
१७
१३]
स्वतश्चेत् ; भावोऽपि तथैव सन्निति किं तदपेक्षणेन ? अन्यतश्चेत्; अनवस्था स्यात् । ततो यत्किचिदेतदिति चेत्; अत्र प्रतिविधीयते -
५
जाग्रदशावत् ; स्वप्नेऽपि बहिरर्थोऽस्तु, किं वा स्वप्नदशावत् अन्यदापि समान् दुभय तु सदेहः ( स मा भूत्, भवतु सन्देहः ), सर्वविकल्पातीतता वा यथा स्यादिति जाग्रत्-स्वप्नदशयोः अविशेषचोदनेयम् ? तत्र प्रथमपक्षे स्वप्नदशायामपि बहिरर्थसिद्धेः 'तज्ज्ञानमपि प्रमाणमिति तल्लक्षणप्रणयनमयुक्तं व्यवच्छेद्याभावादिति । [ अस्मिन् ] मते को दोष: ? नापर: प्रमाणप्रमेयाऽनिषेधात् । परस्य मते को दोषः ? सकलस्वमतविलोपात् विज्ञप्तिमात्रादेः असिद्धेः । किञ्च, स्वप्नादिज्ञानवद् ईश्वराद्यनुमानादिकमपि स्वप्रतिभासिनाऽर्थेन अर्थवदिति तन्निषेधवचनं प्रज्ञा करस्य गुप्तवि - गोपकम् । अथ दुष्टलिङ्गादिकारणजनितत्वात् तन्निर्विषयम्; पश्यत अस्य वाच्यं ध्यं (वान्ध्यम् ) स्वयमेव स्वस्वप्नादिज्ञाने दुष्टकारणारब्धत्वं निराकृत्य "अत्र अभ्युपगच्छतः ।
१०
एतेन इदमपि प्रत्युक्तम् तौन (यदुक्तं तेन ) * " न तदनुमानाद्यर्थवत् स्वपरिच्छिन्नादन्यस्य प्रापकत्वात्" इति ; स्वप्नादावपि तथा प्रसङ्गात् । तन्न प्रज्ञा करस्य किञ्चिद् अनर्थज्ञानम् । तदुक्तम्—
*“"बहिरङ्गार्थतैकान्ते प्रमाणाभासनिह्नवात् ।
सर्वेषामर्थसिद्धिः [१२ख] स्यात् विरुद्धार्थाभिधायिनाम् ॥”
१५
[आप्तमी० लो० ८१] इति । अपसिद्धान्तश्चास्य निग्रहस्थानं स्यात् । अथ मदीयोऽयं सिद्धान्त इति न दोषः ; न ; अस्य मीमांसकसिद्धान्तस्य हि 'सर्वं सालम्बनं ज्ञानम्' इति मतम् । अयं तु विशेष:- 'कचिल्लोकिकः क्वचिदलौकिकोऽर्थ आलम्बनम्' इत्येके । सर्वत्र लौकिको आलोवा (अलौकिको वा) कस्मान्नेति चेत् ? अथ परस्य मरीचिकाजलम् अन्यजलवत् कस्मान्न स्नानादिकृत् ? स्वकारणात् त- २० थोत्पत्तेरिति चेत् ; किं पुनरस्य कारणम् ? अदृढवासनेति चेत्; सर्वत्र एकरूपा वासना अन्यद्वा कुतो न ? तथाऽप्रतीतेरिति चेत् ; अत एव तर्हि न सर्वो लौकिकोऽलौकिक वाऽर्थः । अथ जाग्रत्क्रियासमत्वात् स्वप्नार्थक्रिया लौकिकी, तत्कार्यर्थोऽपि तथाविधं एवेति मतिः ; ि *“यत् सत् तत्सर्वं क्षणिकं यथा घटः, संश्च शब्दः " [हेतुवि० पृ० ५५] इति क्षणिकत्वप्रतिपत्त्यर्थक्रियासमत्वात् नित्येश्वरादिप्रतिपत्तिरप्यर्थक्रिया इति तत्कारणंकलापोऽप्यर्थः स्यात् । २५ यदि पुनः " इयमर्थक्रिया न भवति ; स्वप्नेऽपि न स्यात् । तथा जाग्रदशाभाविन्यपि न स्यादिति चेत्; क्षणिकादिसिद्धिरपि न स्यादिति सर्वाऽविशेष चोदना ।
स्वप्ने "विपरीतख्यातिः अन्यदेशादिस्थस्य अन्यदेशादितया प्रतिभासनात् इत्यपरे । सर्वत्र सैव कुतो नेति चेत् ? न ; तथाऽप्रतीतेः । नहि यथा लोके आदित्योऽन्यदेशोऽपि प्रातः पर्वत
(१) स्वप्नज्ञानमपि । ( २ ) प्रमाणलक्षण । ( ३ ) ईश्वराद्यनुमान निषेधवचनम् । द्रष्टव्यम् - प्र० वार्तिकाल० पृ० ३२ । ( ४ ) ईश्वराद्यनुमानम् । (५) ईश्वराद्यनुमाने । (६) बौद्धस्य । (७) आलम्बनम् । (८) लौकिक एव । (९) ईश्वरादिः । (१०) नित्येश्वरादिप्रतिपत्तिः । (११) तुलना - "अस्तु तर्हि विपरीतख्यातिः पूर्वकालमेव दृश्यते तत्कालतया”-प्र० वार्तिकाल० पृ० १९५ । ( १२ ) जैनादयः । “विपरीतख्यातिस्तस्मादाश्रयणीया मतिमद्भिः । " - न्यायम० पृ० १७३ । न्यायकुमु० पृ० ६६ ।
३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org